०१५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘इममू षु वः’ इत्येकोनविंशत्यृचं पञ्चदशं सूक्तमाङ्गिरसस्य वीतहव्यस्य भरद्वाजस्य वार्षमाग्नेयम् । आदौ नव जगत्यस्तृतीयाषष्ठ्यौ तु शक्वर्यतिशक्वर्यौ पञ्चदशी शक्करी सप्तदश्यनुबष्टादशी बृहती दशम्याद्याः पञ्च षोडश्येकोनविंशी चेति सप्त त्रिष्टुभः । तथा चानुक्रान्तम् - ‘इममू ष्वेकोना वीतहव्य ऋषिर्वा जागतं प्राग्दशम्यास्तृतीयापञ्चदश्यौ शक्वर्यौ षष्ठ्यतिशक्वर्यनुष्टुब्बृहत्या उपान्त्ये’ इति । प्रातरनुवाक आग्नेये क्रतावाश्विनशस्त्रे चादितो नवर्चः । सूत्रितं च - ‘ इममू षु वो अतिथिमुषर्बुधमिति नव’ (आश्व. श्रौ. ४. १३) इति । दशरात्रे पञ्चमेऽहनि आद्यं नवर्चमाज्यशस्त्रम् । सूत्रितं च — इममू षु वो अतिथिमुषर्बुधमिति नवाज्यम् ’ (आश्व. श्रौ. ७. १२) इति ।।

Jamison Brereton

15 (456)
Agni
Vītahavya Āṅgirasa or Bharadvāja Bārhaspatya
19 verses: jagatī 1–2, śakvarī 3, jagatī 4–5, atiśakvarī 6, jagatī 7–9, triṣṭubh 10–14, śakvarī 15, triṣṭubh 16, anuṣṭubh 17, brhati 18, tri ̥ ṣṭubh 19, arranged in trcas ̥
With its nineteen verses, this hymn as a unity would clearly be out of place in the arrangement of the maṇḍala, but dissolved into a series of five independent tr̥cas, its first fifteen verses fit well. The last four verses (16–19) are considered by Oldenberg (1888: 194) to be a later addition, and their vocabulary shows certain signs of com
parative modernity. The content of these triads is generally unremarkable, concentrating on the installation of the ritual fire, Agni’s sacrificial role as envoy between gods and men, and the ritual service performed for him by mortals. To some extent the tr̥cas seem to be exercises in variation; for example, the first verses of the first two tr̥cas (1, 4) share some key words and phrases and can in part be interpreted by compari
son with each other.

Jamison Brereton Notes

Agni

01 इममू षु - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒ममू॒ षु वो॒ अति॑थिमुष॒र्बुधं॒ विश्वा॑सां वि॒शां पति॑मृञ्जसे गि॒रा ।
वेतीद्दि॒वो ज॒नुषा॒ कच्चि॒दा शुचि॒र्ज्योक्चि॑दत्ति॒ गर्भो॒ यदच्यु॑तम् ॥

02 मित्रं न - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

मि॒त्रं न यं सुधि॑तं॒ भृग॑वो द॒धुर्वन॒स्पता॒वीड्य॑मू॒र्ध्वशो॑चिषम् ।
स त्वं सुप्री॑तो वी॒तह॑व्ये अद्भुत॒ प्रश॑स्तिभिर्महयसे दि॒वेदि॑वे ॥

03 स त्वम् - शक्वरी

विश्वास-प्रस्तुतिः ...{Loading}...

स त्वं दक्ष॑स्यावृ॒को वृ॒धो भू॑र॒र्यः पर॒स्यान्त॑रस्य॒ तरु॑षः ।
रा॒यः सू॑नो सहसो॒ मर्त्ये॒ष्वा छ॒र्दिर्य॑च्छ वी॒तह॑व्याय स॒प्रथो॑ भ॒रद्वा॑जाय स॒प्रथः॑ ॥

04 द्युतानं वो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

द्यु॒ता॒नं वो॒ अति॑थिं॒ स्व॑र्णरम॒ग्निं होता॑रं॒ मनु॑षः स्वध्व॒रम् ।
विप्रं॒ न द्यु॒क्षव॑चसं सुवृ॒क्तिभि॑र्हव्य॒वाह॑मर॒तिं दे॒वमृ॑ञ्जसे ॥

05 पावकया यश्चितयन्त्या - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

पा॒व॒कया॒ यश्चि॒तय॑न्त्या कृ॒पा क्षाम॑न्रुरु॒च उ॒षसो॒ न भा॒नुना॑ ।
तूर्व॒न्न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे न त॑तृषा॒णो अ॒जरः॑ ॥

06 अग्निमग्निं वः - अतिशक्वरी

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निम॑ग्निं वः स॒मिधा॑ दुवस्यत प्रि॒यम्प्रि॑यं वो॒ अति॑थिं गृणी॒षणि॑ ।
उप॑ वो गी॒र्भिर॒मृतं॑ विवासत दे॒वो दे॒वेषु॒ वन॑ते॒ हि वार्यं॑ दे॒वो दे॒वेषु॒ वन॑ते॒ हि नो॒ दुवः॑ ॥

07 समिद्धमग्निं समिधा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

समि॑द्धम॒ग्निं स॒मिधा॑ गि॒रा गृ॑णे॒ शुचिं॑ पाव॒कं पु॒रो अ॑ध्व॒रे ध्रु॒वम् ।
विप्रं॒ होता॑रं पुरु॒वार॑म॒द्रुहं॑ क॒विं सु॒म्नैरी॑महे जा॒तवे॑दसम् ॥

08 त्वां दूतमग्ने - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वां दू॒तम॑ग्ने अ॒मृतं॑ यु॒गेयु॑गे हव्य॒वाहं॑ दधिरे पा॒युमीड्य॑म् ।
दे॒वास॑श्च॒ मर्ता॑सश्च॒ जागृ॑विं वि॒भुं वि॒श्पतिं॒ नम॑सा॒ नि षे॑दिरे ॥

09 विभूषन्नग्न उभयाँ - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒भूष॑न्नग्न उ॒भयाँ॒ अनु॑ व्र॒ता दू॒तो दे॒वानां॒ रज॑सी॒ समी॑यसे ।
यत्ते॑ धी॒तिं सु॑म॒तिमा॑वृणी॒महेऽध॑ स्मा नस्त्रि॒वरू॑थः शि॒वो भ॑व ॥

10 तं सुप्रतीकम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तं सु॒प्रती॑कं सु॒दृशं॒ स्वञ्च॒मवि॑द्वांसो वि॒दुष्ट॑रं सपेम ।
स य॑क्ष॒द्विश्वा॑ व॒युना॑नि वि॒द्वान्प्र ह॒व्यम॒ग्निर॒मृते॑षु वोचत् ॥

11 तमग्ने पास्युत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तम॑ग्ने पास्यु॒त तं पि॑पर्षि॒ यस्त॒ आन॑ट् क॒वये॑ शूर धी॒तिम् ।
य॒ज्ञस्य॑ वा॒ निशि॑तिं॒ वोदि॑तिं वा॒ तमित्पृ॑णक्षि॒ शव॑सो॒त रा॒या ॥

12 त्वमग्ने वनुष्यतो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वम॑ग्ने वनुष्य॒तो नि पा॑हि॒ त्वमु॑ नः सहसावन्नव॒द्यात् ।
सं त्वा॑ ध्वस्म॒न्वद॒भ्ये॑तु॒ पाथः॒ सं र॒यिः स्पृ॑ह॒याय्यः॑ सह॒स्री ॥

13 अग्निर्होता गृहपतिः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निर्होता॑ गृ॒हप॑तिः॒ स राजा॒ विश्वा॑ वेद॒ जनि॑मा जा॒तवे॑दाः ।
दे॒वाना॑मु॒त यो मर्त्या॑नां॒ यजि॑ष्ठः॒ स प्र य॑जतामृ॒तावा॑ ॥

14 अग्ने यदद्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होतः॒ पाव॑कशोचे॒ वेष्ट्वं हि यज्वा॑ ।
ऋ॒ता य॑जासि महि॒ना वि यद्भूर्ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ॥

15 अभि प्रयांसि - शक्वरी

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि प्रयां॑सि॒ सुधि॑तानि॒ हि ख्यो नि त्वा॑ दधीत॒ रोद॑सी॒ यज॑ध्यै ।
अवा॑ नो मघव॒न्वाज॑साता॒वग्ने॒ विश्वा॑नि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ॥

16 अग्ने विश्वेभिः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॒ विश्वे॑भिः स्वनीक दे॒वैरूर्णा॑वन्तं प्रथ॒मः सी॑द॒ योनि॑म् ।
कु॒ला॒यिनं॑ घृ॒तव॑न्तं सवि॒त्रे य॒ज्ञं न॑य॒ यज॑मानाय सा॒धु ॥

17 इममु त्यमथर्ववदग्निम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒ममु॒ त्यम॑थर्व॒वद॒ग्निं म॑न्थन्ति वे॒धसः॑ ।
यम॑ङ्कू॒यन्त॒मान॑य॒न्नमू॑रं श्या॒व्या॑भ्यः ॥

18 जनिष्वा देववीतये - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

जनि॑ष्वा दे॒ववी॑तये स॒र्वता॑ता स्व॒स्तये॑ ।
आ दे॒वान्व॑क्ष्य॒मृताँ॑ ऋता॒वृधो॑ य॒ज्ञं दे॒वेषु॑ पिस्पृशः ॥

19 वयमु त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व॒यमु॑ त्वा गृहपते जनाना॒मग्ने॒ अक॑र्म स॒मिधा॑ बृ॒हन्त॑म् ।
अ॒स्थू॒रि नो॒ गार्ह॑पत्यानि सन्तु ति॒ग्मेन॑ न॒स्तेज॑सा॒ सं शि॑शाधि ॥