०६३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।।

अष्टकस्य चतुर्थस्य तृतीयो व्याकृतः स्फुटम् । ।

अध्यायः सायणायेंण चतुर्थो व्याकरिष्यते ।।

‘ ऋतस्य गोपौ ’ इति सप्तर्चं सप्तमं सूक्तम् । अत्रेयमनुक्रमणिका - ‘ ऋतस्य सप्तार्चनाना जागतम्’ इति । आत्रेयोऽर्चनाना नाम ऋषिः । जगती छन्दः । तुह्यादिपरिभाषया मित्रावरुणौ देवता । विनियोगो लैङ्गिकः ॥

Jamison Brereton

63 (417)
Mitra and Varuṇa
Arcanānas Ātreya
7 verses: jagatī
Like the previous hymn to Mitra and Varuṇa, this hymn is also a plea for monsoon rains. It gives a vivid picture of the monsoons with their thunder and lightning (vss. 5, 6) and the coming of the rain (esp. vss. 1, 4). The poet uses sound repetition, perhaps in imitation of echoing thunder or recurring lightning or perhaps simply as a demonstration of his poetic ability: 2d…-vī ví caranti…, 3b… vícarṣanī, 3c citrébhir…, 4b carati citrám…, 5c … citrā́ ví caranti…, 6b… citrā́m vadati tvíṣī-…, and 7d…-vi cítryam…. Also across 3ab samrā́jā ugrā́ vr̥ṣabhā́ divás pátī, pr̥thivyā́ mitrā́váruṇā vícarṣaṇī, the two lines have exactly the same metrical struc ture and repeated vowels in the same syllables.
The hymn several times refers to the māyā́, the “cunning” of Mitra and Varuṇa (vss. 3, 4, 6, 7), which in its first and last attestations is described as the “cunning of a lord (ásura)” (vss. 3, 7), thus connecting Mitra and Varuṇa’s ability to control the rain by their cunning with their kingship. They are likewise twice called “sovereign kings” (samrā́j) (vss. 2, 3). The prefix sám- “together,” signifying their unifying rule, contrasts with the repeated prefix ví- “apart,” which indicates the diverse things over which they hold sovereignty. This theme is announced in 2ab, where they are called samrā́jau over the world vidáthe “in its division.”
Also translated and discussed in Brereton (1981: 104–6).

01 ऋतस्य गोपावधि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ᳓तस्य गोपाव् अ᳓धि तिष्ठथो र᳓थं
स᳓त्यधर्माणा परमे᳓ वि᳓ओमनि
य᳓म् अ᳓त्र मित्रावरुणा᳓वथो युवं᳓
त᳓स्मै वृष्टि᳓र् म᳓धुमत् पिन्वते दिवः᳓

02 सम्राजावस्य भुवनस्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सम्रा᳓जाव् अस्य᳓ भु᳓वनस्य राजथो
मि᳓त्रावरुणा विद᳓थे सुवर्दृ᳓शा
वृष्टिं᳓ वां रा᳓धो अमृतत्व᳓म् ईमहे
द्या᳓वापृथिवी᳓ वि᳓ चरन्ति तन्य᳓वः

03 सम्राजा उग्रा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सम्रा᳓जा उग्रा᳓ वृषभा᳓ दिव᳓स् प᳓ती
पृथिव्या᳓ मित्रा᳓व᳓रुणा वि᳓चर्षनी
चित्रे᳓भिर् अभ्रइ᳓र् उ᳓प तिष्ठथो र᳓वं
द्यां᳓ वर्षयथो अ᳓सुरस्य माय᳓या

04 माया वाम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

माया᳓ वाम् मित्रावरुणा दिवि᳓ श्रिता᳓
सू᳓र्यो ज्यो᳓तिश् चरति चित्र᳓म् आ᳓युधम्
त᳓म् अभ्रे᳓ण वृष्टिया᳓ गूहथो दिवि᳓
प᳓र्जन्य द्रप्सा᳓ म᳓धुमन्त ईरते

05 रथं युञ्जते - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

र᳓थं युञ्जते मरु᳓तः शुभे᳓ सुखं᳓
शू᳓रो न᳓ मित्रावरुणा ग᳓विष्टिषु
र᳓जांसि चित्रा᳓ वि᳓ चरन्ति तन्य᳓वो
दिवः᳓ सम्राजा प᳓यसा न उक्षतम्

06 वाचं सु - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वा᳓चं सु᳓ मित्रावरुणाव् इ᳓रावतीम्
पर्ज᳓न्यश् चित्रां᳓ वदति त्वि᳓षीमतीम्
अभ्रा᳓ वसत मरु᳓तः सु᳓ माय᳓या
द्यां᳓ वर्षयतम् अरुणा᳓म् अरेप᳓सम्

07 धर्मणा मित्रावरुणा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ध᳓र्मणा मित्रावरुणा विपश्चिता
व्रता᳓ रक्षेथे अ᳓सुरस्य माय᳓या
ऋते᳓न वि᳓श्वम् भु᳓वनं वि᳓ राजथः
सू᳓र्यम् आ᳓ धत्थो दिवि᳓ चि᳓त्रियं र᳓थम्