०२३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘सुत इत् ’ इति दशर्चमष्टमं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । ‘सुत इद्दश’ इत्यनुक्रान्तम् । विषुवति निष्केवल्ये इदं सूक्तम् । सूत्रितं च – सुत इत्त्वमेष प्र पूर्वीः’ ( आश्व. श्रौ. ८. ६ ) इति । महाव्रतेऽपि निष्केवल्ये इदमादीनि त्रीणि सूक्तानि । तथैव पञ्चमारण्यके सूत्रितं - सुत इत्त्वं निमिश्ल इन्द्र सोम इति त्रीणि ’ (ऐ. आ. ५. २. २) इति ॥

Jamison Brereton

23 (464)
Indra
Bharadvāja Bārhaspatya
10 verses: triṣṭubh
This hymn focuses on Indra’s vital connection with soma and on the reciprocal relationship between the soma-presser and Indra, the soma-drinker. This theme is established in the first pāda of the first verse, and every subsequent verse has some reference to soma: all but verse 8 contain a form of the word sóma (and vs. 8 does make clear reference to soma-induced exhilaration), and of those, all but verse 7 have “pressed,” “pressing,” or “presser” as well. The other ritual aspects of the soma sacrifice, especially the poetry and sacred formulations, also receive frequent men
tion. The reminders to Indra that sacrificial labor should be requited with gifts and help from the god occur throughout the hymn, but are not annoyingly obtrusive. Stylistically the hymn is noteworthy for its pairs of syntactically linked verses: 1–2 with their “or when” clauses; 3–4 with their run of agent nouns governing accusa tive objects; 5–6 with a number of repeated formulae.

Jamison Brereton Notes

Indra For the repetitive lexicon and the unusual amount of linkage between vss., see published introduction.

01 सुत इत्त्वम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सुत᳓ इ᳓त् त्वं᳓ नि᳓मिश्ल इन्द्र सो᳓मे
स्तो᳓मे ब्र᳓ह्मणि शस्य᳓मान उक्थे᳓
य᳓द् वा युक्ता᳓भ्याम् मघवन् ह᳓रिभ्याम्
बि᳓भ्रद् व᳓ज्रम् बाहुवो᳓र् इन्द्र या᳓सि

02 यद्वा दिवि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् वा दिवि᳓ पा᳓रिये सु᳓ष्विम् इन्द्र
वृत्रह᳓त्ये अ᳓वसि शू᳓रसातौ
य᳓द् वा द᳓क्षस्य बिभ्यु᳓षो अ᳓बिभ्यद्
अ᳓रन्धयः श᳓र्धत इन्द्र द᳓स्यून्

03 पाता सुतमिन्द्रो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पा᳓ता सुत᳓म् इ᳓न्दरो+ अस्तु सो᳓मम्
प्रणेनी᳓र् उग्रो᳓ जरिता᳓रम् ऊती᳓
क᳓र्ता वीरा᳓य सु᳓ष्वये उलोकं᳓†
दा᳓ता व᳓सु स्तुवते᳓ कीर᳓ये चित्

04 गन्तेयान्ति सवना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ग᳓न्ता इ᳓यान्ति स᳓वना ह᳓रिभ्याम्
बभ्रि᳓र् व᳓ज्रम् पपिः᳓ सो᳓मं ददि᳓र् गाः᳓
क᳓र्ता वीरं᳓ न᳓रियं स᳓र्ववीरं
श्रो᳓ता ह᳓वं गृणत᳓ स्तो᳓मवाहाः

05 अस्मै वयम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓स्मै वयं᳓ य᳓द् वावा᳓न त᳓द् विविष्म
इ᳓न्द्राय यो᳓ नः प्रदि᳓वो अ᳓पस् कः᳓
सुते᳓ सो᳓मे स्तुम᳓सि शं᳓सद् उक्था᳓
इ᳓न्द्राय ब्र᳓ह्म व᳓र्धनं य᳓था᳓सत्

06 ब्रह्माणि हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्र᳓ह्माणि हि᳓ चकृषे᳓ व᳓र्धनानि
ता᳓वत् त इन्द्र मति᳓भिर् विविष्मः
सुते᳓ सो᳓मे सुतपाः शं᳓तमानि
रा᳓ण्ड्या क्रियास्म व᳓क्षणानि यज्ञइः᳓

07 स नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ नो बोधि पुरोळा᳓शं र᳓राणः
पि᳓बा तु᳓ सो᳓मं गो᳓ऋजीकम् इन्द्र
ए᳓द᳓म् बर्हि᳓र् य᳓जमानस्य सीद
उरुं᳓ कृधि तुवायत᳓ उलोक᳓म्†

08 स मन्दस्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ मन्दस्वा हि᳓ अ᳓नु जो᳓षम् उग्र
प्र᳓ त्वा यज्ञा᳓स इमे᳓ अश्नुवन्तु
प्रे᳓मे᳓ ह᳓वासः पुरुहूत᳓म् अस्मे᳓
आ᳓ त्वेयं᳓ धी᳓र् अ᳓वस इन्द्र यम्याः

09 तं वः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ वः सखायः सं᳓ य᳓था सुते᳓षु
सो᳓मेभिर् ईम् पृणता भोज᳓म् इ᳓न्द्रम्
कुवि᳓त् त᳓स्मा अ᳓सति नो भ᳓राय
न᳓ सु᳓ष्विम् इ᳓न्द्रो अ᳓वसे मृधाति

10 एवेदिन्द्रः सुते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एवे᳓द् इ᳓न्द्रः सुते᳓ अस्तावि सो᳓मे
भर᳓द्वाजेषु क्ष᳓यद् इ᳓न् मघो᳓नः
अ᳓सद् य᳓था जरित्र᳓ उत᳓ सूरि᳓र्
इ᳓न्द्रो रायो᳓ विश्व᳓वारस्य दाता᳓