०३०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘भूय इत्’ इति पञ्चर्चं सप्तमं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । ‘भूयः पञ्च’ इत्यनुक्रान्तम् । अग्निष्टोमे माध्यंदिनसवनेऽच्छावाकशस्त्र एतत्सूक्तं शंसनीयम् । सूत्रितं च-’ उदिन्न्वस्य रिच्यते भूय इत् ’ ( आश्व. श्रौ. ५.१६ ) इति । महाव्रतेऽपि निष्केवल्य एतत्सूक्तम् । तथैव पञ्चमारण्यके सूत्रितं– ’ भूय इद्वावृधे वीर्याय नृणामु त्वा’ (ऐ. अ. ५. १. ६ ) इति ॥

Jamison Brereton

30 (471)
Indra
Bharadvāja Bārhaspatya
5 verses: triṣṭubh
This hymn is entirely a celebration of Indra’s cosmogonic and cosmos-maintaining deeds and powers. The only possible indications of a human dimension in the hymn are the oblique reference to the soma sacrifice in the first pāda of the hymn, the granting of good things in the second pāda, and the ruminative “I think” at the beginning of the second verse. The pace of the hymn is brisk, but this straightfor
ward recital of the high points of Indra’s career has a pleasing balance and variety in its expressions.

01 भूय इद्वावृधे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भू᳓य इ᳓द् · वावृधे वीरि᳓यायँ
ए᳓को अजुर्यो᳓ दयते व᳓सूनि
प्र᳓ रिरिचे दिव᳓ इ᳓न्द्रः पृथिव्या᳓
अर्ध᳓म् इ᳓द् अस्य प्र᳓ति रो᳓दसी उभे᳓

02 अधा मन्ये - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓धा मन्ये बृह᳓द् असुर्य᳡म् अस्य
या᳓नि दाधा᳓र न᳓किर् आ᳓ मिनाति
दिवे᳓-दिवे सू᳓रियो दर्शतो᳓ भूद्
वि᳓ स᳓द्मानि उर्विया᳓ सुक्र᳓तुर् धात्

03 अद्या चिन्नू - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अद्या᳓ चिन् नू᳓ चित् त᳓द् अ᳓पो नदी᳓नां
य᳓द् आभियो अ᳓रदो गातु᳓म् इन्द्र
नि᳓ प᳓र्वता अद्मस᳓दो न᳓ सेदुस्
त्व᳓या दॄळ्हा᳓नि+ सुक्रतो र᳓जांसि

04 सत्यमित्तन्न त्वावाँ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सत्य᳓म् इ᳓त् त᳓न् न᳓ त्वा᳓वाँ अन्यो᳓ अस्ति
इ᳓न्द्र देवो᳓ न᳓ म᳓र्तियो जिया᳓यान्
अ᳓हन्न् अ᳓हिम् परिश᳓यानम् अ᳓र्णो
अ᳓वासृजो अपो᳓ अ᳓छा समुद्र᳓म्

05 त्वमपो वि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓म् अपो᳓ · वि᳓ दु᳓रो वि᳓षूचीर्
इ᳓न्द्र दॄळ्ह᳓म्+ अरुजः प᳓र्वतस्य
रा᳓जाभवो ज᳓गतश् चर्षणीनां᳓
साकं᳓ सू᳓र्यं जन᳓यन् द्या᳓म् उषा᳓सम्