०७५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्रति प्रियतमम्’ इति नवर्चं तृतीयं सूक्तम् । अवस्युर्नामात्रेय ऋषिः । पङ्क्तिश्छन्दः । अश्विनौ देवता । अनुक्रान्तं च - ’प्रति नवावस्युः पाङ्क्तम्’ इति । प्रातरनुवाके आश्विने क्रतौ पाङ्क्ते छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । ‘प्रति प्रियतममिति पाङ्क्तम् ’ ( आश्व. श्रौ. ४. १५ ) इति हि सूत्रितम् ॥

Jamison Brereton

75 (429)
Aśvins
Avasyu Ātreya
9 verses: paṅkti
Two themes dominate this hymn. One, announced at the beginning of the first verse, is the chariot of the Aśvins, which conveys the gods to the sacrificial place. The other is the call of the poet, the theme of the hymn’s refrain. The two are intimately connected, since the purpose of the poet’s praise is to bring the Aśvins on their chariot to the sac
rificial ground. In verse 2 the poet imagines the chariot passing by the hymns of other sacrificers that claim to win the Aśvins and continuing on toward his sacrifice. Because the hymn is leading the Aśvins toward the poet, the voice of the poet rides on the chariot (vs. 4), and the Aśvins’ horses are harnessed by the thought of the poet (vs. 6). In 7cd the Aśvins are invoked to travel tiráś cid “even across,” but it is not clear across what. Geldner (and others, see Pirart 2001: 290–92) suggests a haplology of *aryáḥ because of the following aryayā́. In this interpretation, the line could mean “even across what belongs to the stranger” or “even across the strangers” or the like. By contrast, we inter pret pāda c as a recollection of 2b and therefore supply the phrase “all those ‘I shall win’-s.” But in either case the Aśvins are again asked not to be seduced by the hymns and sacrifices of others, but to drive by them, heeding the poet’s summons to his sacrifice.

01 प्रति प्रियतमम् - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ति प्रिय᳓तमं र᳓थं
वृ᳓षणं वसुवा᳓हनम्
स्तोता᳓ वाम् अश्विनाव् ऋ᳓षिः
स्तो᳓मेन प्र᳓ति भूषति
मा᳓ध्वी म᳓म श्रुतं ह᳓वम्

02 अत्यायातमश्विना तिरो - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अतिआ᳓यातम् अश्विना
तिरो᳓ वि᳓श्वा अहं᳓ स᳓ना
द᳓स्रा हि᳓रण्यवर्तनी
सु᳓षुम्ना सि᳓न्धुवाहसा
मा᳓ध्वी म᳓म श्रुतं ह᳓वम्

03 आ नो - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो र᳓त्नानि बि᳓भ्रताव्
अ᳓श्विना ग᳓छतं युव᳓म्
रु᳓द्रा हि᳓रण्यवर्तनी
जुषाणा᳓ वाजिनीवसू
मा᳓ध्वी म᳓म श्रुतं ह᳓वम्

04 सुष्थुभो वाम् - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

सुष्टु᳓भो वां वृषण्वसू
र᳓थे वा᳓णीची आ᳓हिता
उत᳓ वां ककुहो᳓ मृगः᳓
पृ᳓क्षः कृणोति वापुषो᳓
मा᳓ध्वी म᳓म श्रुतं ह᳓वम्

05 बोधिन्मनसा रथ्येषिरा - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

बोधि᳓न्मनसा रथि᳓या
इषिरा᳓ हवनश्रु᳓ता
वि᳓भिश् च्य᳓वानम् अश्विना
नि᳓ याथो अ᳓द्वयाविनम्
मा᳓ध्वी म᳓म श्रुतं ह᳓वम्

06 आ वाम् - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ वां नरा मनोयु᳓जो
अ᳓श्वासः प्रुषित᳓प्सवः
व᳓यो वहन्तु पीत᳓ये
सह᳓ सुम्ने᳓भिर् अश्विना
मा᳓ध्वी म᳓म श्रुतं ह᳓वम्

07 अश्विनावेह गच्छतम् - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓श्विनाव् ए᳓ह᳓ गछतं
ना᳓सत्या मा᳓ वि᳓ वेनतम्
तिर᳓श् चिद् अर्यया᳓ प᳓रि
वर्ति᳓र् यातम् अदाभिया
मा᳓ध्वी म᳓म श्रुतं ह᳓वम्

08 अस्मिन्यज्ञे अदाभ्या - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अस्मि᳓न् यज्ञे᳓ अदाभिया
जरिता᳓रं शुभस् पती
अवस्यु᳓म् अश्विना युवं᳓
गृण᳓न्तम् उ᳓प भूषथो
मा᳓ध्वी म᳓म श्रुतं ह᳓वम्

09 अभूदुषा रुशत्पशुराग्निरधाय्यृत्वियः - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓भूद् उषा᳓ रु᳓शत्पशुर्
आ᳓ग्नि᳓र् अधायि ऋत्वि᳓यः
अ᳓योजि वां वृषण्वसू
र᳓थो दस्राव् अ᳓मर्तियो
मा᳓ध्वी म᳓म श्रुतं ह᳓वम्