०१७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

चतुर्थाष्टके षष्ठोऽध्याय आरभ्यते । षष्ठे मण्डले द्वितीयेऽनुवाके प्रथमं सूक्तं व्याख्यातम् । तत्र ‘ पिबा सोमम् ’ इति पञ्चदशर्चं द्वितीयं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभम् । अन्त्या द्विपदा त्रिष्टुप् । तथा चानुक्रान्तं– पिब पञ्चोनैन्द्रं त्रैष्टुभं द्विपदान्तम्’ इति । अभिजिति मरुत्वतीयशस्त्रे एतन्निविद्धानम्। सूत्रितं च- पिबा सोमं तमु ष्टुहीति मध्यंदिनः ’ ( आश्व. श्रौ. ८. ५) इति । समूळ्हे दशरात्रेऽष्टमेऽहनि मरुस्वतीयशस्त्रे एतत्सूक्तम् । सूत्रितं च- ’ पिबा सोममभि तमस्य द्यावापृथिवी’ (आश्व. श्रौ. ८. ७) इति । सूर्यस्तुन्नाम्न्येकाहे मरुत्वतीये एतत्सूक्तं निविद्धानम् । सूत्र्यते हि-’ सूर्यस्तुता यशस्कामः पिबा सोममभि’ (अश्व. श्रौ. ९. ८) इति । महाव्रतेऽपि मरुत्वतीये एतत्सूक्तम् । तथैव पञ्चमारण्यके सूत्रितं- पिबा सोममभि यमुग्र तर्दः कया शुभा सवयसः सनीळाः ’ ( ऐ. आ. ५. १. १) इति । माध्यंदिने सवने आद्यास्तिस्रो होतृमैत्रावरुणब्राह्मणाच्छंसिनां प्रस्थितयाज्याः । सूत्रितं च-’ पिबा सोममभि यमुग्र तर्द इति तिस्रोऽर्वाङेहि सोमकामं त्वाहुः’ (आश्व. श्रौ. ५. ५) इति ॥ ।

Jamison Brereton

17 (458)
Indra
Bharadvāja Bārhaspatya
15 verses: triṣṭubh, except dvipadā 15
This hymn is divided into two roughly equal parts, with the first devoted to the Vala myth (vss. 2–6), the second to the Vr̥tra myth (vss. 8–12). The first verse announces these two themes in order, allotting each a half-verse. The two mythic segments are separated by a verse about Indra’s general cosmogonic deeds (7); the last three verses (13–15) urge Indra to use the same powers to help the poet and his patrons. The account of both narratives emphasizes the role of soma in rousing Indra to his great deeds, and the hymn begins with three verses (1–3) with the insistent imperative “drink!” The Vala myth is in fact configured as a model for Indra’s behavior in the present with the mythic deeds presented as still to happen: he is enjoined to drill through to the cattle pen (vss. 2, 3) and to disclose the sun (vs. 3). The hymn thus appears to be associated with the activities at dawn. The Vr̥tra myth is more consistently presented as a deed in the past (though see vss. 8, 11).

Jamison Brereton Notes

Indra This hymn is marked by clusters of localized repetitions and echoes; see disc.

below.

01 पिबा सोममभि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पि᳓बा सो᳓मम् अभि᳓ य᳓म् उग्र त᳓र्द
ऊर्वं᳓ ग᳓व्यम् म᳓हि गृणान᳓ इन्द्र
वि᳓ यो᳓ धृष्णो व᳓धिषो वज्रहस्त
वि᳓श्वा वृत्र᳓म् अमित्रि᳓या श᳓वोभिः

02 सईं पाहि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ ईम् पाहि य᳓ ऋजीषी᳓ त᳓रुत्रो
यः᳓ शि᳓प्रवान् वृषभो᳓ यो᳓ मतीना᳓म्
यो᳓ गोत्रभि᳓द् वज्रभृ᳓द् यो᳓ हरिष्ठाः᳓
स᳓ इन्द्र चित्राँ᳓ अभि᳓ तृन्धि वा᳓जान्

03 एवा पाहि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एवा᳓ पाहि प्रत्न᳓था म᳓न्दतु त्वा
श्रुधि᳓ ब्र᳓ह्म वावृध᳓स्वोत᳓ गीर्भिः᳓
आविः᳓ सू᳓र्यं कृणुहि᳓ पीपिही᳓षो
जहि᳓ श᳓त्रूँर् अभि᳓ गा᳓ इन्द्र तृन्धि

04 ते त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ त्वा म᳓दा बृह᳓द् इन्द्र स्वधाव
इमे᳓ पीता᳓ उक्षयन्त द्युम᳓न्तम्
महा᳓म् अ᳓नूनं तव᳓सं वि᳓भूतिम्
मत्सरा᳓सो जर्हृषन्त प्रसा᳓हम्

05 येभिः सूर्यमुषसम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓भिः सू᳓र्यम् उष᳓सम् मन्दसानो᳓
अ᳓वासयो अ᳓प दॄळ्हा᳓नि+ द᳓र्द्रत्
महा᳓म् अ᳓द्रिम् प᳓रि गा᳓ इन्द्र स᳓न्तं
नुत्था᳓ अ᳓च्युतं स᳓दसस् प᳓रि स्वा᳓त्

06 तव क्रत्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓व क्र᳓त्वा त᳓व त᳓द् दंस᳓नाभिर्
आमा᳓सु पक्वं᳓ श᳓चिया नि᳓ दीधः
अउ᳓र्णोर् दु᳓र उस्रि᳓याभ्यो वि᳓ दॄळ्हा᳓+
उ᳓द् ऊर्वा᳓द् गा᳓ असृजो अ᳓ङ्गिरस्वान्

07 पप्राथ क्षाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पप्रा᳓थ क्षा᳓म् म᳓हि दं᳓सो वि᳓ उर्वी᳓म्
उ᳓प द्या᳓म् ऋष्वो᳓ बृह᳓द् इन्द्र स्तभायः
अ᳓धारयो रो᳓दसी देव᳓पुत्रे
प्रत्ने᳓ मात᳓रा यह्वी᳓ ऋत᳓स्य

08 अध त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध त्वा वि᳓श्वे पुर᳓ इन्द्र देवा᳓
ए᳓कं तव᳓सं दधिरे भ᳓राय
अ᳓देवो य᳓द् अभि᳓ अउ᳓हिष्ट देवा᳓न्
सु᳓वर्षाता वृणत इ᳓न्द्रम् अ᳓त्र

09 अध द्यौश्चित्ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध द्यउ᳓श् चित् ते अ᳓प सा᳓ नु᳓ व᳓ज्राद्
द्विता᳓नमद् भिय᳓सा स्व᳓स्य मन्योः᳓
अ᳓हिं य᳓द् इ᳓न्द्रो अभि᳓ ओ᳓हसानं
नि᳓ चिद् विश्वा᳓युः शय᳓थे जघा᳓न

10 अध त्वष्था - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध त्व᳓ष्टा ते मह᳓ उग्र व᳓ज्रं
सह᳓स्रभृष्टिं ववृतच् छता᳓श्रिम्
नि᳓कामम् अर᳓मणसं ये᳓न
न᳓वन्तम् अ᳓हिं स᳓म् पिणग् ऋजीषिन्

11 वर्धान्यं विश्वे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व᳓र्धान् यं᳓ वि᳓श्वे मरु᳓तः सजो᳓षाः
प᳓चच् छत᳓म् महिषाँ᳓ इन्द्र तु᳓भ्यम्
पूषा᳓ वि᳓ष्णुस् त्री᳓णि स᳓रांसि धावन्
वृत्रह᳓णम् मदिर᳓म् अंशु᳓म् अस्मै

12 आ क्षोदो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ क्षो᳓दो म᳓हि वृतं᳓ नदी᳓नाम्
प᳓रिष्ठितम् असृज ऊर्मि᳓म् अपा᳓म्
ता᳓साम् अ᳓नु प्रव᳓त इन्द्र प᳓न्थाम्
प्रा᳓र्दयो नी᳓चीर् अप᳓सः समुद्र᳓म्

13 एवा ता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एवा᳓ ता᳓ वि᳓श्वा चकृवां᳓सम् इ᳓न्द्रम्
महा᳓म् उग्र᳓म् अजुरियं᳓ सहोदा᳓म्
सुवी᳓रं त्वा सुआयुधं᳓ सुव᳓ज्रम्
आ᳓ ब्र᳓ह्म न᳓व्यम् अ᳓वसे ववृत्यात्

14 स नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ नो वा᳓जाय श्र᳓वस इषे᳓ च
राये᳓ धेहि द्युम᳓त इन्द्र वि᳓प्रान्
भर᳓द्वाजे नृव᳓त इन्द्र सूरी᳓न्
दिवि᳓ च स्मैधि पा᳓रिये न इन्द्र

15 अया वाजम् - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

अया᳓ वा᳓जं देव᳓हितं सनेम
म᳓देम · शत᳓हिमाः सुवी᳓राः