०१६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

द्वितीयेऽनुवाकेऽष्ट सूक्तानि । तत्र त्वमग्ने यज्ञानाम् ’ इत्यष्टाचत्वारिंशदृचं प्रथमं सूक्तं भरद्वाजस्यार्षमाग्नेयम् । आद्या षष्ठी च वर्धमाना गायत्री ‘ षट्कसप्तकाष्टकाः सा वर्धमाना ’ इत्युक्तलक्षणोपेतत्वात् । सप्तविंश्यनुष्टुप् । ‘आ ते अग्ने, अग्निं देवासः’ इत्येते ऋचावनुष्टुभौ। तयोः पूर्वा ‘वीती यो देवम् इति त्रिष्टुप् । शिष्टा द्वाचत्वारिंशदृचो गायत्र्यः । तथा चानुक्रम्यते– ‘ त्वमग्नेऽष्टाचत्वारिंशद्गायत्रं वर्धमानाद्या षष्ठी च सप्तविंश्यनुष्टुप् त्रिष्टुप्पूर्वे चान्त्ये ’ इति । प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ गायत्रे छन्दसीदं सूक्तमुच्यते । तत्रान्त्यास्तिस्र ऋच उद्धर्तव्याः । सूत्र्यते हि – त्वमग्ने यज्ञानामिति तिस्र उत्तमा उद्धरेत्’ (आश्व. श्रौ. ४.१३.७ ) इति । विश्वजित्याग्निमारुते बृहत्साम यद्यग्निष्टोमसाम स्यात्तदानीमाद्याः षड़ृचः स्तोत्रियानुरूपार्थाः । सूत्रितं हि - त्वमग्ने यज्ञानामिति स्तोत्रियानुरूपौ ’ (आश्व. श्रौ. ८.७.११) इति ।।

Jamison Brereton

16 (457)
Agni
Bharadvāja Bārhaspatya
48 verses: gāyatrī, except vardhamānā 1, 6, anuṣṭubh 27, 47–48, triṣṭubh 46, arranged in trcas ̥
This lengthy hymn must, like the last one (VI.15), be dissolved into tr̥cas in order to fit the numerical arrangement of the maṇḍala. As Proferes (2007: 9) points out, this is an assemblage of Bharadvāja kindling verses, similar to the collections made by the Vaiśvāmitras (III.27) and the Atris (V.28), likewise placed at or near the end of their Agni cycle. Again, the content stays primarily focused on the ritual aspects of Agni. Personal and family names are found fairly commonly (see especially the second [vss. 4–6, and cf. vs. 19] and fifth [vss. 13–15] tr̥cas). There are overt signs of unity within some of the tr̥cas: for instance, both the second (vss. 4–6) and the third tr̥cas (vss. 7–9) begin each verse with a form of “you”; a variant of this is found in the fifth tr̥ca (vss. 13–15).

Jamison Brereton Notes

Agni

01 त्वमग्ने यज्ञानाम् - वर्धमाना गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वम॑ग्ने य॒ज्ञानां॒ होता॒ विश्वे॑षां हि॒तः ।
दे॒वेभि॒र्मानु॑षे॒ जने॑ ॥

02 स नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स नो॑ म॒न्द्राभि॑रध्व॒रे जि॒ह्वाभि॑र्यजा म॒हः ।
आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥

03 वेत्था हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वेत्था॒ हि वे॑धो॒ अध्व॑नः प॒थश्च॑ दे॒वाञ्ज॑सा ।
अग्ने॑ य॒ज्ञेषु॑ सुक्रतो ॥

04 त्वामीळे अध - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वामी॑ळे॒ अध॑ द्वि॒ता भ॑र॒तो वा॒जिभिः॑ शु॒नम् ।
ई॒जे य॒ज्ञेषु॑ य॒ज्ञिय॑म् ॥

05 त्वमिमा वार्या - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वमि॒मा वार्या॑ पु॒रु दिवो॑दासाय सुन्व॒ते ।
भ॒रद्वा॑जाय दा॒शुषे॑ ॥

06 त्वं दूतो - वर्धमाना गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं दू॒तो अम॑र्त्य॒ आ व॑हा॒ दैव्यं॒ जन॑म् ।
शृ॒ण्वन्विप्र॑स्य सुष्टु॒तिम् ॥

07 त्वामग्ने स्वाध्योथ् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वाम॑ग्ने स्वा॒ध्यो॒३॒॑ मर्ता॑सो दे॒ववी॑तये ।
य॒ज्ञेषु॑ दे॒वमी॑ळते ॥

08 तव प्र - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तव॒ प्र य॑क्षि सं॒दृश॑मु॒त क्रतुं॑ सु॒दान॑वः ।
विश्वे॑ जुषन्त का॒मिनः॑ ॥

09 त्वं होता - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं होता॒ मनु॑र्हितो॒ वह्नि॑रा॒सा वि॒दुष्ट॑रः ।
अग्ने॒ यक्षि॑ दि॒वो विशः॑ ॥

10 अग्न आ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

([सायणो ऽत्र। भरद्वाजः। गायत्री। अग्निः।])

अग्न आ या॑हि वी॒तये (=हविर्भक्षणाय)
गृणा॒नो (=स्तूयमानः) ह॒व्यदा॑तये (देवेभ्यः)
नि होता॑ सत्सि ब॒र्हिषि॑ ।।

11 तं त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तं त्वा॑ स॒मिद्भि॑रङ्गिरो घृ॒तेन॑ वर्धयामसि ।
बृ॒हच्छो॑चा यविष्ठ्य ॥

12 स नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स नः॑ पृ॒थु श्र॒वाय्य॒मच्छा॑ देव विवाससि ।
बृ॒हद॑ग्ने सु॒वीर्य॑म् ॥

13 त्वामग्ने पुष्करादध्यथर्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत ।
मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ॥

14 तमु त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तमु॑ त्वा द॒ध्यङ्ङृषिः॑ पु॒त्र ई॑धे॒ अथ॑र्वणः ।
वृ॒त्र॒हणं॑ पुरन्द॒रम् ॥

15 तमु त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम् ।
ध॒नं॒ज॒यं रणे॑रणे ॥

16 एह्यू षु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

एह्यू॒ षु ब्रवा॑णि॒ तेऽग्न॑ इ॒त्थेत॑रा॒ गिरः॑ ।
ए॒भिर्व॑र्धास॒ इन्दु॑भिः ॥

17 यत्र क्व - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यत्र॒ क्व॑ च ते॒ मनो॒ दक्षं॑ दधस॒ उत्त॑रम् ।
तत्रा॒ सदः॑ कृणवसे ॥

18 नहि ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

न॒हि ते॑ पू॒र्तम॑क्षि॒पद्भुव॑न्नेमानां वसो ।
अथा॒ दुवो॑ वनवसे ॥

19 आग्निरगामि भारतो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आग्निर॑गामि॒ भार॑तो वृत्र॒हा पु॑रु॒चेत॑नः ।
दिवो॑दासस्य॒ सत्प॑तिः ॥

20 स हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स हि विश्वाति॒ पार्थि॑वा र॒यिं दाश॑न्महित्व॒ना ।
व॒न्वन्नवा॑तो॒ अस्तृ॑तः ॥

21 स प्रत्नवन्नवीयसाग्ने - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स प्र॑त्न॒वन्नवी॑य॒साग्ने॑ द्यु॒म्नेन॑ सं॒यता॑ ।
बृ॒हत्त॑तन्थ भा॒नुना॑ ॥

22 प्र वः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र वः॑ सखायो अ॒ग्नये॒ स्तोमं॑ य॒ज्ञं च॑ धृष्णु॒या ।
अर्च॒ गाय॑ च वे॒धसे॑ ॥

23 स हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स हि यो मानु॑षा यु॒गा सीद॒द्धोता॑ क॒विक्र॑तुः ।
दू॒तश्च॑ हव्य॒वाह॑नः ॥

24 ता राजाना - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ता राजा॑ना॒ शुचि॑व्रतादि॒त्यान्मारु॑तं ग॒णम् ।
वसो॒ यक्षी॒ह रोद॑सी ॥

25 वस्वी ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वस्वी॑ ते अग्ने॒ सन्दृ॑ष्टिरिषय॒ते मर्त्या॑य ।
ऊर्जो॑ नपाद॒मृत॑स्य ॥

26 क्रत्वा दा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

क्रत्वा॒ दा अ॑स्तु॒ श्रेष्ठो॒ऽद्य त्वा॑ व॒न्वन्त्सु॒रेक्णाः॑ ।
मर्त॑ आनाश सुवृ॒क्तिम् ॥

27 ते ते - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ते ते॑ अग्ने॒ त्वोता॑ इ॒षय॑न्तो॒ विश्व॒मायुः॑ ।
तर॑न्तो अ॒र्यो अरा॑तीर्व॒न्वन्तो॑ अ॒र्यो अरा॑तीः ॥

28 अग्निस्तिग्मेन शोचिषा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यास॒द्विश्वं॒ न्य१॒॑त्रिण॑म् ।
अ॒ग्निर्नो॑ वनते र॒यिम् ॥

29 सुवीरं रयिमा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सु॒वीरं॑ र॒यिमा भ॑र॒ जात॑वेदो॒ विच॑र्षणे ।
ज॒हि रक्षां॑सि सुक्रतो ॥

30 त्वं नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं नः॑ पा॒ह्यंह॑सो॒ जात॑वेदो अघाय॒तः ।
रक्षा॑ णो ब्रह्मणस्कवे ॥

31 यो नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यो नो॑ अग्ने दु॒रेव॒ आ मर्तो॑ व॒धाय॒ दाश॑ति ।
तस्मा॑न्नः पा॒ह्यंह॑सः ॥

32 त्वं तम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं तं दे॑व जि॒ह्वया॒ परि॑ बाधस्व दु॒ष्कृत॑म् ।
मर्तो॒ यो नो॒ जिघां॑सति ॥

33 भरद्वाजाय सप्रथः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

भ॒रद्वा॑जाय स॒प्रथः॒ शर्म॑ यच्छ सहन्त्य ।
अग्ने॒ वरे॑ण्यं॒ वसु॑ ॥

34 अग्निवृड़्त्राणि जङ्घनद्द्रविणस्युर्विपन्यया - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निर्वृ॒त्राणि॑ जङ्घनद्द्रविण॒स्युर्वि॑प॒न्यया॑ ।
समि॑द्धः शु॒क्र आहु॑तः ॥

35 गर्भे मातुः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

गर्भे॑ मा॒तुः पि॒तुष्पि॒ता वि॑दिद्युता॒नो अ॒क्षरे॑ ।
सीद॑न्नृ॒तस्य॒ योनि॒मा ॥

36 ब्रह्म प्रजावदा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म॑ प्र॒जाव॒दा भ॑र॒ जात॑वेदो॒ विच॑र्षणे ।
अग्ने॒ यद्दी॒दय॑द्दि॒वि ॥

37 उप त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उप॑ त्वा र॒ण्वसं॑दृशं॒ प्रय॑स्वन्तः सहस्कृत ।
अग्ने॑ ससृ॒ज्महे॒ गिरः॑ ॥

38 उप च्छायामिव - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उप॑ च्छा॒यामि॑व॒ घृणे॒रग॑न्म॒ शर्म॑ ते व॒यम् ।
अग्ने॒ हिर॑ण्यसन्दृशः ॥

39 य उग्र - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य उ॒ग्र इ॑व शर्य॒हा ति॒ग्मशृ॑ङ्गो॒ न वंस॑गः ।
अग्ने॒ पुरो॑ रु॒रोजि॑थ ॥

40 आ यम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ यं हस्ते॒ न खा॒दिनं॒ शिशुं॑ जा॒तं न बिभ्र॑ति ।
वि॒शाम॒ग्निं स्व॑ध्व॒रम् ॥

41 प्र देवम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र दे॒वं दे॒ववी॑तये॒ भर॑ता वसु॒वित्त॑मम् ।
आ स्वे योनौ॒ नि षी॑दतु ॥

42 आ जातम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ जा॒तं जा॒तवे॑दसि प्रि॒यं शि॑शी॒ताति॑थिम् ।
स्यो॒न आ गृ॒हप॑तिम् ॥

43 अग्ने युक्ष्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॑ यु॒क्ष्वा हि ये तवाश्वा॑सो देव सा॒धवः॑ ।
अरं॒ वह॑न्ति म॒न्यवे॑ ॥

44 अच्छा नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अच्छा॑ नो या॒ह्या व॑हा॒भि प्रयां॑सि वी॒तये॑ ।
आ दे॒वान्त्सोम॑पीतये ॥

45 उदग्ने भारत - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उद॑ग्ने भारत द्यु॒मदज॑स्रेण॒ दवि॑द्युतत् ।
शोचा॒ वि भा॑ह्यजर ॥

46 वीती यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वी॒ती यो दे॒वं मर्तो॑ दुव॒स्येद॒ग्निमी॑ळीताध्व॒रे ह॒विष्मा॑न् ।
होता॑रं सत्य॒यजं॒ रोद॑स्योरुत्ता॒नह॑स्तो॒ नम॒सा वि॑वासेत् ॥

47 आ ते - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ ते॑ अग्न ऋ॒चा ह॒विर्हृ॒दा त॒ष्टं भ॑रामसि ।
ते ते॑ भवन्तू॒क्षण॑ ऋष॒भासो॑ व॒शा उ॒त ॥

48 अग्निं देवासो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निं दे॒वासो॑ अग्रि॒यमि॒न्धते॑ वृत्र॒हन्त॑मम् ।
येना॒ वसू॒न्याभृ॑ता तृ॒ळ्हा रक्षां॑सि वा॒जिना॑ ॥