०६०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ ईळे अग्निं स्ववसम्’ इत्यष्टर्चं चतुर्थं सूक्तं श्यावाश्वस्यार्षम् । सप्तम्यष्टम्यौ जगत्यौ शिष्टाः षट् त्रिष्टुभः । मरुद्देवताकमग्निमरुद्देवताकं वा । ईळे द्विजगत्यन्तमाग्नेयं च वा ’ इति । सूक्तविनियोगो लैङ्गिकः । आद्या कारीर्यां सामिधेनीषु याज्या । सूत्रितं च— ईळे अग्निं स्ववसं नमोभिरिति धाय्ये ’ ( आश्व. श्रौ. २. १३ ) इति ॥

Jamison Brereton

60 (414)
Maruts
Śyāvāśva Ātreya
8 verses: triṣṭubh, except jagatī 7–8
Like V.56, this hymn begins with an invocation of Agni, the ritual fire, who is also conspicuously addressed along with the Maruts in each of the last three verses (6–8). The prominence of Agni identifies the Maruts’ journey to and participation in the sacrifice as the goal of the hymn. Their journey itself provokes the usual cosmic reactions—fear and trembling (vss. 2–3)—and the dazzling beauty of the Maruts also receives its usual expression (vs. 4). Verse 5 provides an almost domes
tic picture of their parentage. Notable also is the dicing imagery in verse 1.

Jamison Brereton Notes

Maruts

01 ईळे अग्निम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ई᳓ळे अग्निं᳓ सुअ᳓वसं न᳓मोभिर्
इह᳓ प्रसत्तो᳓ वि᳓ चयत् कृतं᳓ नः
र᳓थैर् इव प्र᳓ भरे वाजय᳓द्भिः
प्रदक्षिणि᳓न् मरु᳓तां स्तो᳓मम् ऋध्याम्

02 आ ये - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ ये᳓ तस्थुः᳓ पृ᳓षतीषु श्रुता᳓सु
सुखे᳓षु रुद्रा᳓ मरु᳓तो र᳓थेषु
व᳓ना चिद् उग्रा जिहते नि᳓ वो भिया᳓
पृथिवी᳓ चिद् रेजते प᳓र्वतश् चित्

03 पर्वतश्चिन्महि वृद्धो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓र्वतश् चिन् म᳓हि वृद्धो᳓ बिभाय
दिव᳓श् चित् सा᳓नु रेजत स्वने᳓ वः
य᳓त् क्री᳓ळथ मरुत ऋष्टिम᳓न्त
आ᳓प इव सध्रि᳓अञ्चो धवध्वे

04 वरा इवेद्रैवतासो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वरा᳓ इवे᳓द् रैवता᳓सो हि᳓रण्यैर्
अभि᳓ स्वधा᳓भिस् तनु᳓वः पिपिश्रे
श्रिये᳓ श्रे᳓यांसस् तव᳓सो र᳓थेषु
सत्रा᳓ म᳓हांसि चक्रिरे तनू᳓षु

05 अज्येष्टासो अकनिष्टास - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अज्येष्ठा᳓सो अ᳓कनिष्ठास एते᳓
स᳓म् भ्रा᳓तरो वावृधुः सउ᳓भगाय
यु᳓वा पिता᳓ सुअ᳓पा रुद्र᳓ एषां
सुदु᳓घा पृ᳓श्निः सुदि᳓ना मरु᳓द्भ्यः

06 यदुत्तमे मरुतो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् उत्तमे᳓ मरुतो मध्यमे᳓ वा
य᳓द् वावमे᳓ सुभगासो दिवि᳓ ष्ठ᳓
अ᳓तो नो रुद्रा उत᳓ वा नु᳓ अस्य
अ᳓ग्ने वित्ता᳓द् धवि᳓षो य᳓द् य᳓जाम

07 अग्निश्च यन्मरुतो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि᳓श् च य᳓न् मरुतो विश्ववेदसो
दिवो᳓ व᳓हध्व उ᳓त्तराद् अ᳓धि ष्णु᳓भिः
ते᳓ मन्दसाना᳓ धु᳓नयो रिशादसो
वामं᳓ धत्त य᳓जमानाय सुन्वते᳓

08 अग्ने मरुद्भिः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने मरु᳓द्भिः शुभ᳓यद्भिर् ऋ᳓क्वभिः
सो᳓मम् पिब मन्दसानो᳓ गणश्रि᳓भिः
पवाके᳓भिर्+ विश्वमिन्वे᳓भिर् आयु᳓भिर्
वइ᳓श्वानर प्रदि᳓वा केतु᳓ना सजूः᳓