००२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथ पञ्चमाध्याय आरभ्यते । षष्ठमण्डलस्य षडनुवाकात्मकस्य प्रथमेऽनुवाके पश्चदश सूक्तानि । तत्र ‘त्वं हि’ इत्येकादशर्चं द्वितीयं सूक्तं भरद्वाजस्यार्षमाग्नेयम् । अन्त्या षट्पञ्चाशदक्षरा शक्वरी आदितो दशानुष्टुभः । अनुक्रम्यते हि- त्वं ह्येकादशानुष्टुभं शक्वर्यन्तम्’ इति । प्रातरनुवाक आग्नये क्रतौ आनुष्टुभे छन्दसीदं सूक्तमुत्तमावर्जं विनियुक्तम् । सूत्र्यते हि– त्वं हि क्षैतवदग्ना यो होताजनिष्ट’ ( आश्व. श्रौ. ४. १३) इति । आश्विनशस्त्रे चैतत् शंसनीयं प्रातरनुवाकन्यायेनेत्यतिदिष्टत्वात् । अङ्गिरसां द्विरात्रे द्वितीयेऽहनीदमेव सूक्तमाज्यशस्त्रम् । सूत्रितं च— त्वं हि क्षैतवदिति चाज्यम्’ (आश्व. श्रौ. १०. २) इति ॥

Jamison Brereton

2 (443)
Agni
Bharadvāja Bārhaspatya
11 verses: anuṣṭubh, except śakvarī 11
In its first half (vss. 1–5) this hymn echoes the themes of VI.1: Agni as the joint con cern of all the separate units of Ārya society (and indeed of the gods as well) and the success that attends the man who fulfills his ritual responsibilities to Agni. The hymn ends the same way (vss. 10–11), with special mention of Agni’s position in the individual house as well as his role as clanlord. The similarity between beginning and ending is marked by a signal of ring composition: the god Mitra compared to Agni in both the first and last verses. Agni is often compared with or identified with Mitra (“Ally, Alliance”) because of his position on earth as guest and helper of men, though himself a god, and because, as god, he mediates the sacrificial alliance between gods and men.
By contrast, the verses in between (6–9) offer a sequence of increasingly dense and complex images of fire, starting with a simple one of whirling smoke and sun like brightness (vs. 6), but the comparisons in verses 7cd–8 rely on multiple puns and terse and elliptical phraseology. This middle section sets the stage for the rest of the Agni cycle with its focus on the physical aspects of fire.

Jamison Brereton Notes

Agni _________ 01-02 The opening of the first hymn in this maṇḍala, tváṃ hí (see above), is replicated in the first two vss. of this hymn. The hí is similarly hard to account for in both these vss.

01 त्वं हि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ हि᳓ क्षइ᳓तवद् य᳓शो
अ᳓ग्ने मित्रो᳓ न᳓ प᳓त्यसे
तुवं᳓ विचर्षणे श्र᳓वो
व᳓सो पुष्टिं᳓ न᳓ पुष्यसि

02 त्वां हि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवां᳓ हि᳓ ष्मा चर्षण᳓यो
यज्ञे᳓भिर् गीर्भि᳓र् ई᳓ळते
त्वां᳓ वाजी᳓ याति अवृको᳓
रजस्तू᳓र् विश्व᳓चर्षणिः

03 सजोषस्त्वा दिवो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सजो᳓षस् त्वा दिवो᳓ न᳓रो
यज्ञ᳓स्य केतु᳓म् इन्धते
य᳓द् ध स्य᳓ मा᳓नुषो ज᳓नः
सुम्नायु᳓र् जुह्वे᳓ अध्वरे᳓

04 ऋधद्यस्ते सुदानवे - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ᳓धद् य᳓स् ते सुदा᳓नवे
धिया᳓ म᳓र्तः शश᳓मते
ऊती᳓ ष᳓ बृहतो᳓ दिवो᳓
द्विषो᳓ अं᳓हो न᳓ तरति

05 समिधा यस्त - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

समि᳓धा य᳓स् त आ᳓हुतिं
नि᳓शितिम् म᳓र्तियो न᳓शत्
वया᳓वन्तं स᳓ पुष्यति
क्ष᳓यम् अग्ने शता᳓युषम्

06 त्वेषस्ते धूम - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वेष᳓स् ते धूम᳓ ऋण्वति
दिवि᳓ ष᳓ञ् छुक्र᳓ आ᳓ततः
सू᳓रो न᳓ हि᳓ द्युता᳓ तुवं᳓
कृपा᳓ पवाक+ रो᳓चसे

07 अधा हि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓धा हि᳓ विक्षु᳓ ई᳓डियो
अ᳓सि प्रियो᳓ नो अ᳓तिथिः
रण्वः᳓ पुरी᳓व जू᳓रियः
सूनु᳓र् न᳓ त्रयया᳓यियः

08 क्रत्वा हि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

क्र᳓त्वा हि᳓ द्रो᳓णे अज्य᳓से
अ᳓ग्ने वाजी᳓ न᳓ कृ᳓त्वियः
प᳓रिज्मेव स्वधा᳓ ग᳓यो
अ᳓त्यो न᳓ ह्वारियः᳓ शि᳓शुः

09 त्वं त्या - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ तिया᳓ चिद् अ᳓च्युता
अ᳓ग्ने पशु᳓र् न᳓ य᳓वसे
धा᳓मा ह य᳓त् ते अजर
व᳓ना वृश्च᳓न्ति शि᳓क्वसः

10 वेषि ह्यध्वरीयतामग्ने - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वे᳓षि हि᳓ अध्वरीयता᳓म्
अ᳓ग्ने हो᳓ता द᳓मे विशा᳓म्
समृ᳓धो विश्पते कृणु
जुष᳓स्व हव्य᳓म् अङ्गिरः

11 अच्छा नो - शक्वरी

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓छा नो मित्रमहो देव देवा᳓न्
अ᳓ग्ने वो᳓चः सुमतिं᳓ रो᳓दसीयोः
वीहि᳓ सुअस्तिं᳓ सुक्षितिं᳓ दिवो᳓ नॄ᳓न्
द्विषो᳓ अं᳓हांसि दुरिता᳓ तरेम
ता᳓ तरेम त᳓वा᳓वसा तरेम