००७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ मूर्धानम्’ इति सप्तर्चं सप्तमं सूक्तं भरद्वाजस्यार्षं वैश्वानराग्निदेवताकम् । षष्ठीसप्तम्यौ जगत्यौ शिष्टाः पञ्च त्रिष्टुभः । तथा चानुक्रान्तं- मूर्धानं वैश्वानरीयं हि द्विजगत्यन्तम्’ इति । गतः सूक्तविनियोगः । विषुवत्याग्निमारुत आद्यस्तृचो वैकल्पिकः स्तोत्रियः । तथैव सूत्रितं— मूर्धानं दिवो अरतिं पृथिव्या मूर्धा दिवो नाभिरग्निः पृथिव्या इति वा ’ ( आश्व. श्रौ. ८. ६) इति ॥

Jamison Brereton

7 (448)
Agni Vaiśvānara
Bharadvāja Bārhaspatya
7 verses: triṣṭubh, except jagatī 6–7
The hymn is dedicated to Agni as Vaiśvānara (“belonging to all men”), but the focus is primarily on his relationship with the gods (see, e.g., vss. 1–2, 4), on his cosmic reach and cosmogonic powers (see, e.g., vss. 1, 5–7), in which aspect he is identified with the sun (see esp. vs. 5), and, especially, on his birth: the root jan
“beget/be born” is found in each of the first five verses. It is only verse 3 that depicts Agni’s relationship with mortals.

Jamison Brereton Notes

Agni Vaiśvānara As noted in the published introduction, this hymn is heavily seeded with forms of √jan ‘beget, be born’. The epithet vaiśvānará- is also found in every vs. (1b, 2c, 3c, 4d, 5a, 6a, 7a), in all cases initial in its pāda.

01 मूर्धानं दिवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(विषुव-स्थान-रूपेण)+++ मूर्धा᳓नं दिवो᳓, अरतिं᳓+++(=चक्र-परिधिं)+++ पृथिव्या᳓,
वैश्वानर᳓म्, ऋत᳓+++(य्)+++ आ᳓ जात᳓म् अग्नि᳓म् ।
कविं᳓, सम्रा᳓जम्, अ᳓तिथिं ज᳓नानाम्,
+++(विषुव-स्थान-रूपेणापि)+++ आस᳓न्न्+++(=आस्यं)+++ आ᳓ पा᳓त्रं जनयन्त देवाः᳓ ॥

02 नाभिं यज्ञानाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ना᳓भिं यज्ञा᳓नां स᳓दनं रयीणा᳓म्
महा᳓म् आहाव᳓म् अभि᳓ सं᳓ नवन्त
वैश्वानरं᳓ रथि᳓यम् अध्वरा᳓णां
यज्ञ᳓स्य केतुं᳓ जनयन्त देवाः᳓

03 त्वद्विप्रो जायते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓द् वि᳓प्रो जायते वाजी᳓ अग्ने
तुव᳓द् वीरा᳓सो अभिमातिषा᳓हः
वइ᳓श्वानर तुव᳓म् अस्मा᳓सु धेहि
व᳓सूनि राजन् स्पृहया᳓यियाणि

04 त्वां विश्वे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवां᳓ वि᳓श्वे अमृत जा᳓यमानं
शि᳓शुं न᳓ देवा᳓ अभि᳓ सं᳓ नवन्ते
त᳓व क्र᳓तुभिर् अमृतत्व᳓म् आयन्
वइ᳓श्वानर य᳓त् पितरो᳓र्+ अ᳓दीदेः

05 वैश्वानर तव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वइ᳓श्वानर त᳓व ता᳓नि व्रता᳓नि
महा᳓नि अग्ने न᳓किर् आ᳓ दधर्ष
य᳓ज् जा᳓यमानः पितरो᳓र्+ उप᳓स्थे
अ᳓विन्दः केतुं᳓ वयु᳓नेषु अ᳓ह्नाम्

06 वैश्वानरस्य विमितानि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वैश्वानर᳓स्य वि᳓मितानि च᳓क्षसा
सा᳓नूनि दिवो᳓ अमृ᳓तस्य केतु᳓ना
त᳓स्ये᳓द् उ वि᳓श्वा भु᳓वना᳓धि मूर्ध᳓नि
वया᳓ इव रुरुहुः सप्त᳓ विस्रु᳓हः

07 वि यो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ यो᳓ र᳓जांसि अ᳓मिमीत सुक्र᳓तुर्
वैश्वानरो᳓ वि᳓ दिवो᳓ रोचना᳓ कविः᳓
प᳓रि यो᳓ वि᳓श्वा भु᳓वनानि पप्रथे᳓
अ᳓दब्धो गोपा᳓ अमृ᳓तस्य रक्षिता᳓