०६२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ऋतेन ऋतम् ’ इति नवर्चं षष्ठं सूक्तमात्रेयस्य श्रुतविद आर्षं त्रैष्टुभं मैत्रावरुणम् । तथा चानुक्रम्यते - ऋतेन नव श्रुतविन्मैत्रावरुणं वै तत् ’ इति । ‘वै तत्’ इत्युभयोः प्रयोगात्तुह्यादिपरिभाषयैतदादीन्येकादश सूक्तानि मित्रावरुणदेवत्यानि । विनियोगो लैङ्गिकः ॥

Jamison Brereton

62 (416)
Mitra and Varuṇa
Śrutavid Ātreya
9 verses: triṣṭubh
This hymn calls on Mitra and Varuṇa for rain, as 3cd makes clear. Their ability to send the rain is connected with their kingship, and the poet suggests that con nection in several images. The gods’ throne sits “within the libations” (vss. 5, 6), which not only are the oblations made to them but also signify the rainwater. The banner that increases through their commandment (vs. 5) is the banner “of the ruler” (cf. V.69.1), and here the rain is the emblem of their kingship. Their rule is strong, supported by a thousand pillars (vs. 6), but the pillar of their throne is also the lightning (vs. 7ab) that accompanies the rain, and its foundation is in land that yields plants (vs. 7c).
Framing the rain, which is the subject of verses 2–7, is the sun (vss. 1, 8). The first verse remains mysterious. The first hemistich places Mitra and Varuṇa’s “enduring truth” in the night sky or in any case, in that place where “they,” most likely the gods generally, unhitch Sūrya’s horses to let them pasture during the night. Yet even before dawn the poet’s vision allows him to see “that One,” the sun, and together with the sun, the hidden truth of the two gods. The sun may also be the “single felly” mentioned in 2d, and if so, the verse looks forward the appearance of the sun after the rain. After the invocations to the gods for rain, the sun returns to the poem once again, this time visible to all at dawn and closely associated with the golden throne of Mitra and Varuṇa.

01 ऋतेन ऋतमपिहितम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋते᳓न र्त᳓म् अ᳓पिहितं ध्रुवं᳓ वां
सू᳓र्यस्य य᳓त्र विमुच᳓न्ति अ᳓श्वान्
द᳓श शता᳓ सह᳓ तस्थुस् त᳓द् ए᳓कं
देवा᳓नां श्रे᳓ष्ठं व᳓पुषाम् अपश्यम्

02 तत्सु वाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓त् सु᳓ वाम् मित्रावरुणा महित्व᳓म्
ईर्मा᳓ तस्थु᳓षीर् अ᳓हभिर् दुदुह्रे
वि᳓श्वाः पिन्वथः स्व᳓सरस्य धे᳓ना
अ᳓नु वाम् ए᳓कः पवि᳓र् आ᳓ ववर्त

03 अधारयतं पृथिवीमुत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓धारयतम् पृथिवी᳓म् उत᳓ द्या᳓म्
मि᳓त्रराजाना वरुणा म᳓होभिः
वर्ध᳓यतम् ओ᳓षधीः पि᳓न्वतं गा᳓
अ᳓व वृष्टिं᳓ सृजतं जीरदानू

04 आ वामश्वासः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ वाम् अ᳓श्वासः सुयु᳓जो वहन्तु
यत᳓रश्मय उ᳓प यन्तु अर्वा᳓क्
घृत᳓स्य निर्णि᳓ग् अ᳓नु वर्तते वाम्
उ᳓प सि᳓न्धवः प्रदि᳓वि क्षरन्ति

05 अनु श्रुताममतिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓नु श्रुता᳓म् अम᳓तिं व᳓र्धद् उर्वी᳓म्
बर्हि᳓र् इव य᳓जुषा र᳓क्षमाणा
न᳓मस्वन्ता धृतदक्षा᳓धि ग᳓र्ते
मि᳓त्रा᳓साथे वरुणे᳓ळासु अन्तः᳓

06 अक्रविहस्ता सुकृते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓क्रविहस्ता सुकृ᳓ते परस्पा᳓
यं᳓ त्रा᳓साथे वरुणे᳓ळासु अन्तः᳓
रा᳓जाना क्षत्र᳓म् अ᳓हृणीयमाना
सह᳓स्रस्थूणम् बिभृथः सह᳓ द्वउ᳓

07 हिरण्यनिर्णिगयो अस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

हि᳓रण्यनिर्णिग् अ᳓यो अस्य स्थू᳓णा
वि᳓ भ्राजते दिवि᳓ अश्वा᳓जनीव
भद्रे᳓ क्षे᳓त्रे नि᳓मिता ति᳓ल्विले वा
सने᳓म म᳓ध्वो अ᳓धिगर्तियस्य

08 हिरण्यरूपमुषसो व्युष्थावयस्थूणमुदिता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

हि᳓रण्यरूपम् उष᳓सो वि᳓उष्टाव्
अ᳓यस्थूणम् उ᳓दिता सू᳓रियस्य
आ᳓ रोहथो वरुण मित्र ग᳓र्तम्
अ᳓तश् चक्षाथे अ᳓दितिं दि᳓तिं च

09 यद्बंहिष्टं नातिविधे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् बं᳓हिष्ठं ना᳓तिवि᳓धे सुदानू
अ᳓छिद्रं श᳓र्म भुवनस्य गोपा
ते᳓न नो मित्रावरुणाव् अविष्टं
सि᳓षासन्तो जिगीवां᳓सः सियाम