०८०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

“द्युतद्यामानम्’ इति षड़ृचमष्टमं सूक्तम् । अत्रानुक्रमणिका –‘द्युतयामानं षट्’ इति । सत्यश्रवा ऋषिः । अनुक्तत्वात् त्रिष्टुप् । ‘उषस्यं तु ’ इत्युक्तत्वात् उषाः देवता । प्रातरनुवाके उषस्ये क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । सूत्रितं च -‘द्युतद्यामानमुषो वाजेन ’ ( आश्व.श्रौ.. ४. १४) इति ।।

Jamison Brereton

80 (434)
Dawn
Satyaśravas Ātreya
6 verses: triṣṭibh
Although this hymn is attributed to the same poet as V.79 by the Anukramaṇī, it is entirely different in tone. Dawn’s association with wealth is mentioned in verse 3, but the focus is first on her journey (vss. 1–3) and then, in the second half of this brief hymn (vss. 4–6), on the beauty of her body as it is slowly revealed in the grow
ing light, in images of delicate sensuality.
Each verse but the first begins with the emphatic pronoun eṣā́ “she,” and there is no doubt that “she” is all that matters in the hymn.

Jamison Brereton Notes

Dawn As noted in the published introduction, every vs. but the first begins with eṣā́‘she, this one here’.

01 द्युतद्यामानं बृहतीमृतेन - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

द्युत᳓द्यामानम् बृहती᳓म् ऋते᳓न
ऋता᳓वरीम् अरुण᳓प्सुं विभाती᳓म्
देवी᳓म् उष᳓सं सु᳓वर् आव᳓हन्तीम्
प्र᳓ति वि᳓प्रासो मति᳓भिर् जरन्ते

02 एषा जनम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एषा᳓ ज᳓नं दर्शता᳓ बोध᳓यन्ती
सुगा᳓न् पथः᳓ कृण्वती᳓ याति अ᳓ग्रे
बृहद्रथा᳓ बृहती᳓ विश्वमिन्वा᳓
उषा᳓ ज्यो᳓तिर् यछति अ᳓ग्रे अ᳓ह्नाम्

03 एषा गोभिररुणेभिर्युजानास्रेधन्ती - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एषा᳓ गो᳓भिर् अरुणे᳓भिर् युजाना᳓
अ᳓स्रेधन्ती रयि᳓म् अ᳓प्रायु चक्रे
पथो᳓ र᳓दन्ती सुविता᳓य देवी᳓
पुरुष्टुता᳓ विश्व᳓वारा वि᳓ भाति

04 एषा व्येनी - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एषा᳓ वि᳓एनी भवति द्विब᳓र्हा
आविष्कृण्वाना᳓ तनु᳓वम् पुर᳓स्तात्
ऋत᳓स्य प᳓न्थाम् अ᳓नु एति साधु᳓
प्रजानती᳓व न᳓ दि᳓शो मिनाति

05 एषा शुभ्रा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एषा᳓ शुभ्रा᳓ न᳓ तनु᳓वो विदाना᳓
ऊर्ध्वे᳓व स्नाती᳓ दृश᳓ये नो अस्थात्
अ᳓प द्वे᳓षो बा᳓धमाना त᳓मांसि
उषा᳓ दिवो᳓ दुहिता᳓ ज्यो᳓तिषा᳓गात्

06 एषा प्रतीची - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एषा᳓ प्रतीची᳓ दुहिता᳓ दिवो᳓ नॄ᳓न्
यो᳓षेव भद्रा᳓ नि᳓ रिणीते अ᳓प्सः
विऊर्ण्वती᳓ दाशु᳓षे वा᳓रियाणि
पु᳓नर् ज्यो᳓तिर् युवतिः᳓ पूर्व᳓थाकः