०३६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘सत्रा मदासः’ इति पञ्चर्चं त्रयोदशं सूक्तं नरस्यार्षं त्रैष्टुभमैन्द्रम् । ‘सत्रा’ इत्यनुक्रान्तम् । पृष्ठ्यस्य पञ्चमेऽहनि निष्केवल्य एतत्सूक्तं शस्यम् । सूत्रितं च-’ प्रेदं ब्रह्मेन्द्रो मदाय सत्रा मदास इति निष्केवल्यम् ’ ( आश्व. श्रौ. ७. १२ ) इति । विश्वजिति माध्यंदिनसवने प्रशास्तुः शस्त्र इदं सामसूक्ताख्यं शंसनीयम् । सूत्रितं च— सत्रा मदासो यो जात एवाभूरेक इति सामसूक्तानि ( आश्व. श्रौ. ८. ७) इति । महाव्रतेऽपि निकेवल्य उक्तो विनियोगः ।।

Jamison Brereton

36 (477)
Indra
Nara Bhāradvāja
5 verses: triṣṭubh
An unqualified celebration of Indra’s complete power and his control of all beings and things, both earthly and heavenly. It is hoped that the peoples’ offerings to

Indra, the soma (vs. 1), the sacrificial offerings (vs. 2), and the songs (vs. 3), will provoke answering generosity (vs. 4). This reciprocal relationship is economically expressed in the last half of verse 5.

Jamison Brereton Notes

Indra

01 सत्रा मदासस्तव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सत्रा᳓ म᳓दासस् त᳓व विश्व᳓जन्याः
सत्रा᳓ रा᳓यो अ᳓ध ये᳓ पा᳓र्थिवासः
सत्रा᳓ वा᳓जानाम् अभवो विभक्ता᳓
य᳓द् देवे᳓षु धार᳓यथा असुर्य᳡म्

02 अनु प्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓नु प्र᳓ येजे ज᳓न ओ᳓जो अस्य
सत्रा᳓ दधिरे अ᳓नु वीरि᳓याय
स्यूमगृ᳓भे दु᳓धये अ᳓र्वते च
क्र᳓तुं वृञ्जन्ति अ᳓पि वृत्रह᳓त्ये

03 तं सध्रीचीरूतयो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ सध्री᳓चीर् ऊत᳓यो वृ᳓ष्णियानि
पउं᳓सियानि नियु᳓तः सश्चुर् इ᳓न्द्रम्
समुद्रं᳓ न᳓ सि᳓न्धव उक्थ᳓शुष्मा
उरुव्य᳓चसं गि᳓र आ᳓ विशन्ति

04 स रायस्खामुप - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ राय᳓स् खा᳓म् उ᳓प सृजा गृणानः᳓
पुरुश्चन्द्र᳓स्य तुव᳓म् इन्द्र व᳓स्वः
प᳓तिर् बभूथ अ᳓समो ज᳓नानाम्
ए᳓को वि᳓श्वस्य भु᳓वनस्य रा᳓जा

05 स तु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ तु᳓ श्रुधि श्रु᳓तिया यो᳓ दुवोयु᳓र्
दियउ᳓र् न᳓ भू᳓म अभि᳓ रा᳓यो अर्यः᳓
अ᳓सो य᳓था नः श᳓वसा चकानो᳓
युगे᳓-युगे व᳓यसा चे᳓कितानः