०५९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ प्र वः स्पट्’ इत्यष्टर्चं तृतीयं सूक्तं श्यावाश्वस्यार्षं मारुतम् । अष्टमी त्रिष्टुप् शिष्टाः सप्त जगत्यः । ‘ प्र वः स्पट् त्रिष्टुबन्तम् ’ इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ॥

Jamison Brereton

59 (413)
Maruts
Śyāvāśva Ātreya
8 verses: jagatī, except triṣṭubh 8
This hymn is constructed around a series of similes and metaphors, some of which (see esp. 3a) push the boundaries of similarity and require a mental leap from the audience, while in others (e.g., 3d) the near identity between the two entities com pared renders the simile-marking almost redundant. The hymn’s subject, as usual, is the power of the Maruts on their travels, power manifested both as the storm and as a warriors’ onslaught. The puzzles in this hymn begin with its opening: no entirely satisfactory referent for the “scout” or “spy” of 1a has been found, though many have been suggested.

Jamison Brereton Notes

Maruts

01 प्र व - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ व स्प᳓ळ् अक्रन् सुविता᳓य दाव᳓ने
अ᳓र्चा दिवे᳓ प्र᳓ पृथिव्या᳓ ऋत᳓म् भरे
उक्ष᳓न्ते अ᳓श्वान् त᳓रुषन्त आ᳓ र᳓जो
अ᳓नु स्व᳓म् भानुं᳓ श्रथयन्ते अर्णवइः᳓

02 अमादेषां भियसा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓माद् एषाम् भिय᳓सा भू᳓मिर् एजति
ना᳓üर् न᳓ पूर्णा᳓ क्षरति व्य᳓थिर् यती᳓
दूरेदृ᳓शो ये᳓ चित᳓यन्त ए᳓मभिर्
अन्त᳓र् महे᳓ विद᳓थे येतिरे न᳓रः

03 गवामिव श्रियसे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ग᳓वाम् इव श्रिय᳓से शृ᳓ङ्गम् उत्तमं᳓
सू᳓र्यो न᳓ च᳓क्षू र᳓जसो विस᳓र्जने
अ᳓त्या इव सुभु᳓वश् चा᳓रव स्थन
म᳓र्या इव श्रिय᳓से चेतथा नरः

04 को वो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

को᳓ वो महा᳓न्ति महता᳓म् उ᳓द् अश्नवत्
क᳓स् का᳓विया मरुतः को᳓ ह पउं᳓सिया
यूयं᳓ ह भू᳓मिं किर᳓णं न᳓ रेजथ
प्र᳓ य᳓द् भ᳓रध्वे सुविता᳓य दाव᳓ने

05 अश्वा इवेदरुषासः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓श्वा इवे᳓द् अरुषा᳓सः स᳓बन्धवः
शू᳓रा इव प्रयु᳓धः प्रो᳓त᳓ युयुधुः
म᳓र्या इव सुवृ᳓धो वावृधुर् न᳓रः
सू᳓र्यस्य च᳓क्षुः प्र᳓ मिनन्ति वृष्टि᳓भिः

06 ते अज्येष्टा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ अज्येष्ठा᳓ अ᳓कनिष्ठास उद्भि᳓दो
अ᳓मध्यमासो म᳓हसा वि᳓ वावृधुः
सुजाता᳓सो जनु᳓षा पृ᳓श्निमातरो
दिवो᳓ म᳓र्या आ᳓ नो अ᳓छा जिगातन

07 वयो न - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

व᳓यो न᳓ ये᳓ श्र᳓यणीः+ पप्तु᳓र् ओ᳓जसा
अ᳓न्तान् दिवो᳓ बृहतः᳓ सा᳓नुनस् प᳓रि
अ᳓श्वास एषाम् उभ᳓ये य᳓था विदुः᳓
प्र᳓ प᳓र्वतस्य नभनूँ᳓र् अचुच्यवुः

08 मिमातु द्यौरदितिर्वितये - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मि᳓मातु द्यउ᳓र् अ᳓दितिर् वीत᳓ये नः
सं᳓ दा᳓नुचित्रा उष᳓सो यतन्ताम्
आ᳓चुच्यवुर् दिवियं᳓ को᳓शम् एत᳓
ऋ᳓षे रुद्र᳓स्य मरु᳓तो गृणानाः᳓