०३७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ अर्वाग्रथम्’ इति पञ्चर्चं चतुर्दशं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । ‘अर्वाग्रथम्’ इत्यनुक्रान्तम् । महाव्रते निप्केवल्ये उक्तो विनियोगः ॥

Jamison Brereton

37 (478)
Indra
Bharadvāja Bārhaspatya
5 verses: triṣṭubh
The first three verses follow the model of a “journey” hymn, but with a twist. The fallow bays of verse 1 are Indra’s familiar horses, bringing his chariot to the sacri fice, but the same word (hárayaḥ) in verse 2 refers to the tawny soma drops. In verse 3 we return to the real horses, qualified as “charging straight on,” just like the soma in the previous verse. The mention of Vāyu in verse 3 identifies the ritual in question as the Morning Pressing.
The remaining two verses of the hymn (4–5) do not continue the journey theme. Instead Indra is configured as a (divine) patron (vs. 5), who gives the priestly gift to the (human) patrons (vs. 4). See VI.29 for a similar identification of Indra with the sacrificial patron.

Jamison Brereton Notes

Indra

01 अर्वाग्रथं विश्ववारम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अर्वा᳓ग् र᳓थं विश्व᳓वारं त उग्र
इ᳓न्द्र युक्ता᳓सो ह᳓रयो वहन्तु
कीरि᳓श् चिद् धि᳓ त्वा ह᳓वते सु᳓वर्वान्
ऋधीम᳓हि सधमा᳓दस् ते अद्य᳓

02 प्रो द्रोणे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ ऊ द्रो᳓णे ह᳓रयः क᳓र्म अग्मन्
पुनाना᳓स ऋ᳓जियन्तो अभूवन्
इ᳓न्द्रो नो अस्य᳓ पूर्वियः᳓ पपीयाद्
द्युक्षो᳓ म᳓दस्य सोमिय᳓स्य रा᳓जा

03 आसस्राणासः शवसानमच्छेन्द्रम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आसस्राणा᳓सः शवसान᳓म् अ᳓छ
इ᳓न्द्रं सुचक्रे᳓ रथि᳓यासो अ᳓श्वाः
अभि᳓ श्र᳓व ऋ᳓जियन्तो वहेयुर्
नू᳓ चिन् नु᳓ वायो᳓र् अमृ᳓तं वि᳓ दस्येत्

04 वरिष्टो अस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व᳓रिष्ठो अस्य द᳓क्षिणाम् इयर्ति
इ᳓न्द्रो मघो᳓नां तुविकूर्मि᳓तमः
य᳓या वज्रिवः परिया᳓सि अं᳓हो
मघा᳓ च धृष्णो द᳓यसे वि᳓ सूरी᳓न्

05 इन्द्रो वाजस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रो वा᳓जस्य स्थ᳓विरस्य दाता᳓
इ᳓न्द्रो गीर्भि᳓र् वर्धतां वृद्ध᳓महाः
इ᳓न्द्रो वृत्रं᳓ ह᳓निष्ठो अस्तु स᳓त्वा
आ᳓ ता᳓ सूरिः᳓ पृणति तू᳓तुजानः