०१३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ त्वद्विश्वा ’ इति षड़ृचं त्रयोदशं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमाग्नेयम् । ‘ त्वद्विश्वा ’ इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥

Jamison Brereton

13 (454)
Agni
Bharadvāja Bārhaspatya
6 verses: triṣṭubh
This hymn stays focused on its theme of Agni as the possessor and distributor of treasures and blessings, and of the mortals who receive these goods through service to Agni.

Jamison Brereton Notes

Agni

01 त्वद्विश्वा सुभग - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓द् वि᳓श्वा सुभग सउ᳓भगानि
अ᳓ग्ने वि᳓ यन्ति वनि᳓नो न᳓ वयाः᳓
श्रुष्टी᳓ रयि᳓र् · वा᳓जो वृत्रतू᳓र्ये
दिवो᳓ वृष्टि᳓र् ई᳓डियो रीति᳓र् अपा᳓म्

02 त्वं भगो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓म् भ᳓गो न आ᳓ हि᳓ र᳓त्नम् इषे᳓
प᳓रिज्मेव क्षयसि दस्म᳓वर्चाः
अ᳓ग्ने मित्रो᳓ न᳓ बृहत᳓ ऋत᳓स्य
अ᳓सि क्षत्ता᳓ वाम᳓स्य देव भू᳓रेः

03 स सत्पतिः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ स᳓त्पतिः श᳓वसा हन्ति वृत्र᳓म्
अ᳓ग्ने वि᳓प्रो वि᳓ पणे᳓र् भर्ति वा᳓जम्
यं᳓ त्व᳓म् प्रचेत ऋतजात राया᳓
सजो᳓षा न᳓प्त्रा अपां᳐᳓ हिनो᳓षि

04 यस्ते सूनो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स् ते सूनो सहसो गीर्भि᳓र् उक्थइ᳓र्
यज्ञइ᳓र् म᳓र्तो नि᳓शितिं वेदिया᳓नट्
वि᳓श्वं स᳓ देव प्र᳓ति वा᳓रम् अग्ने
धत्ते᳓ धानि᳓यम् प᳓त्यते वसव्यइः᳡

05 ता नृभ्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ता᳓ नृ᳓भ्य आ᳓ सौश्रवसा᳓ सुवी᳓रा
अ᳓ग्ने सूनो सहसः पुष्य᳓से धाः
कृणो᳓षि य᳓च् छ᳓वसा भू᳓रि पश्वो᳓
व᳓यो वृ᳓काय अर᳓ये ज᳓सुरये

06 वद्मा सूनो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वद्मा᳓ सूनो सहसो नो वि᳓हाया
अ᳓ग्ने तोकं᳓ त᳓नयं वाजि᳓ नो दाः
वि᳓श्वाभिर् गीर्भि᳓र् अभि᳓ पूर्ति᳓म् अश्याम्
म᳓देम · शत᳓हिमाः सुवी᳓राः