००१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

भारद्वाजे षष्ठे मण्डले षष्ठानुवाकाः । तत्र प्रथमेऽनुवाके पञ्चदश सूक्तानि । तत्र ‘त्वं ह्यग्ने’ इति त्रयोदशर्चं प्रथमं सूक्तम् । ’ त्वं ह्यमे सप्तोनेति बार्हस्पत्यो भरद्वाजः षष्ठं मण्डलमपश्यत्’ इत्यनुक्रान्तत्वात् मण्डलद्रष्टा स एव भरद्वाज ऋषिः । अनादेशपरिभाषया त्रिष्टुप् । मण्डलादिपरिभाषया अग्निर्देवता । पशोः हविषि अवदीयमाने मैत्रावरुणेनानुवचनीयमिदं मनोतासूक्तम् । सुत्रितं – ’ त्वं ह्यग्ने प्रथमं इत्यन्वाह’ (आश्व. श्रौ. ३. ६) इति । प्रातरनुवाक आग्नेये क्रतौ त्रैष्टुभे छन्दसि एतदादिसूक्तषट्कं द्वितीयवर्जम् । सूत्रितं च— त्वं ह्यग्ने प्रथम इति षण्णां द्वितीयमुद्धरेत् ’ ( आश्व. श्रौ. ४. १३ ) इति । आद्या उपाकरणे विनियुक्ता। सूत्रं नु पूर्वमन्त्र उक्तम् ॥

Jamison Brereton

1 (442)
Agni
Bharadvāja Bārhaspatya
13 verses: triṣṭubh
A rather stately hymn, appropriate for the first in the Agni sequence in Maṇḍala VI. It concerns only the ritual fire, with almost no mention of its physical substance, and unlike the typical dawn kindling sequence, the hymn depicts the arrival and installation of Agni as Hotar and, especially, the ritual fire as joint possession and responsibility of the whole Ārya community, as Proferes (2007: 33) points out. As the first hymn in the maṇḍala, it thus establishes an image of a settled and well-ordered society unified in its devotion to the gods to which the rest of the maṇḍala will be dedicated.
The arrival and installation occupy verses 1–3; verses 4–8 show Agni’s reach through the community, from the individual house, to the clan and settlements, and indeed to all who claim Manu (the first sacrificer) as ancestor. Verses 9–10 detail the homage and service Agni deserves, and the remaining verses (11–13) the favors we ask in return.

Jamison Brereton Notes

Agni

01 त्वं ह्यग्ने - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ हि᳓ अग्ने प्रथमो᳓ मनो᳓त
अस्या᳓ धियो᳓ अ᳓भवो दस्म हो᳓ता
त्वं᳓ सीं वृषन्न् अकृणोर् दुष्ट᳓रीतु
स᳓हो वि᳓श्वस्मै स᳓हसे स᳓हध्यै

02 अधा होता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓धा हो᳓ता नि᳓ असीदो य᳓जीयान्
इळ᳓स् पद᳓ इष᳓यन्न् ई᳓डियः स᳓न्
तं᳓ त्वा न᳓रः प्रथमं᳓ देवय᳓न्तो
महो᳓ राये᳓ चित᳓यन्तो अ᳓नु ग्मन्

03 वृतेव यन्तम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वृते᳓व य᳓न्तम् बहु᳓भिर् वसव्यइ᳡स्
तुवे᳓ रयिं᳓ जागृवां᳓सो अ᳓नु ग्मन्
रु᳓शन्तम् अग्निं᳓ दर्शत᳓म् बृह᳓न्तं
वपा᳓वन्तं विश्व᳓हा दीदिवां᳓सम्

04 पदं देवस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पदं᳓ देव᳓स्य न᳓मसा विअ᳓न्तः
श्रवस्य᳓वः श्र᳓व आपन्न् अ᳓मृक्तम्
ना᳓मानि चिद् दधिरे यज्ञि᳓यानि
भद्रा᳓यां ते रणयन्त सं᳓दृष्टौ

05 त्वां वर्धन्ति - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवां᳓ वर्धन्ति क्षित᳓यः पृथिव्यां᳓
तुवां᳓ रा᳓य उभ᳓यासो ज᳓नानाम्
तुवं᳓ त्राता᳓ तरणे चे᳓तियो भूः
पिता᳓ माता᳓ स᳓दम् इ᳓न् मा᳓नुषाणाम्

06 सपर्येण्यः स - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सपर्ये᳓ण्यः स᳓ प्रियो᳓ विक्षु᳓ अग्नि᳓र्
हो᳓ता मन्द्रो᳓ नि᳓ षसादा य᳓जीयान्
तं᳓ त्वा वयं᳓ द᳓म आ᳓ दीदिवां᳓सम्
उ᳓प ज्ञुबा᳓धो न᳓मसा सदेम

07 तं त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ त्वा वयं᳓ सुधि᳓यो न᳓व्यम् अग्ने
सुम्नाय᳓व ईमहे देवय᳓न्तः
तुवं᳓ वि᳓शो अनयो दी᳓दियानो
दिवो᳓ अग्ने बृहता᳓ रोचने᳓न

08 विशां कविम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

विशां᳓ कविं᳓ विश्प᳓तिं श᳓श्वतीनां
नितो᳓शनं वृषभं᳓ चर्षणीना᳓म्
प्रे᳓तीषणिम् इष᳓यन्तम् पवाकं᳓+
रा᳓जन्तम् अग्निं᳓ यजतं᳓ रयीणा᳓म्

09 सो अग्न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सो᳓ अग्न ईजे शशमे᳓ च म᳓र्तो
य᳓स् त आ᳓नट् समि᳓धा हव्य᳓दातिम्
य᳓ आ᳓हुतिम् प᳓रि वे᳓दा न᳓मोभिर्
वि᳓श्वे᳓त् स᳓ वामा᳓ दधते तुवो᳓तः

10 अस्मा उ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्मा᳓ उ ते म᳓हि महे᳓ विधेम
न᳓मोभिर् अग्ने समि᳓धोत᳓ हव्यइः᳓
वे᳓दी सूनो सहसो गीर्भि᳓र् उक्थइ᳓र्
आ᳓ ते भद्रा᳓यां सुमतउ᳓ यतेम

11 आ यस्ततन्थ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ य᳓स् तत᳓न्थ रो᳓दसी वि᳓ भासा᳓
श्र᳓वोभिश् च श्रवसि᳓यस् त᳓रुत्रः
बृह᳓द्भिर् वा᳓जै स्थ᳓विरेभिर् अस्मे᳓
रेव᳓द्भिर् अग्ने वितरं᳓ वि᳓ भाहि

12 नृवद्वसो सदमिद्धेह्यस्मे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नृव᳓द् वसो स᳓दम् इ᳓द् धेहि अस्मे᳓
भू᳓रि तोका᳓य त᳓नयाय पश्वः᳓
पूर्वी᳓र् इ᳓षो बृहती᳓र् आरे᳓अघा
अस्मे᳓ भद्रा᳓ सौश्रवसा᳓नि सन्तु

13 पुरूण्यग्ने पुरुधा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पुरू᳓णि अग्ने पुरुधा᳓ तुवाया᳓
व᳓सूनि राजन् वसु᳓ता ते अश्याम्
पुरू᳓णि हि᳓ त्वे᳓ पुरुवार स᳓न्ति
अ᳓ग्ने व᳓सु विधते᳓ रा᳓जनि त्वे᳓