०६७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ बळित्था देव ’ इति पञ्चर्चमेकादशं सूक्तम् । अत्रेयमनुक्रमणिका–’ बळित्था पञ्च यजतः । इति । यजतो नामात्रेय ऋषिः । ‘ आनुष्टुभं तु ’ इत्युक्तत्वादिदमप्यानुष्टुभम् । मित्रावरुणौ देवता! विनियोगो लैङ्गिकः ।।

Jamison Brereton

67 (421)
Mitra and Varuṇa
Yajata Ātreya
5 verses: anuṣṭubh
This hymn emphasizes the multiplicity of the Ādityas, which the hymn connects with their presence in multiple places and their lordship among different peoples (vss. 2, 4). It invokes the Ādityas in the first verse and then Varuṇa, Mitra, and Aryaman; in verse 2 just Varuṇa and Mitra, and then in verse 3 Varuṇa, Mitra, and Aryaman once again. The climax comes in the last verse, which suggests that all the forms of the Ādityas culminate in Mitra or Varuṇa—or, rather, in the two of them together. We offer this interpretation tentatively since the key lines are 5ab. As the parenthetical insertions in our translation indicate, it is not clear precisely how these lines should be construed.

01 बळित्था देव - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ब᳓ळ् इत्था᳓ देव निष्कृत᳓म्
आ᳓दित्या यजत᳓म् बृह᳓त्
व᳓रुण मि᳓त्र अ᳓र्यमन्
व᳓र्षिष्ठं क्षत्र᳓म् आशथे°

02 आ यद्योनिम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ य᳓द् यो᳓निं हिरण्य᳓यं
व᳓रुण मि᳓त्र स᳓दथः
धर्ता᳓रा चर्षणीनां᳐᳓
यन्तं᳓ सुम्नं᳓ रिशादसा

03 विश्वे हि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वे हि᳓ विश्व᳓वेदसो
व᳓रुणो मित्रो᳓ अर्यमा᳓
व्रता᳓ पदे᳓व सश्चिरे
पा᳐᳓न्ति म᳓र्तियं रिषः᳓

04 ते हि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ हि᳓ सत्या᳓ ऋतस्पृ᳓श
ऋता᳓वानो ज᳓ने-जने
सुनीथा᳓सः सुदा᳓नवो
अंहो᳓श् चिद् उरुच᳓क्रयः

05 को नु - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

को᳓ नु᳓ वाम् मित्र अ᳓स्तुतो
व᳓रुणो वा तनू᳓ना᳐म्
त᳓त् सु᳓ वाम् ए᳓षते मति᳓र्
अ᳓त्रिभ्य ए᳓षते मतिः᳓