०१८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘तमु ष्टुहि’ इति पञ्चदशर्चं तृतीयं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रम्यते– तमु ष्टुहि’ इति । अभिजिति निष्केवल्य एतन्निविद्धानम् । सूत्रितं च— तमु ष्टुहीति मध्यंदिनः ’ ( आश्व. श्रौ. ८.५) इति । इन्द्राग्न्योः कुलायनाम्न्येकाहेऽपि निष्केवल्य एतन्निविद्धानम् । सूत्रितं च–’ तिष्ठा हरी तमु ष्टुहीति मध्यंदिनः ’ (आश्व. श्रौ. ९. ७ ) इति । महाव्रतेऽपि निष्केवल्ये । तथैव पञ्चमारण्यके सूत्रितं-’ तमु ष्टुहि यो अभिभूत्योजाः सुत इत्त्वं निमिश्ल इन्द्र सोम इति त्रीणि’ ( ऐ. आ. ५. २. २) इति ॥

Jamison Brereton

18 (459)
Indra
Bharadvāja Bārhaspatya
15 verses: triṣṭubh
The poet of this hymn seems to be aiming to deploy as many different words for power, might, strength, and so forth in as many different derivational forms as pos sible. The sheer power of Indra, thus expressed, overshadows his particular deeds, which are mentioned in a somewhat cursory way: Vala (vs. 5), Vr̥tra (vs. 6, also 9 and 14), the destruction of various named monsters (vs. 8). The poet is also fond of figures involving a positive and a twist on its negation: “vanquishing but unvan quished” (vs. 1), and so forth.
This focus on Indra’s power betrays some nervous worry about the existence of that power, expressed especially in the rhetorical question and answer in verses 3–4. A number of hymns in the R̥gveda raise the question of whether Indra himself exists; here the existential anxiety has been displaced to an abstract entity, his might, but the poet asserts its existence so often and so unequivocally that his audience can scarcely doubt it. Needless to say, the recital of Indra’s strength is not disinter ested: the poet calls for Indra to use his powers in defense of the poet’s people and, in the last verse (15), to perform the deed that exists for him to do (a nice return to the existential theme), in order to merit another poem from the poet.

Jamison Brereton Notes

Indra

01 तमु ष्थुहि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓म् उ ष्टुहि यो᳓ अभि᳓भूतिओजा
वन्व᳓न्न् अ᳓वातः पुरुहूत᳓ इ᳓न्द्रः
अ᳓षाळ्हम् उग्रं᳓ स᳓हमानम् आभि᳓र्
गीर्भि᳓र् वर्ध वृषभं᳓ चर्षणीना᳓म्

02 स युध्मः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ युध्मः᳓ स᳓त्वा खजकृ᳓त् सम᳓द्वा
तुविम्रक्षो᳓ नदनुमाँ᳓ ऋजीषी᳓
बृह᳓द्रेणुश् च्य᳓वनो मा᳓नुषीणाम्
ए᳓कः कृष्टीना᳓म् अभवत् सहा᳓वा

03 त्वं ह - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ ह नु᳓ त्य᳓द् अदमायो द᳓स्यूँर्
ए᳓कः कृष्टी᳓र् अवनोर् आ᳓रियाय
अ᳓स्ति स्विन् नु᳓ वीरि᳓यं त᳓त् त इन्द्र
न᳓ स्विद् अस्ति त᳓द् ऋतुथा᳓ वि᳓ वोचः

04 सदिद्धि ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓द् इ᳓द् धि᳓ ते तुविजात᳓स्य म᳓न्ये
स᳓हः सहिष्ठ तुरत᳓स् तुर᳓स्य
उग्र᳓म् उग्र᳓स्य तव᳓सस् त᳓वीयो
अ᳓रध्रस्य रध्रतु᳓रो बभूव

05 तन्नः प्रत्नम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓न् नः प्रत्नं᳓ सखिय᳓म् अस्तु युष्मे᳓
इत्था᳓ व᳓दद्भिर् वल᳓म् अ᳓ङ्गिरोभिः
ह᳓न्न् अच्युतच्युद् दस्म इष᳓यन्तम्
ऋणोः᳓ पु᳓रो वि᳓ दु᳓रो अस्य वि᳓श्वाः

06 स हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ हि᳓ धीभि᳓र् ह᳓वियो अ᳓स्ति उग्र᳓
ईशानकृ᳓न् महति᳓ वृत्रतू᳓र्ये
स᳓ तोक᳓साता त᳓नये स᳓ वज्री᳓
वितन्तसा᳓य्यो अभवत् सम᳓त्सु

07 स मज्मना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ मज्म᳓ना ज᳓निम मा᳓नुषाणाम्
अ᳓मर्तियेन ना᳓म्ना᳓ति प्र᳓ सर्स्रे
स᳓ द्युम्ने᳓न स᳓ श᳓वसोत᳓ राया᳓
स᳓ वीरि᳓येण नृ᳓तमः स᳓मोकाः

08 स यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ यो᳓ न᳓ मुहे᳓ न᳓ मि᳓थू ज᳓नो भू᳓त्
सुम᳓न्तुनामा चु᳓मुरिं धु᳓निं च
वृण᳓क् पि᳓प्रुं श᳓म्बरं शु᳓ष्णम् इ᳓न्द्रः
पुरां᳓ च्यौत्ना᳓य शय᳓थाय नू᳓ चित्

09 उदावता त्वक्षसा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उदा᳓वता त्व᳓क्षसा प᳓न्यसा च
वृत्रह᳓त्याय र᳓थम् इन्द्र तिष्ठ
धिष्व᳓ व᳓ज्रं ह᳓स्त आ᳓ दक्षिणत्रा᳓
अभि᳓ प्र᳓ मन्द पुरुदत्र मायाः᳓

10 अग्निर्न शुष्कम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि᳓र् न᳓ शु᳓ष्कं व᳓नम् इन्द्र हेती᳓
र᳓क्षो नि᳓ धक्षि अश᳓निर् न᳓ भीमा᳓
गम्भीर᳓य ऋष्व᳓या यो᳓ रुरो᳓ज
अ᳓ध्वानयद् दुरिता᳓ दम्भ᳓यच् च

11 आ सहस्रम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ सह᳓स्रम् पथि᳓भिर् इन्द्र राया᳓
तु᳓विद्युम्न तुविवा᳓जेभिर् अर्वा᳓क्
याहि᳓ सूनो सहसो य᳓स्य नू᳓ चिद्
अ᳓देव ई᳓शे पुरुहूत यो᳓तोः

12 प्र तुविद्युम्नस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ तुविद्युम्न᳓स्य स्थ᳓विरस्य घृ᳓ष्वेर्
दिवो᳓ ररप्शे महिमा᳓ पृथिव्याः᳓
ना᳓स्य श᳓त्रुर् न᳓ प्रतिमा᳓नम् अस्ति
न᳓ प्रतिष्ठिः᳓ पुरुमाय᳓स्य स᳓ह्योः

13 प्र तत्ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ त᳓त् ते अद्या᳓ क᳓रणं कृत᳓म् भूत्
कु᳓त्सं य᳓द् आयु᳓म् अतिथिग्व᳓म् अस्मै
पुरू᳓ सह᳓स्रा नि᳓ शिशा अभि᳓ क्षा᳓म्
उ᳓त् तू᳓र्वयाणं धृषता᳓ निनेथ

14 अनु त्वाहिघ्ने - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓नु त्वा᳓हिघ्ने अ᳓ध देव देवा᳓
म᳓दन् वि᳓श्वे कवि᳓तमं कवीना᳓म्
क᳓रो य᳓त्र व᳓रिवो बाधिता᳓य
दिवे᳓ ज᳓नाय तनु᳓वे गृणानः᳓

15 अनु द्यावापृथिवी - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓नु द्या᳓वापृथिवी᳓ त᳓त् त ओ᳓जो
अ᳓मर्तिया जिहत इन्द्र देवाः᳓
कृष्वा᳓ कृत्नो अ᳓कृतं य᳓त् ते अ᳓स्ति
उक्थं᳓ न᳓वीयो जनयस्व यज्ञइः᳓