०६८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ प्र वो मित्राय ’ इति पञ्चर्चं द्वादशं सूक्तमात्रेयस्य यजतस्यार्षं गायत्रं मैत्रावरुणम् । तथा चानुक्रम्यते– ‘ प्र वो गायत्रम् ’ इति । अग्निष्टोमे प्रातःसवने मैत्रावरुणशस्त्रे एतत्सूक्तम् । सूत्रितं च- प्र वो मित्राय प्र मित्रयोर्वरुणयोः ’ ( आश्व. श्रौ. ५. १० ) इति । अभिप्लवषडहे पृष्ठ्यषडहे च स्तोमनिमित्तावापार्थमिदमादीनि द्वितीयवर्जितानि चत्वारि सूक्तानि । तथैव सूत्रितं– ‘ प्र वो मित्रायेति चतुर्णां द्वितीयमुद्धरेत् ’ ( आश्व.श्रौ.. ७. ५) इति ॥

Jamison Brereton

68 (422)
Mitra and Varuṇa
Yajata Ātreya
5 verses: gāyatrī
The poet is intent on praising the expanse of Mitra and Varuṇa’s power: he says they are of “great dominion” (vs. 1) and are “proclaimed among the gods” (vs. 2). Then combining their power among both gods and humans, he calls them masters over “earthly and heavenly” wealth and possessing “dominion among the gods” (vs. 3). The climax and purpose of this praise of their power on earth and in heaven is finally expressed in the last verse: they are lords of rains, which come from heaven to earth.

01 प्र वो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ वो मित्रा᳓य गायत
व᳓रुणाय विपा᳓ गिरा᳓
म᳓हिक्षत्राव् ऋत᳓म् बृह᳓त्

02 सम्राजा या - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सम्रा᳓जा या᳓ घृत᳓योनी
मित्र᳓श् चोभा᳓ व᳓रुणश् च
देवा᳓ देवे᳓षु प्रशस्ता᳓

03 ता नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ता᳓ नः शक्तम् पा᳓र्थिवस्य
महो᳓ रायो᳓ दिविय᳓स्य
म᳓हि वां क्षत्रं᳓ देवे᳓षु

04 ऋतमृतेन सपन्तेषिरम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ऋत᳓म् ऋते᳓न स᳓पन्ता
इषिरं᳓ द᳓क्षम् आशाते
अद्रु᳓हा देवउ᳓ वर्धेते

05 वृष्थिद्यावा रीत्यापेषस्पती - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वृष्टि᳓द्यावा रीति᳓आपा
इष᳓स् प᳓ती दा᳓नुमत्याः
बृह᳓न्तं ग᳓र्तम् आशाते