००८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘पृक्षस्य’ इति सप्तर्चमष्टमं सूक्तं भरद्वाजस्यार्षं वैश्वानराग्निदेवताकम् । आदितः षट् जगत्यः सप्तमी त्रिष्टुप् । तथा चानुक्रान्तं – पृक्षस्यान्त्या त्रिष्टुप्’ इति । चातुर्विंशिकेऽहन्याग्निमारूते इदं सूक्तं वैश्वानरीयनिविद्धानम् । सूत्रितं च-’ पृक्षस्य वृष्णो वृष्ण शर्धाय’ (आश्व. श्रौ. ७. ४) इति । आभिप्लविके पृष्ठ्याभिप्लवषडहयोः पञ्चमेऽहनीदमेव सूक्तं वैश्वानरनिविद्धानम् । सूत्रितं च-’ पृक्षस्य वृष्णो वृष्णे शर्धाय नू चित्सहोजा इत्याग्निमारुतम्’ (आश्व. श्रौ. ७. ७) इति । विषुवत्याग्निमारुत आद्यौ तृचौ स्तोत्रियानुरूपौ । सूत्रितं च - पृक्षस्य वृष्णो अरुषस्य नू सह इति स्तोत्रियानुरूपौ’ (आश्व. श्रौ. ८. ६ ) इति ॥

Jamison Brereton

8 (449)
Agni Vaiśvānara
Bharadvāja Bārhaspatya
7 verses: jagatī, except triṣṭubh 7
Another Vaiśvānara hymn, and the cosmic aspects of Agni (and his double, the Sun), extensively treated in VI.7, are touched upon (vss. 2–3). Verse 1 strongly establishes a sacrificial context, however, which returns in verse 4, relating the primal establishment of the ritual fire. The remaining verses (5–7) beg him for benefits.
The hymn is also structured by a phonetic figure, the constant repetition of ini tial v- (see, e.g., 2c, 3a, 3c, all beginning with the preverb ví), indexing the epithet vaiśvānara, a form of which occurs in every verse but 5.

Jamison Brereton Notes

Agni Vaiśvānara This hymn, like the last, is dedicated to Agni Vaiśvānara and has a form of this epithet in every vs. but 5, always pāda-initial as in VI.7. However, the hymn is somewhat different from VI.7. In that hymn Agni Vaiśvānara was distinct from and dominated the sun (see esp. VI.7.5-6) until the last vs., while in this hymn the usual identification of Agni Vaiśvānara and the sun is in evidence. See esp. vs. 2. As noted in the published introduction, the hymn is also heavy with initial v’s, esp. in the earlier parts of the hymn, which index the epithet. Note esp. the three hemistichs that begin with the preverb ví (2c, 3a, 3c), as well as 1ab … vṛ́ṣnaḥ … vocaṃ vidáthā …, 2ab … vyòmani, vratā́ni … vratapā́…, 3cd … avartayad, vaiśvānaró víśvam … vṛ́ṣṇyam.

01 पृक्षस्य वृष्णो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

पृक्ष᳓स्य वृ᳓ष्णो अरुष᳓स्य नू᳓ स᳓हः
प्र᳓ नु᳓ वोचं विद᳓था जात᳓वेदसः
वैश्वानरा᳓य मति᳓र् न᳓व्यसी शु᳓चिः
सो᳓म इव पवते चा᳓रुर् अग्न᳓ये

02 स जायमानः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ जा᳓यमानः परमे᳓ वि᳓ओमनि
व्रता᳓नि अग्नि᳓र् व्रतपा᳓ अरक्षत
वि᳓ अन्त᳓रिक्षम् अमिमीत सुक्र᳓तुर्
वैश्वानरो᳓ महिना᳓ ना᳓कम् अस्पृशत्

03 व्यस्तभ्नाद्रोदसी मित्रो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ अस्तभ्नाद् रो᳓दसी मित्रो᳓ अ᳓द्भुतो
अन्तर्वा᳓वद् अकृणोज् ज्यो᳓तिषा त᳓मः
वि᳓ च᳓र्मणीव धिष᳓णे अवर्तयद्
वैश्वानरो᳓ वि᳓श्वम् अधत्त वृ᳓ष्णियम्

04 अपामुपस्थे महिषा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अपा᳓म् उप᳓स्थे महिषा᳓ अगृभ्णत
वि᳓शो रा᳓जानम् उ᳓प तस्थुर् ऋग्मि᳓यम्
आ᳓ दूतो᳓ अग्नि᳓म् अभरद् विव᳓स्वतो
वैश्वानर᳓म् मातरि᳓श्वा पराव᳓तः

05 युगेयुगे विदथ्यम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

युगे᳓-युगे विदथि᳓यं गृण᳓द्भियो
अ᳓ग्ने रयिं᳓ यश᳓सं धेहि न᳓व्यसीम्
पव्ये᳓व राजन्न् अघ᳓शंसम् अजर
नीचा᳓ नि᳓ वृश्च वनि᳓नं न᳓ ते᳓जसा

06 अस्माकमग्ने मघवत्सु - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अस्मा᳓कम् अग्ने मघ᳓वत्सु धारय+ +अ᳓-नामि+++(←नम्)+++ क्षत्र᳓म् अज᳓रं सुवी᳓र्यम् ।
वयं᳓ जयेम शति᳓नं सहस्रि᳓णं
वै᳓श्वानर वा᳓जम् अग्ने त᳓वोति᳓भिः ॥

07 अदब्धेभिस्तव गोपाभिरिष्थेऽस्माकम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓दब्धेभिस् त᳓व गोपा᳓भिर् इष्टे
अस्मा᳓कम् पाहि त्रिषधस्थ सूरी᳓न्
र᳓क्षा च नो ददु᳓षां श᳓र्धो अग्ने
वइ᳓श्वानर प्र᳓ च तारी स्त᳓वानः