०२४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

तृतीयेऽनुवाके विंशतिसूक्तानि । तत्र ‘वृषा मदः’ इति दशर्चं प्रथमं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । ‘वृषा’ इत्यनुक्रान्तम् । विषुवति निष्केवल्य एतत्सूक्तम् । सूत्रितं च– वृषा मदः प्र मंहिष्ठाय’ (आश्व. श्रौ. ८. ६ ) इति ॥

Jamison Brereton

24 (465)
Indra
Bharadvāja Bārhaspatya
10 verses: triṣṭubh
This hymn begins, like the last one, with a strong statement of Indra’s relationship with soma, but it then turns to more general praises of the god (vss. 2–8), with some strik ing similes, metaphors, and etymological figures. The importance of mortal praise and worship for maintaining Indra’s powers is not forgotten; see verses 7–8 and especially verse 6, which seems to concern the traffic in praise: inspiration going out from Indra to the poets and then returning to him as praise (for a similar sentiment and phraseol ogy, see VI.34.1). The last two verses (9–10) ask for Indra’s gifts and protection.

Jamison Brereton Notes

Indra

01 वृषा मद - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वृ᳓षा म᳓द इ᳓न्दरे+ श्लो᳓क उक्था᳓
स᳓चा सो᳓मेषु सुतपा᳓ ऋजीषी᳓
अर्चत्रि᳓यो मघ᳓वा नृ᳓भ्य उक्थइ᳓र्
द्युक्षो᳓ रा᳓जा गिरा᳐᳓म् अ᳓क्षितोतिः

02 ततुरिर्विरो नर्यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓तुरिर् वीरो᳓ न᳓रियो वि᳓चेताः
श्रो᳓ता ह᳓वं गृणत᳓ उर्वि᳓ऊतिः
व᳓सुः शं᳓सो नरां᳐᳓ कारु᳓धाया
वाजी᳓ स्तुतो᳓ विद᳓थे दाति वा᳓जम्

03 अक्षो न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓क्षो न᳓ · चक्रि᳓योः शूर बृह᳓न्
प्र᳓ ते मह्ना᳓ रिरिचे रो᳓दसीयोः
वृक्ष᳓स्य नु᳓ ते पुरुहूत वया᳓
वि᳓ ऊत᳓यो रुरुहुर् इन्द्र पूर्वीः᳓

04 शचीवतस्ते पुरुशाक - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श᳓चीवतस् ते पुरुशाक शा᳓का
ग᳓वाम् इव स्रुत᳓यः संच᳓रणीः
वत्सा᳓नां᳐ न᳓ तन्त᳓यस् त इन्द्र
दा᳓मन्वन्तो अदामा᳓नः सुदामन्

05 अन्यदद्य कर्वरमन्यदु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अन्य᳓द् अद्य᳓ क᳓र्वरम् अन्य᳓द् उ श्वो᳓
अ᳓सच् च स᳓न् मु᳓हुर् आचक्रि᳓र् इ᳓न्द्रः
मित्रो᳓ नो अ᳓त्र व᳓रुणश् च पूषा᳓
अर्यो᳓ व᳓शस्य परिएता᳓ अस्ति

06 वि त्वदापो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ त्व᳓द् आ᳓पो न᳓ प᳓र्वतस्य पृष्ठा᳓द्
उक्थे᳓भिर् इन्द्र अनयन्त यज्ञइः᳓
तं᳓ त्वाभिः᳓ सुष्टुति᳓भिर् वाज᳓यन्त
आजिं᳓ न᳓ जग्मुर् गिर्वाहो अ᳓श्वाः

07 न यम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ यं᳓ ज᳓रन्ति शर᳓दो न᳓ मा᳓सा
न᳓ द्या᳓व इ᳓न्द्रम् अवकर्श᳓यन्ति
वृद्ध᳓स्य चिद् वर्धताम् अस्य तनू᳓
स्तो᳓मेभिर् · उक्थइ᳓श् च शस्य᳓माना

08 न वीळवे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ वीळ᳓वे न᳓मते न᳓ स्थिरा᳓य
न᳓ श᳓र्धते द᳓स्युजूताय स्तवा᳓न्
अ᳓ज्रा इ᳓न्द्रस्य गिर᳓यश् चिद् ऋष्वा᳓
गम्भीरे᳓ चिद् भवति गाध᳓म् अस्मै

09 गम्भीरेण न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

गम्भीरे᳓ण न उरु᳓णा अमत्रिन्
प्र᳓ इ᳓षो᳓ यन्धि सुतपावन् वा᳓जान्
स्था᳓ ऊ षु᳓ ऊर्ध्व᳓ ऊती᳓ अ᳓रिषण्यन्न्
अक्तो᳓र् वि᳓उष्टौ प᳓रितक्मियायाम्

10 सचस्व नायमवसे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓चस्व नाय᳓म् अ᳓वसे अभी᳓क
इतो᳓ वा त᳓म् इन्दर+ पाहि रिषः᳓
अमा᳓ चैनम् अ᳓रण्ये पाहि रिषो᳓
म᳓देम · शत᳓हिमाः सुवी᳓राः