०२०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ द्यौर्न य इन्द्र’ इति त्रयोदशर्चं पञ्चमं सूक्तं भरद्वाजस्यार्षमैन्द्रं त्रैष्टुभम् । ‘वि पिप्रोः इत्येषा सप्तमी दशाक्षरचतुष्टययुक्ता विराट् । अनुक्रम्यते च – ’ द्यौर्न वि पिप्रोर्विराट’ इति । पृष्ठ्यषडहस्य षष्ठेऽहनि तृतीयसवने उक्थ्यस्तोत्राणि यदि द्विपदासु स्तुवीरन् यदि वाग्निष्टोमसंस्थः स्यात् तदानीं माध्यंदिने सवनेऽच्छावाकः स्वशस्त्र आरम्भणीयाभ्य ऊर्ध्वमेतत्सूक्तं शंसेत् । सूत्रितं च— द्यौर्न य इन्द्रेत्यच्छावाकः’ ( आश्व. श्रौ. ८. ४ ) इति । इदमेव सूक्तम् इन्द्राविष्ण्वोरुत्क्रान्तिनाम्न्येकाहे निष्केवल्यनिविद्धानम् । ’ द्यौर्न य इन्द्रेति मध्यंदिनः ’ ( आश्व. श्रौ. ९. ७) इति ॥

Jamison Brereton

20 (461)
Indra
Bharadvāja Bārhaspatya
13 verses: triṣṭubh, except virāj 7
Unlike the usual model, this hymn begins with the prayer for gifts from the god (vs. 1). But most of the rest of the hymn is devoted to a verse-by-verse listing of Indra’s great deeds, not only the standard Vr̥tra (vs. 2) and Vala (vss. 3–4) tales, but also the defeat of a series of named enemies on behalf of named mortal clients. Some of these stories are familiar (the Śuṣṇa/Kutsa story, vss. 4–5, and the stealing of Namuci’s head, vs. 6), and some are mentioned much more rarely (e.g., Vetasu and Tuji, vs. 8), with unclear details. Many of these same stories are also treated in VI.26.

Jamison Brereton Notes

Indra On the metrical irregularities in the hymn, see Oldenberg ZDMG 55.324 and Noten.

01 द्यौर्न य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

द्यौर्न य इ॑न्द्रा॒भि भूमा॒र्यस्त॒स्थौ र॒यिः शव॑सा पृ॒त्सु जना॑न् ।
तं नः॑ स॒हस्र॑भरमुर्वरा॒सां द॒द्धि सू॑नो सहसो वृत्र॒तुर॑म् ॥

02 दिवो न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दि॒वो न तुभ्य॒मन्वि॑न्द्र स॒त्रासु॒र्यं॑ दे॒वेभि॑र्धायि॒ विश्व॑म् ।
अहिं॒ यद्वृ॒त्रम॒पो व॑व्रि॒वांसं॒ हन्नृ॑जीषि॒न्विष्णु॑ना सचा॒नः ॥

03 तूर्वन्नोजीयान्तवसस्तवीयान्कृतब्रह्मेन्द्रो वृद्धमहाः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तूर्व॒न्नोजी॑यान्त॒वस॒स्तवी॑यान्कृ॒तब्र॒ह्मेन्द्रो॑ वृ॒द्धम॑हाः ।
राजा॑भव॒न्मधु॑नः सो॒म्यस्य॒ विश्वा॑सां॒ यत्पु॒रां द॒र्त्नुमाव॑त् ॥

04 शतैरपद्रन्पणय इन्द्रात्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श॒तैर॑पद्रन्प॒णय॑ इ॒न्द्रात्र॒ दशो॑णये क॒वये॒ऽर्कसा॑तौ ।
व॒धैः शुष्ण॑स्या॒शुष॑स्य मा॒याः पि॒त्वो नारि॑रेची॒त्किं च॒न प्र ॥

05 महो द्रुहो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि॒ वज्र॑स्य॒ यत्पत॑ने॒ पादि॒ शुष्णः॑ ।
उ॒रु ष स॒रथं॒ सार॑थये क॒रिन्द्रः॒ कुत्सा॑य॒ सूर्य॑स्य सा॒तौ ॥

06 प्र श्येनो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र श्ये॒नो न म॑दि॒रमं॒शुम॑स्मै॒ शिरो॑ दा॒सस्य॒ नमु॑चेर्मथा॒यन् ।
प्राव॒न्नमीं॑ सा॒प्यं स॒सन्तं॑ पृ॒णग्रा॒या समि॒षा सं स्व॒स्ति ॥

07 वि पिप्रोरहिमायस्य - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

वि पिप्रो॒रहि॑मायस्य दृ॒ळ्हाः पुरो॑ वज्रि॒ञ्छव॑सा॒ न द॑र्दः ।
सुदा॑म॒न्तद्रेक्णो॑ अप्रमृ॒ष्यमृ॒जिश्व॑ने दा॒त्रं दा॒शुषे॑ दाः ॥

08 स वेतसुम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स वे॑त॒सुं दश॑मायं॒ दशो॑णिं॒ तूतु॑जि॒मिन्द्रः॑ स्वभि॒ष्टिसु॑म्नः ।
आ तुग्रं॒ शश्व॒दिभं॒ द्योत॑नाय मा॒तुर्न सी॒मुप॑ सृजा इ॒यध्यै॑ ॥

09 सईं स्पृधो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स ईं॒ स्पृधो॑ वनते॒ अप्र॑तीतो॒ बिभ्र॒द्वज्रं॑ वृत्र॒हणं॒ गभ॑स्तौ ।
तिष्ठ॒द्धरी॒ अध्यस्ते॑व॒ गर्ते॑ वचो॒युजा॑ वहत॒ इन्द्र॑मृ॒ष्वम् ॥

10 सनेम तेऽवसा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒नेम॒ तेऽव॑सा॒ नव्य॑ इन्द्र॒ प्र पू॒रवः॑ स्तवन्त ए॒ना य॒ज्ञैः ।
स॒प्त यत्पुरः॒ शर्म॒ शार॑दी॒र्दर्द्धन्दासीः॑ पुरु॒कुत्सा॑य॒ शिक्ष॑न् ॥

11 त्वं वृध - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं वृ॒ध इ॑न्द्र पू॒र्व्यो भू॑र्वरिव॒स्यन्नु॒शने॑ का॒व्याय॑ ।
परा॒ नव॑वास्त्वमनु॒देयं॑ म॒हे पि॒त्रे द॑दाथ॒ स्वं नपा॑तम् ॥

12 त्वं धुनिरिन्द्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं धुनि॑रिन्द्र॒ धुनि॑मतीरृ॒णोर॒पः सी॒रा न स्रव॑न्तीः ।
प्र यत्स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया॑ तु॒र्वशं॒ यदुं॑ स्व॒स्ति ॥

13 तव ह - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तव॑ ह॒ त्यदि॑न्द्र॒ विश्व॑मा॒जौ स॒स्तो धुनी॒चुमु॑री॒ या ह॒ सिष्व॑प् ।
दी॒दय॒दित्तुभ्यं॒ सोमे॑भिः सु॒न्वन्द॒भीति॑रि॒ध्मभृ॑तिः प॒क्थ्य१॒॑र्कैः ॥