०४१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ अहेळमानः’ इति पञ्चर्चमष्टादशं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम्। अनुक्रान्तं च– ‘ अहेळमानः’ इति । गतो विनियोगः ।।

Jamison Brereton

41 (482)
Indra
Bharadvāja Bārhaspatya
5 verses: triṣṭubh
Another invitation to Indra to drink the soma. The usual “drive” theme is also present (vss. 1, 4, 5), but backgrounded. The emphasis is on the attractions of the particular soma offered. Only in the last pāda of the last verse does the poet ask Indra for something in return.

Jamison Brereton Notes

Indra

01 अहेळमान उप - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓हेळमान उ᳓प याहि यज्ञं᳓
तु᳓भ्यम् पवन्त इ᳓न्दवः सुता᳓सः
गा᳓वो न᳓ वज्रिन् सुव᳓म् ओ᳓को अ᳓छ
इ᳓न्द्रा᳓ गहि प्रथमो᳓ यज्ञि᳓यानाम्

02 या ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓ ते काकु᳓त् सु᳓कृता या᳓ व᳓रिष्ठा
य᳓या श᳓श्वत् पि᳓बसि म᳓ध्व ऊर्मि᳓म्
त᳓या पाहि प्र᳓ ते अध्वर्यु᳓र् अस्थात्
सं᳓ ते व᳓ज्रो वर्तताम् इन्द्र गव्युः᳓

03 एष द्रप्सो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एष᳓ द्रप्सो᳓ वृषभो᳓ विश्व᳓रूप
इ᳓न्द्राय वृ᳓ष्णे स᳓म् अकारि सो᳓मः
एत᳓म् पिब हरिव स्थातर् उग्र
य᳓स्ये᳓शिषे प्रदि᳓वि य᳓स् ते अ᳓न्नम्

04 सुतः सोमो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सुतः᳓ सो᳓मो अ᳓सुताद् इन्द्र व᳓स्यान्
अयं᳓ श्रे᳓याञ् चिकितु᳓षे र᳓णाय
एतं᳓ तितिर्व उ᳓प याहि यज्ञं᳓
ते᳓न वि᳓श्वास् त᳓विषीर् आ᳓ पृणस्व

05 ह्वयामसि त्वेन्द्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ह्व᳓यामसि त्वा इ᳓न्द्र याहि अर्वा᳓ङ्
अ᳓रं ते सो᳓मस् तनु᳓वे भवाति
श᳓तक्रतो माद᳓यस्वा सुते᳓षु
प्रा᳓स्माँ᳓ अव पृ᳓तनासु प्र᳓ विक्षु᳓