००५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ हुवे वः’ इति सप्तर्चं पञ्चमं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमाग्नेयम् । तथा चानुक्रम्यते–‘हुवे वः सप्त’ इति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥

Jamison Brereton

5 (446)
Agni
Bharadvāja Bārhaspatya
7 verses: triṣṭubh
An unremarkable hymn. It begins “I call for you (all)”—the poet announcing that he is performing his ritual task for his priestly colleagues. He continues with praise of Agni and description of his roles, including that of giver of goods (vss. 1–3). The next two verses contrast the enemy of the mortals present and the punishment he should receive from Agni (vs. 4) with the pious server and the rewards he deserves (vs. 5). Two more verses (6–7) urge Agni to perform these tasks.

Jamison Brereton Notes

Agni

01 हुवे वः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

हु॒वे वः॑ सू॒नुं सह॑सो॒ युवा॑न॒मद्रो॑घवाचं म॒तिभि॒र्यवि॑ष्ठम् ।
य इन्व॑ति॒ द्रवि॑णानि॒ प्रचे॑ता वि॒श्ववा॑राणि पुरु॒वारो॑ अ॒ध्रुक् ॥

02 त्वे वसूनि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वे वसू॑नि पुर्व्-अणीक होतर्
दो॒षा(=रात्रौ) वस्तो॒र्(=उषसि) (प्र+)एरि॑रे य॒ज्ञिया॑सः(=यज्ञार्हा यजमाना)
क्षाम(=क्षीणम्) +इ॑व॒ विश्वा॒ भुव॑नानि॒ यस्मि॒न्त्
सं सौभ॑गानि दधि॒रे पा॑व॒के ॥

03 त्वं विक्षु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं वि॒क्षु प्र॒दिवः॑ सीद आ॒सु क्रत्वा॑ र॒थीर॑भवो॒ वार्या॑णाम् ।
अत॑ इनोषि विध॒ते चि॑कित्वो॒ व्या॑नु॒षग्जा॑तवेदो॒ वसू॑नि ॥

04 यो नः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो नः॒ सनु॑त्यो अभि॒दास॑दग्ने॒ यो अन्त॑रो मित्रमहो वनु॒ष्यात् ।
तम॒जरे॑भि॒र्वृष॑भि॒स्तव॒ स्वैस्तपा॑ तपिष्ठ॒ तप॑सा॒ तप॑स्वान् ॥

05 यस्ते यज्ञेन - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्ते॑ य॒ज्ञेन॑ स॒मिधा॒ य उ॒क्थैर॒र्केभिः॑ सूनो सहसो॒ ददा॑शत् ।
स मर्त्ये॑ष्वमृत॒ प्रचे॑ता रा॒या द्यु॒म्नेन॒ श्रव॑सा॒ वि भा॑ति ॥

06 स तत्कृधीषितस्तूयमग्ने - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स तत्कृ॑धीषि॒तस्तूय॑मग्ने॒ स्पृधो॑ बाधस्व॒ सह॑सा॒ सह॑स्वान् ।
यच्छ॒स्यसे॒ द्युभि॑र॒क्तो वचो॑भि॒स्तज्जु॑षस्व जरि॒तुर्घोषि॒ मन्म॑ ॥

07 अश्याम तम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒श्याम॒ तं काम॑म् अग्ने॒ तवो॒ती(=तवोत्या)
अ॒श्याम॑ र॒यिं र॑यिवः(=रयिमन्) सु॒वीर॑म् ।
अ॒श्याम॒ वाज॑म्(=बल्म्|वेगम्|अन्नम्) अ॒भि वा॒जय॑न्तो॒(←वाज + कामना)
ऽश्याम॑ द्यु॒म्न``म् अ॑जर! +अ॒जरं॑ ते ॥