०४३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

यस्य त्यत्’ इति चतुर्ऋचं विंशं सूक्तं भरद्वाजस्यार्षमौष्णिहमैन्द्रम् । अनुक्रम्यते च ‘ यस्यौष्णिहम्’ इति । महाव्रतेऽपि निष्केवल्ये औष्णिहतृचाशीतावेतत्सूक्तम् । तथैव पञ्चमारण्यके सूत्रितं – यस्य त्यच्छम्बरं मद इति त्रयस्तृचा गायत्र्यः’ (ऐ.आ. ५. २. ५) इति ।

Jamison Brereton

43 (484)
Indra
Bharadvāja Bārhaspatya
4 verses: uṣṇih
A simple hymn, in which the refrain (pāda c of each verse) offers Indra soma to drink, and the first half of each verse consists of a definitional relative clause refer ring to Indra’s deeds in his soma-exhilaration. As often, the pattern set in the rest of the hymn is modified but not entirely broken in the final verse: verses 1–3 contain the syntagm yásya…máda- “(in) whose exhilaration,” while the final verse substi tutes the participle mandāná “finding exhilaration” for the etymologically related noun máda, and also inserts a part of the soma plant, its stalk, on which the relative pronoun is dependent.

Jamison Brereton Notes

Indra

01 यस्य त्यच्छम्बरम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्य त्य᳓च् छ᳓म्बरम् म᳓दे
दि᳓वोदासाय रन्ध᳓यः
अयं᳓ स᳓ सो᳓म इन्द्र ते सुतः᳓ पि᳓ब

02 यस्य तीव्रसुतम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्य तीव्रसु᳓तम् म᳓दम्
म᳓ध्यम् अ᳓न्तं च र᳓क्षसे
अयं᳓ स᳓ सो᳓म इन्द्र ते सुतः᳓ पि᳓ब

03 यस्य गा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्य गा᳓ अन्त᳓र् अ᳓श्मनो
म᳓दे दॄळ्हा᳓+ अवा᳓सृजः
अयं᳓ स᳓ सो᳓म इन्द्र ते सुतः᳓ पि᳓ब

04 यस्य मन्दानो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्य मन्दानो᳓ अ᳓न्धसो
मा᳓घोनं दधिषे᳓ श᳓वः
अयं᳓ स᳓ सो᳓म इन्द्र ते सुतः᳓ पि᳓ब