०८३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘अच्छा वद’ इति दशर्चमेकादशं सूक्तं भौमस्यात्रेरार्षम् । अत्रेयमनुक्रमणिका– ‘अच्छ दशात्रिः पार्जन्यमुपाद्यास्तिस्रो जगत्य उपान्त्यानुष्टुप् ’ इति । ‘यत्पर्जन्य’ इत्येषा नवम्यनुष्टुप् ‘वि वृक्षान्’ इत्याद्यास्तिस्रो जगत्यः शिष्टाः षट् त्रिष्टुभः । पर्जन्यो देवता । अनेन सूक्तेन प्रत्यृचं वा दिशः उपस्थेयाः । सूत्रितं च-’संस्थितायां सर्वा दिश उपतिष्ठेताच्छा वद तवसं गीर्भिराभिरिति चतसृभिः प्रत्यृचं सूक्तेन वा ’ (आश्व. श्रौ. २. १३) इति ॥

Jamison Brereton

83 (437)
Parjanya
Atri Bhauma
10 verses: triṣṭubh 1, 5–8, 10, jagatī 2–4, anuṣṭubh 9
Parjanya (“Thunder”) is the subject of only three hymns in the R̥gveda. This lovely hymn, much translated, is reminiscent of the Marut hymns in this maṇḍala, though not ascribed to the same poet. (The Maruts are addressed here in vs. 6.) Vivid images of the power of the thunderstorm are mingled with expressions of thanks for the fructifying effects of the accompanying rains, depicted as sexual in nature. In the last verse the poet describes all the good Parjanya has done, but gently urges him to desist.

Jamison Brereton Notes

Parjanya

01 अच्छा वद - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अच्छा॑ वद त॒वसं॑ गी॒र्भिरा॒भिः स्तु॒हि प॒र्जन्यं॒ नम॒सा वि॑वास ।
कनि॑क्रदद्वृष॒भो जी॒रदा॑नू॒ रेतो॑ दधा॒त्योष॑धीषु॒ गर्भ॑म् ॥

02 वि वृक्षान्हन्त्युत - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वि वृ॒क्षान्ह॑न्त्यु॒त ह॑न्ति र॒क्षसो॒ विश्वं॑ बिभाय॒ भुव॑नं म॒हाव॑धात् ।
उ॒ताना॑गा ईषते॒ वृष्ण्या॑वतो॒ यत्प॒र्जन्यः॑ स्त॒नय॒न्हन्ति॑ दु॒ष्कृतः॑ ॥

03 रथीव कशयाश्वाँ - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

र॒थीव॒ कश॒याश्वाँ॑ अभिक्षि॒पन्ना॒विर्दू॒तान्कृ॑णुते व॒र्ष्याँ॒३॒॑ अह॑ ।
दू॒रात्सिं॒हस्य॑ स्त॒नथा॒ उदी॑रते॒ यत्प॒र्जन्यः॑ कृणु॒ते व॒र्ष्यं१॒॑ नभः॑ ॥

04 प्र वाता - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र वाता॒ वान्ति॑ प॒तय॑न्ति वि॒द्युत॒ उदोष॑धी॒र्जिह॑ते॒ पिन्व॑ते॒ स्वः॑ ।
इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते॒ यत्प॒र्जन्यः॑ पृथि॒वीं रेत॒साव॑ति ॥

05 यस्य व्रते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य॑ व्र॒ते पृ॑थि॒वी नन्न॑मीति॒ यस्य॑ व्र॒ते श॒फव॒ज्जर्भु॑रीति ।
यस्य॑ व्र॒त ओष॑धीर्वि॒श्वरू॑पाः॒ स नः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ॥

06 दिवो नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दि॒वो नो॑ वृ॒ष्टिं म॑रुतो ररीध्वं॒ प्र पि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒ धाराः॑ ।
अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुनेह्य॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॑ ॥

07 अभि क्रन्द - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि क्र॑न्द स्त॒नय॒ गर्भ॒मा धा॑ उद॒न्वता॒ परि॑ दीया॒ रथे॑न ।
दृतिं॒ सु क॑र्ष॒ विषि॑तं॒ न्य॑ञ्चं स॒मा भ॑वन्तू॒द्वतो॑ निपा॒दाः ॥

08 महान्तं कोशमुदचा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म॒हान्तं॒ कोश॒मुद॑चा॒ नि षि॑ञ्च॒ स्यन्द॑न्तां कु॒ल्या विषि॑ताः पु॒रस्ता॑त् ।
घृ॒तेन॒ द्यावा॑पृथि॒वी व्यु॑न्धि सुप्रपा॒णं भ॑वत्व॒घ्न्याभ्यः॑ ॥

09 यत्पर्जन्य कनिक्रदत्स्तनयन्हंसि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यत्प॑र्जन्य॒ कनि॑क्रदत्स्त॒नय॒न्हंसि॑ दु॒ष्कृतः॑ ।
प्रती॒दं विश्वं॑ मोदते॒ यत्किं च॑ पृथि॒व्यामधि॑ ॥

10 अवर्षिर्वर्षमुदु षू - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अव॑र्षीर्व॒र्षमुदु॒ षू गृ॑भा॒याक॒र्धन्वा॒न्यत्ये॑त॒वा उ॑ ।
अजी॑जन॒ ओष॑धी॒र्भोज॑नाय॒ कमु॒त प्र॒जाभ्यो॑ऽविदो मनी॒षाम् ॥