०१४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ अग्ना यः’ इति षड़ृचं चतुर्दशं सूक्तं भरद्वाजस्यार्षमाग्नेयम् । षष्ठी शक्वरी शिष्टाः पञ्चानुष्टुभः । तथा चानुक्रान्तम् - अग्ना य आनुष्टुभं शक्वर्यन्तम्’ इति । प्रातरनुवाक आग्नेये क्रतावाश्विनशस्त्रे चेदं सूक्तम् । सूत्रितं च - ’ अग्ना यो होताजनिष्ट ’ ( आश्व. श्रौ. ४. १३) इति । अत्रेश्चतुर्वीराख्ये चतूरात्रेऽहीने तृतीयेऽहनीदं सूक्तमाज्यशस्वम् । सूत्रितं च - अग्ना यो मर्त्यो दुव इति तृतीये ’ (आश्व. श्रौ. १०. २) इति ॥

Jamison Brereton

14 (455)
Agni
Bharadvāja Bārhaspatya
6 verses: anuṣṭubh, except śakvarī 6
Though it begins with friendship, insight, and refreshment (vs. 1), this is a martial hymn, naming Agni as the priest specific to the Ārya (vs. 2) and asking him to give

heroes and victory to the Ārya in their battles with the non-Ārya and to our particu lar group of Ārya in internal conflicts (vss. 3–5). The hymn is noteworthy in using the metaphor of riches/wealth for an abundance of good fighting men: the phrase “riches of the stranger” in verse 3 refers, in our opinion, to the manpower of the Ārya, and this metaphor is repeated in verse 5.

01 अग्ना यो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ना᳓ यो᳓ म᳓र्तियो दु᳓वो
धि᳓यं जुजो᳓ष धीति᳓भिः
भ᳓सन् नु᳓ ष᳓ प्र᳓ पूर्विय᳓
इ᳓षं वुरीत अ᳓वसे

02 अग्निरिद्धि प्रचेता - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि᳓र् इ᳓द् धि᳓ प्र᳓चेता
अग्नि᳓र् वेध᳓स्तम ऋ᳓षिः
अग्निं᳓ हो᳓तारम् ईळते
यज्ञे᳓षु म᳓नुषो वि᳓शः

03 नाना ह्यट्ग्नेऽवसे - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ना᳓ना हि᳓ अग्ने अ᳓वसे
स्प᳓र्धन्ते रा᳓यो अरियः᳓
तू᳓र्वन्तो द᳓स्युम् आय᳓वो
व्रतइः᳓ सी᳓क्षन्तो अव्रत᳓म्

04 अग्निरप्सामृतीषहं वीरम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि᳓र् अप्सा᳓म् ऋतीष᳓हं
वीरं᳓ ददाति स᳓त्पतिम्
य᳓स्य त्र᳓सन्ति श᳓वसः
संच᳓क्षि श᳓त्रवो भिया᳓

05 अग्निर्हि विद्मना - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि᳓र् हि᳓ विद्म᳓ना निदो᳓
देवो᳓ म᳓र्तम् उरुष्य᳓ति
सहा᳓वा य᳓स्य अ᳓वृतो
रयि᳓र् वा᳓जेषु अ᳓वृतः

06 अच्छा नो - शक्वरी

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓छा नो मित्रमहो देव देवा᳓न्
अ᳓ग्ने वो᳓चः सुमतिं᳓ रो᳓दसीयोः
वीहि᳓ सुअस्तिं᳓ सुक्षितिं᳓ दिवो᳓ नॄ᳓न्
द्विषो᳓ अं᳓हांसि दुरिता᳓ तरेम
ता᳓ तरेम त᳓वा᳓वसा तरेम