०७२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ आ मित्रे वरुणे ’ इति तृचात्मकं षोडशं सूक्तं बाहुवृक्तस्यार्षमौष्णिहं मैत्रावरुणम् । आ मित्र औष्णिहम् ’ इत्यनुक्रमणिका । दशरात्रे तृतीयेऽहनि प्रउगशस्त्रेऽयं मैत्रावरुणस्य तृचः । सूत्रितं च – आ मित्रे वरुणे वयमश्विनावेह गच्छतम् ( आश्व. श्रौ. ७. १० ) इति ॥

Jamison Brereton

72 (426)
Mitra and Varuṇa
Bāhuvr̥kta Ātreya
3 verses: uṣṇih
In this hymn, which continues the themes and techniques of the preceding hymn, the poet repeats a refrain that asks the gods to be present and to receive the soma offer ings. In verse 2 of this hymn he does not mention the names of the gods, as he does in the first and third verses, but rather begins pāda a with vraténa “by your command ment” and ends pāda b with yātayájjanā “who arrange the peoples.” The word vratá is particularly associated with Varuṇa, both conceptually and etymologically, and √yat “arrange” describes the function of Mitra. Instead of pairing the two names, the poet has created a chiasmic pairing of the most characteristic functions of the gods.

01 आ मित्रे - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ मित्रे᳓ व᳓रुणे वयं᳓
गीर्भि᳓र् जुहुमो अत्रिव᳓त्
नि᳓ बर्हि᳓षि सदतं सो᳓मपीतये

02 व्रतेन स्थो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

व्रते᳓न स्थो ध्रुव᳓क्षेमा
ध᳓र्मणा यातय᳓ज्जना
नि᳓ बर्हि᳓षि सदतं सो᳓मपीतये

03 मित्रश्च नो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

मित्र᳓श् च नो व᳓रुणश् च
जुषे᳓तां यज्ञ᳓म् इष्ट᳓ये
नि᳓ बर्हि᳓षि सदतां सो᳓मपीतये