०११

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘यजस्व होतः’ इति षड़ृचमेकादशं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमाग्नेयम् । अनुक्रम्यते च— ‘ यजस्व षट्’ इति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥

Jamison Brereton

11 (452)
Agni
Bharadvāja Bārhaspatya
6 verse: triṣṭubh
The insistent emphasis throughout this hymn is on Agni as Hotar priest and sacri ficer, who sacrifices both for and to himself.

Jamison Brereton Notes

Agni

01 यजस्व होतरिषितो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓जस्व होतर् इषितो᳓ य᳓जीयान्
अ᳓ग्ने बा᳓धो मरु᳓तां न᳓ प्र᳓युक्ति
आ᳓ नो मित्रा᳓व᳓रुणा ना᳓सतिया
द्या᳓वा होत्रा᳓य पृथिवी᳓ ववृत्याः

02 त्वं होता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ हो᳓ता मन्द्र᳓तमो नो अध्रु᳓ग्
अन्त᳓र् देवो᳓ विद᳓था म᳓र्तियेषु
पवाक᳓या+ जुहु᳓वा व᳓ह्निर् आसा᳓
अ᳓ग्ने य᳓जस्व तनु᳓वं त᳓व स्वा᳓म्

03 धन्या चिद्धि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ध᳓निया चिद् धि᳓ त्वे᳓ धिष᳓णा व᳓ष्टि
प्र᳓ देवा᳓ञ् ज᳓न्म गृणते᳓ य᳓जध्यै
वे᳓पिष्ठो अ᳓ङ्गिरसां य᳓द् ध वि᳓प्रो
म᳓धु छन्दो᳓ भ᳓नति रेभ᳓ इष्टउ᳓

04 अदिद्युतत्स्वपाको विभावाग्ने - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓दिद्युतत् सु᳓ अ᳓पाको विभा᳓वा
अ᳓ग्ने य᳓जस्व रो᳓दसी उरूची᳓
आयुं᳓ न᳓ यं᳓ न᳓मसा रात᳓हव्या
अञ्ज᳓न्ति सुप्रय᳓सम् प᳓ञ्च ज᳓नाः

05 वृञ्जे ह - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वृञ्जे᳓ ह य᳓न् न᳓मसा बर्हि᳓र् अग्ना᳓व्
अ᳓यामि स्रु᳓ग् घृत᳓वती सुवृक्तिः᳓
अ᳓म्यक्षि स᳓द्म स᳓दने पृथिव्या᳓
अ᳓श्रायि यज्ञः᳓ सू᳓रिये न᳓ च᳓क्षुः

06 दशस्या नः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दशस्या᳓ नः पुरुअणीक होतर्
देवे᳓भिर् अग्ने अग्नि᳓भिर् इधानः᳓
रायः᳓ सूनो सहसो वावसाना᳓
अ᳓ति स्रसेम वृज᳓नं न᳓ अं᳓हः