०६९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘त्री रोचना ’ इति चतुर्ऋचं त्रयोदशं सूक्तम् । उरुचक्रिर्नामात्रेय ऋषिः । त्रिष्टुप् छन्दः । मित्रावरुणौ देवता । अनुक्रम्यते च - ‘ त्री रोचना चतुष्कमुरुचक्रिः’ इति । विनियोगो लैङ्गिकः ॥

Jamison Brereton

69 (423)
Mitra and Varuṇa
Urucakri Ātreya
4 verses: triṣṭubh
In the last half of the hymn the poet connects Mitra and Varuṇa to their mother Aditi, the goddess who embodies guiltlessness. He invokes her for wealth, a con tinuing lineage, good fortune, and health (vs. 3). It is not clear, however, whether it is she whom the poet invokes in 3d or whether it is the two gods. The object is suppressed perhaps to create intentional ambiguity, since the gift that comes from guiltlessness is also the gift from Mitra and Varuṇa. The connection between Aditi, Mitra, and Varuṇa is confirmed in the last verse, which call them Ādityas, “sons of Aditi.”

01 त्री रोचना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्री᳓ रोचना᳓ वरुण त्रीँ᳓र् उत᳓ द्यू᳓न्
त्री᳓णि मित्र धारयथो र᳓जांसि
वावृधाना᳓व् अम᳓तिं क्षत्रि᳓यस्य
अ᳓नु व्रतं᳓ र᳓क्षमाणाव् अजुर्य᳓म्

02 इरावतीर्वरुण धेनवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓रावतीर् वरुण धेन᳓वो वाम्
म᳓धुमद् वां सि᳓न्धवो मित्र दुह्रे
त्र᳓यस् तस्थुर् वृषभा᳓सस् तिसॄणां᳓
धिष᳓णानां रेतोधा᳓ वि᳓ द्युम᳓न्तः

03 प्रातर्देवीमदितिं जोहवीमि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रात᳓र् देवी᳓म् अ᳓दितिं जोहवीमि
मध्यं᳓दिन उ᳓दिता सू᳓रियस्य
राये᳓ मित्रावरुणा सर्व᳓ताता
ई᳓ळे तोका᳓य त᳓नयाय शं᳓ योः᳓

04 या धर्तारा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓ धर्ता᳓रा र᳓जसो रोचन᳓स्य
उता᳓दित्या᳓ दिविया᳓ पा᳓र्थिवस्य
न᳓ वां देवा᳓ अमृ᳓ता आ᳓ मिनन्ति
व्रता᳓नि मित्रावरुणा ध्रुवा᳓णि