०४४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

चतुर्थेऽनुवाके षट् सूक्तानि । तत्र ‘यो रयिवः’ इति चतुर्विंशत्यृचं प्रथमं सूक्तं बृहस्पतिपुत्रस्य शंयोरार्षमैन्द्रम् । आदितः षडनुष्टुभः सप्तम्यष्टमीनवम्यो विराजोऽष्टम्येकैव वा विराट् शिष्टास्त्रिष्टुभः। तथा चानुक्रान्तं– यो रयिवश्चतुर्विंशतिः शंयुर्बार्हस्पत्यो ह्यादौ षळनुष्टुभस्तिस्रश्च विराजो मध्यमैत्र वासाम्’ इति । गतः सूक्तविनियोगः ।।

Jamison Brereton

44 (485)
Indra
Śaṃyu Bārhaspatya
24 verses: anuṣṭubh 1–6, triṣṭubh or virāj 7, 9, virāj 8, triṣṭubh 10–24, arranged in trcas ̥
A composite hymn placed toward the end of the Indra cycle in Maṇḍala VI, the hymn consists of eight tr̥cas, the first two (vss. 1–6) in anuṣṭubh, the third (vss. 7–9) in a mixture of triṣṭubh and virāj, and the remaining five (vss. 10–24) in triṣṭubh. Several of the tr̥cas are rhetorically unified: 1–3 with its repeated second half-verse following a definitional relative clause; 19–21 with its insistent “bull” theme; 22–24 with its repeated half-verse-initial “this one here” (ayám) referring to soma. The others have less obvious internal unity, though there is often a continuity of theme or subject. There is also no visible external unity among the tr̥cas collected in this “hymn,” though it seldom strays far from Indra and the soma-drinking, the topic of many of the immediately preceding hymns. Indeed, Oldenberg (1888: 203) suggests that VI.44 owes its position to the similarity between the refrain of its first tr̥ca and the refrain of VI.43.

01 यो रयिवो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ रयिवो रयिं᳓तमो
यो᳓ द्युम्नइ᳓र् द्युम्न᳓वत्तमः
सो᳓मः सुतः᳓ स᳓ इन्द्र ते
अ᳓स्ति स्वधापते म᳓दः

02 यः शग्मस्तुविशग्म - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यः᳓ शग्म᳓स् तुविशग्म ते
रायो᳓ दामा᳓ मतीना᳐᳓म्
सो᳓मः सुतः᳓ स᳓ इन्द्र ते
अ᳓स्ति स्वधापते म᳓दः

03 येन वृद्धो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓न वृद्धो᳓ न᳓ श᳓वसा
तुरो᳓ न᳓ स्वा᳓भिर् ऊति᳓भिः
सो᳓मः सुतः᳓ स᳓ इन्द्र ते
अ᳓स्ति स्वधापते म᳓दः

04 त्यमु वो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तिय᳓म् उ वो अ᳓प्रहणं
गृणीषे᳓ श᳓वसस् प᳓तिम्
इ᳓न्द्रं विश्वासा᳓हं न᳓रम्
मं᳓हिष्ठं विश्व᳓चर्षणिम्

05 यं वर्धयन्तीद्गिरः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यं᳓ वर्ध᳓यन्ति इ᳓द् गि᳓रः
प᳓तिं तुर᳓स्य रा᳓धसः
त᳓म् इ᳓न् नु᳓ अस्य रो᳓दसी
देवी᳓ शु᳓ष्मं सपर्यतः

06 तद्व उक्थस्य - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓द् व उक्थ᳓स्य बर्ह᳓णा
इ᳓न्द्रायोपस्तृणीष᳓णि
वि᳓पो न᳓ य᳓स्य ऊत᳓यो
वि᳓ य᳓द् रो᳓हन्ति सक्षि᳓तः

07 अविदद्दक्षं मित्रो - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓विदद् द᳓क्षम् मित्रो᳓ न᳓वीयान्
पपानो᳓ देवे᳓भ्यो व᳓स्यो अचैत्
ससवा᳓न् स्तौला᳓भिर् धौत᳓रीभिर्
उरुष्या᳓ पायु᳓र् अभवत् स᳓खिभ्यः

08 ऋतस्य पथि - विराट् त्रिष्थुब्वा

विश्वास-प्रस्तुतिः ...{Loading}...

ऋत᳓स्य पथि᳓ वेधा᳓ अपायि
श्रिये᳓ म᳓नांसि देवा᳓सो अक्रन्
द᳓धानो ना᳓म महो᳓ व᳓चोभिर्
व᳓पुर् दृश᳓ये वेन्यो᳓ वि᳓ आवः

09 द्युमत्तमं दक्षम् - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

द्युम᳓त्तमं · द᳓क्षं धेहि अस्मे᳓
से᳓धा ज᳓नानाम् पूर्वी᳓र् अ᳓रातीः
व᳓र्षीयो व᳓यः कृणुहि श᳓चीभिर्
ध᳓नस्य साता᳓व् अस्माँ᳓ अविड्ढि

10 इन्द्र तुभ्यमिन्मघवन्नभूम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्र तु᳓भ्यम् इ᳓न् मघवन्न् अभूम
वयं᳓ दात्रे᳓ हरिवो मा᳓ वि᳓ वेनः
न᳓किर् आपि᳓र् ददृशे मर्तियत्रा᳓
कि᳓म् अङ्ग᳓ रध्रचो᳓दनं तुवाहुः

11 मा जस्वने - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ ज᳓स्वने वृषभ नो ररीथा
मा᳓ ते रेव᳓तः सखिये᳓ रिषाम
पूर्वी᳓ष् ट इन्द्र निष्षि᳓धो ज᳓नेषु
जहि᳓ अ᳓सुष्वीन् प्र᳓ वृहा᳓पृणतः

12 उदभ्राणीव स्तनयन्नियर्तिन्द्रो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् अभ्रा᳓णीव स्तन᳓यन्न् इयर्ति
इ᳓न्द्रो रा᳓धांसि अ᳓श्वियानि ग᳓व्या
तुव᳓म् असि प्रदि᳓वः कारु᳓धाया
मा᳓ त्वादामा᳓न आ᳓ दभन् मघो᳓नः

13 अध्वर्यो वीर - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध्वर्यो वीर प्र᳓ महे᳓ सुता᳓नाम्
इ᳓न्द्राय भर स᳓ हि᳓ अस्य रा᳓जा
यः᳓ पूर्विया᳓भिर् उत᳓ नू᳓तनाभिर्
गीर्भि᳓र् वावृधे᳓ गृणता᳓म् ऋ᳓षीणाम्

14 अस्य मदे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्य᳓ म᳓दे पुरु᳓ व᳓र्पांसि विद्वा᳓न्
इ᳓न्द्रो वृत्रा᳓णि अप्रती᳓ जघान
त᳓म् उ प्र᳓ होषि म᳓धुमन्तम् अस्मै
सो᳓मं वीरा᳓य शिप्रि᳓णे पि᳓बध्यै

15 पाता सुतमिन्द्रो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पा᳓ता सुत᳓म् इ᳓न्दरो+ अस्तु सो᳓मं
ह᳓न्ता वृत्रं᳓ व᳓ज्रेण मन्दसानः᳓
ग᳓न्ता यज्ञ᳓म् पराव᳓तश् चिद् अ᳓छा
व᳓सुर् धीना᳓म् अविता᳓ कारु᳓धायाः

16 इदं त्यत्पात्रमिन्द्रपानमिन्द्रस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इदं᳓ तिय᳓त् पा᳓तरम्+ इन्द्रपा᳓नम्
इ᳓न्द्रस्य प्रिय᳓म् अमृ᳓तम् अपायि
म᳓त्सद् य᳓था सौमनसा᳓य देवं᳓
वि᳓ अस्म᳓द् द्वे᳓षो युय᳓वद् वि᳓ अं᳓हः

17 एना मन्दानो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एना᳓ मन्दानो᳓ जहि᳓ शूर श᳓त्रूञ्
जामि᳓म् अ᳓जामिम् मघवन्न् अमि᳓त्रान्
अभिषेणाँ᳓ अभि᳓ आदे᳓दिशानान्
प᳓राच इन्द्र प्र᳓ मृणा जही᳓ च

18 आसु ष्मा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आसु᳓ ष्मा णो मघवन्न् इन्द्र पृत्सु
अ᳡स्म᳓भ्यम् म᳓हि व᳓रिवः सुगं᳓ कः
अपां᳓ तोक᳓स्य त᳓नयस्य जेष᳓
इ᳓न्द्र सूरी᳓न् कृणुहि᳓ स्मा नो अर्ध᳓म्

19 आ त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ त्वा ह᳓रयो वृ᳓षणो युजाना᳓
वृ᳓षरथासो वृ᳓षरश्मयो᳓ ऽत्याः
अस्मत्रा᳓ञ्चो वृ᳓षणो वज्रवा᳓हो
वृ᳓ष्णे म᳓दाय सुयु᳓जो वहन्तु

20 आ ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ ते वृषन् वृ᳓षणो द्रो᳓णम् अस्थुर्
घृतप्रु᳓षो न᳓ ऊर्म᳓यो म᳓दन्तः
इ᳓न्द्र प्र᳓ तु᳓भ्यं वृ᳓षभिः सुता᳓नां
वृ᳓ष्णे भरन्ति वृषभा᳓य सो᳓मम्

21 वृषासि दिवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वृ᳓षासि दिवो᳓ वृषभः᳓ पृथिव्या᳓
वृ᳓षा सि᳓न्धूनां वृषभ᳓ स्ति᳓यानाम्
वृ᳓ष्णे त इ᳓न्दुर् वृषभ पीपाय
स्वादू᳓ र᳓सो मधुपे᳓यो व᳓राय

22 अयं देवः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अयं᳓ देवः᳓ स᳓हसा जा᳓यमान
इ᳓न्द्रेण युजा᳓ पणि᳓म् अस्तभायत्
अयं᳓ सुव᳓स्य पितु᳓र् आ᳓युधानि
इ᳓न्दुर् अमुष्णाद् अ᳓शिवस्य मायाः᳓

23 अयमकृणोदुषसः सुपत्नीरयम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अय᳓म् अकृणोद् उष᳓सः सुप᳓त्नीर्
अयं᳓ सू᳓र्ये अदधाज् ज्यो᳓तिर् अन्तः᳓
अयं᳓ त्रिधा᳓तु दिवि᳓ रोचने᳓षु
त्रिते᳓षु विन्दद् अमृ᳓तं नि᳓गूळ्हम्

24 अयं द्यावापृथिवी - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अयं᳓ द्या᳓वापृथिवी᳓ वि᳓ ष्कभायद्
अयं᳓ र᳓थम् अयुनक् सप्त᳓रश्मिम्
अयं᳓ गो᳓षु श᳓चिया पक्व᳓म् अन्तः᳓
सो᳓मो दाधार द᳓शयन्त्रम् उ᳓त्सम्