०३८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘अपादितः’ इति पञ्चर्चं पञ्चदशं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । ‘अपात्’ इत्यनुक्रान्तम् । महाव्रते निष्केवल्य उक्तो विनियोगः ॥

Jamison Brereton

38 (479)
Indra
Bharadvāja Bārhaspatya
5 verses: triṣṭubh
The context of this hymn is the morning ritual, and its aim is to attract Indra to it by our invocation, which is the subject of the first two verses. In verse 1 Agni seems to carry the invocation heavenward; in the second the invocation turns Indra here. The strength Indra will derive from both praise and sacrifice occupy the next two verses (3–4), and the final verse summarizes our attempts to attract him and the benefits he will provide us.
Especially in the first two verses the poet is coy about reference, and the audience must guess the subjects of the verbs and the referents of the pronouns until the last pāda of verse 2.

Jamison Brereton Notes

Indra The published introduction. states that reference is unclear in the hymn “until the last pāda of vs. 2”; this is somewhat misleading, in that a form of índra- is found in the second pāda of vs. 2 – though the identity of the other referent there remains cloudy.

01 अपादित उदु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓पाद् इत᳓ उ᳓द् उ नश् चित्र᳓तमो
मही᳓म् भर्षद् द्युम᳓तीम् इ᳓न्द्रहूतिम्
प᳓न्यसीं धीतिं᳓ दइ᳓वियस्य या᳓मञ्
ज᳓नस्य रातिं᳓ वनते सुदा᳓नुः

02 दूराच्चिदा वसतो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दूरा᳓च् चिद् आ᳓ वसतो अस्य क᳓र्णा
घो᳓षाद् इ᳓न्द्रस्य तन्यति ब्रुवाणः᳓
ए᳓य᳓म् एनं देव᳓हूतिर् ववृत्यान्
मद्रि᳓अग् इ᳓न्द्रम् इय᳓म् ऋच्य᳓माना

03 तं वो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ वो धिया᳓ परम᳓या पुराजा᳓म्
अज᳓रम् इ᳓न्द्रम् अभ्य् अ᳡नूषि अर्कइः᳓
ब्र᳓ह्मा च गि᳓रो दधिरे᳓ स᳓म् अस्मिन्
महां᳓श् च स्तो᳓मो अ᳓धि वर्धद् इ᳓न्द्रे

04 वर्धाद्यं यज्ञ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व᳓र्धाद् यं᳓ यज्ञ᳓ उत᳓ सो᳓म इ᳓न्द्रं
व᳓र्धाद् ब्र᳓ह्म गि᳓र उक्था᳓ च म᳓न्म
व᳓र्धा᳓हैनम् उष᳓सो या᳓मन् अक्तो᳓र्
व᳓र्धान् मा᳓साः शर᳓दो द्या᳓व इ᳓न्द्रम्

05 एवा जज्ञानम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एवा᳓ जज्ञानं᳓ स᳓हसे अ᳓सामि
वावृधानं᳓ रा᳓धसे च श्रुता᳓य
महा᳓म् उग्र᳓म् अ᳓वसे विप्र नून᳓म्
आ᳓ विवासेम वृत्रतू᳓रियेषु