०११

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘यजस्व होतः’ इति षड़ृचमेकादशं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमाग्नेयम् । अनुक्रम्यते च— ‘ यजस्व षट्’ इति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥

Jamison Brereton

11 (452)
Agni
Bharadvāja Bārhaspatya
6 verse: triṣṭubh
The insistent emphasis throughout this hymn is on Agni as Hotar priest and sacri ficer, who sacrifices both for and to himself.

Jamison Brereton Notes

Agni

01 यजस्व होतरिषितो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यज॑स्व होतरिषि॒तो यजी॑या॒नग्ने॒ बाधो॑ म॒रुतां॒ न प्रयु॑क्ति ।
आ नो॑ मि॒त्रावरु॑णा॒ नास॑त्या॒ द्यावा॑ हो॒त्राय॑ पृथि॒वी व॑वृत्याः ॥

02 त्वं होता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं होता॑ म॒न्द्रत॑मो नो अ॒ध्रुग॒न्तर्दे॒वो वि॒दथा॒ मर्त्ये॑षु ।
पा॒व॒कया॑ जु॒ह्वा॒३॒॑ वह्नि॑रा॒साग्ने॒ यज॑स्व त॒न्वं१॒॑ तव॒ स्वाम् ॥

03 धन्या चिद्धि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

धन्या॑ चि॒द्धि त्वे धि॒षणा॒ वष्टि॒ प्र दे॒वाञ्जन्म॑ गृण॒ते यज॑ध्यै ।
वेपि॑ष्ठो॒ अङ्गि॑रसां॒ यद्ध॒ विप्रो॒ मधु॑ च्छ॒न्दो भन॑ति रे॒भ इ॒ष्टौ ॥

04 अदिद्युतत्स्वपाको विभावाग्ने - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अदि॑द्युत॒त्स्वपा॑को वि॒भावाग्ने॒ यज॑स्व॒ रोद॑सी उरू॒ची ।
आ॒युं न यं नम॑सा रा॒तह॑व्या अ॒ञ्जन्ति॑ सुप्र॒यसं॒ पञ्च॒ जनाः॑ ॥

05 वृञ्जे ह - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वृ॒ञ्जे ह॒ यन्नम॑सा ब॒र्हिर॒ग्नावया॑मि॒ स्रुग्घृ॒तव॑ती सुवृ॒क्तिः ।
अम्य॑क्षि॒ सद्म॒ सद॑ने पृथि॒व्या अश्रा॑यि य॒ज्ञः सूर्ये॒ न चक्षुः॑ ॥

06 दशस्या नः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

द॒श॒स्या नः॑ पुर्वणीक होतर्दे॒वेभि॑रग्ने अ॒ग्निभि॑रिधा॒नः ।
रा॒यः सू॑नो सहसो वावसा॒ना अति॑ स्रसेम वृ॒जनं॒ नांहः॑ ॥