०८१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ युञ्जते मनः’ इति पञ्चर्चं नवमं सूक्तम् । अत्रेयमनुक्रमणिका – ’ युञ्जते पञ्च श्यावाश्वः सावित्रं तु जागतम् ’ इति । श्यावाश्वो नामात्रेय ऋषिः । जगती छन्दः । सविता देवता । पृष्ठ्याभिप्लवषडहयोः प्रथमेऽहनि वैश्वदेवशस्त्रे सावित्रनिविद्धानमिदम् । सूत्रितं च –’ युञ्जते मन इहेह व इति चतस्रः ’ ( आश्व. श्रौ. ७. ५) इति । आद्या ग्रावस्तोत्रेऽपि । सूत्रितं च - ‘ युञ्जते मन उत युञ्जते धिय आ तू न इन्द्र क्षुमन्तम् ’ ( आश्व. श्रौ. ५. १२ ) इति ॥

Jamison Brereton

81 (435)
Savitar
Śyāvāśva Ātreya
5 verses: jagatī
The Anukramaṇī attributes both this and the next hymn, also to Savitar, to Śyāvāśva, the poet of the Marut cycle in this maṇḍala, and indeed the poet names himself at the end of the last verse (5). However, the subject of Savitar does not seem to have inspired him to the same poetic heights as the Maruts did. The hymn depicts Savitar as a power in the cosmos (especially vss. 2–5), but also as a poet and distributor of benefits to mortals (1–2ab).

01 युञ्जते मन - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

युञ्ज᳓ते म᳓न उत᳓ युञ्जते धि᳓यो
वि᳓प्रा वि᳓प्रस्य +++(यजमानस्य)+++ बृहतो᳓ विपश्चि᳓तः ।
+++(सवितृ-प्रामुख्यम् अभिलक्ष्य)+++ वि᳓ हो᳓त्रा+++(=स्तुतीर्)+++ दधे वयुना+++(=ज्ञान)+++-वि᳓द् ए᳓क
इ᳓न् मही᳓ देव᳓स्य सवितुᳶ᳓ प᳓रिष्टुतिः ॥

02 विश्वा रूपाणि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वा रूपा᳓णि प्र᳓ति मुञ्चते कविः᳓
प्रा᳓सावीद् भद्रं᳓ द्वि-प᳓दे च᳓तुष्-पदे ।
वि᳓ ना᳓कम् अख्यत् सविता᳓ व᳓रेण्यो᳓
ऽनु प्रया᳓णम् उष᳓सो वि᳓ राजति

03 यस्य प्रयाणमन्वन्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्य प्रया᳓णम् अ᳓नु अन्य᳓ इ᳓द् ययु᳓र्
देवा᳓ देव᳓स्य महिमा᳓नम् ओ᳓जसा
यः᳓ पा᳓र्थिवानि विममे᳓ स᳓ ए᳓तशो
र᳓जांसि देवः᳓ सविता᳓ महित्वना᳓

04 उत यासि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ यासि सवितस् त्री᳓णि रोचना᳓
उत᳓ सू᳓र्यस्य रश्मि᳓भिः स᳓म् उच्यसि
उत᳓ रा᳓त्रीम् उभय᳓तः प᳓रीयस
उत᳓ मित्रो᳓ भवसि देव ध᳓र्मभिः

05 उतेशिषे प्रसवस्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

उते᳓शिषे प्रसव᳓स्य त्व᳓म् ए᳓क इ᳓द्
उत᳓ पूषा᳓ भवसि देव या᳓मभिः
उते᳓दं᳓ वि᳓श्वम् भु᳓वनं वि᳓ राजसि
श्यावा᳓श्वस् ते सवित स्तो᳓मम् आनशे