०३४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘सं च त्वे जग्मुः’ इति पञ्चर्चमेकादशं सूक्तं शुनहोत्रस्यार्षं त्रैष्टुभमैन्द्रम् । ‘सं च त्वे’ इत्यनुक्रान्तम् । तृतीये छान्दोमिकेऽहनीदमादिके द्वे सूक्ते । सूत्रितं च— सं च त्वे जग्मुरिति सूक्ते’ ( आश्व. श्रौ. ८. ७) इति । महाव्रतेऽपि निष्केवल्य उक्तो विनियोगः ।।

Jamison Brereton

34 (475)
Indra
Śunahotra Bhāradvāja
5 verses: triṣṭubh
The first verse of this hymn is a remarkably condensed expression of the poetic economy: Indra is both the recipient of praise songs and the source of inspira tion for those poetic thoughts. Moreover, all poets, past and present, vie to attract Indra’s attention, each with his own poem. The rest of the hymn develops these thoughts. Verses 2–3 continue the theme of multiple poets focusing on a single object, Indra, and then provide a transition to the final two verses (4–5), which celebrate the benefits that Indra receives from praise and sacrifice in a manner that indicates that our praise and sacrifice are happening now.

Jamison Brereton Notes

Indra

01 सं च - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सं च॒ त्वे ज॒ग्मुर्गिर॑ इन्द्र पू॒र्वीर्वि च॒ त्वद्य॑न्ति वि॒भ्वो॑ मनी॒षाः ।
पु॒रा नू॒नं च॑ स्तु॒तय॒ ऋषी॑णां पस्पृ॒ध्र इन्द्रे॒ अध्यु॑क्था॒र्का ॥

02 पुरुहूतो यः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒रु॒हू॒तो यः पु॑रुगू॒र्त ऋभ्वाँ॒ एकः॑ पुरुप्रश॒स्तो अस्ति॑ य॒ज्ञैः ।
रथो॒ न म॒हे शव॑से युजा॒नो॒३॒॑ऽस्माभि॒रिन्द्रो॑ अनु॒माद्यो॑ भूत् ॥

03 न यम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न यं हिंस॑न्ति धी॒तयो॒ न वाणी॒रिन्द्रं॒ नक्ष॒न्तीद॒भि व॒र्धय॑न्तीः ।
यदि॑ स्तो॒तारः॑ श॒तं यत्स॒हस्रं॑ गृ॒णन्ति॒ गिर्व॑णसं॒ शं तद॑स्मै ॥

04 अस्मा एतद्दिव्यट्र्चेव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्मा॑ ए॒तद्दि॒व्य१॒॑र्चेव॑ मा॒सा मि॑मि॒क्ष इन्द्रे॒ न्य॑यामि॒ सोमः॑ ।
जनं॒ न धन्व॑न्न॒भि सं यदापः॑ स॒त्रा वा॑वृधु॒र्हव॑नानि य॒ज्ञैः ॥

05 अस्मा एतन्मह्याङ्गूषमस्मा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्मा॑ ए॒तन्मह्या॑ङ्गू॒षम॑स्मा॒ इन्द्रा॑य स्तो॒त्रं म॒तिभि॑रवाचि ।
अस॒द्यथा॑ मह॒ति वृ॑त्र॒तूर्य॒ इन्द्रो॑ वि॒श्वायु॑रवि॒ता वृ॒धश्च॑ ॥