०५८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ तमु नूनम्’ इत्यष्टर्चं द्वितीयं सूक्तं श्यावाश्वस्यार्षं त्रैष्टुभं मारुतम् । ‘तमु ’ इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ॥

Jamison Brereton

58 (412)
Maruts
Śyāvāśva Ātreya
8 verses: triṣṭubh
Another pleasing Marut hymn with the typical mixture of storm imagery (see esp. vss. 6–7) and portrayal of a wild but beneficial Männerbund. In this latter capacity, the Maruts are seen as the source of various earthly counterparts (vs. 4). Another common theme, the lack of distinction among the various members of the band, is also mentioned (vs. 5). As in V.56.3 a sexual relationship between the Maruts and the Earth is depicted (vs. 7), though without the shock value of the earlier passage.

Jamison Brereton Notes

Maruts

57-58 ...{Loading}...

Jamison Brereton Notes

Maruts As Oldenberg (Proleg. 204-5) points out these two hymns are parallel and share a final vs. He attributes their position at the beginning of the four 8-vs. Marut hymns to this twinning. Otherwise V.58, in Triṣṭubh, should follow V.59, in Jagatī.

01 तमु नूनम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तमु॑ नू॒नं तवि॑षीमन्तमेषां स्तु॒षे ग॒णं मारु॑तं॒ नव्य॑सीनाम् ।
य आ॒श्व॑श्वा॒ अम॑व॒द्वह॑न्त उ॒तेशि॑रे अ॒मृत॑स्य स्व॒राजः॑ ॥

02 त्वेषं गणम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वे॒षं ग॒णं त॒वसं॒ खादि॑हस्तं॒ धुनि॑व्रतं मा॒यिनं॒ दाति॑वारम् ।
म॒यो॒भुवो॒ ये अमि॑ता महि॒त्वा वन्द॑स्व विप्र तुवि॒राध॑सो॒ नॄन् ॥

03 आ वो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ वो॑ यन्तूदवा॒हासो॑ अ॒द्य वृ॒ष्टिं ये विश्वे॑ म॒रुतो॑ जु॒नन्ति॑ ।
अ॒यं यो अ॒ग्निर्म॑रुतः॒ समि॑द्ध ए॒तं जु॑षध्वं कवयो युवानः ॥

04 यूयं राजानमिर्यम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यू॒यं राजा॑न॒मिर्यं॒ जना॑य विभ्वत॒ष्टं ज॑नयथा यजत्राः ।
यु॒ष्मदे॑ति मुष्टि॒हा बा॒हुजू॑तो यु॒ष्मत्सद॑श्वो मरुतः सु॒वीरः॑ ॥

05 अरा इवेदचरमा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒रा इ॒वेदच॑रमा॒ अहे॑व॒ प्रप्र॑ जायन्ते॒ अक॑वा॒ महो॑भिः ।
पृश्नेः॑ पु॒त्रा उ॑प॒मासो॒ रभि॑ष्ठाः॒ स्वया॑ म॒त्या म॒रुतः॒ सं मि॑मिक्षुः ॥

06 यत्प्रायासिष्थ पृषतीभिरश्वैर्विळुपविभिर्मरुतो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यत्प्राया॑सिष्ट॒ पृष॑तीभि॒रश्वै॑र्वीळुप॒विभि॑र्मरुतो॒ रथे॑भिः ।
क्षोद॑न्त॒ आपो॑ रिण॒ते वना॒न्यवो॒स्रियो॑ वृष॒भः क्र॑न्दतु॒ द्यौः ॥

07 प्रथिष्थ यामन्पृथिवी - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रथि॑ष्ट॒ याम॑न्पृथि॒वी चि॑देषां॒ भर्ते॑व॒ गर्भं॒ स्वमिच्छवो॑ धुः ।
वाता॒न्ह्यश्वा॑न्धु॒र्या॑युयु॒ज्रे व॒र्षं स्वेदं॑ चक्रिरे रु॒द्रिया॑सः ॥

08 हये नरो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ह॒ये नरो॒ मरु॑तो मृ॒ळता॑ न॒स्तुवी॑मघासो॒ अमृ॑ता॒ ऋत॑ज्ञाः ।
सत्य॑श्रुतः॒ कव॑यो॒ युवा॑नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा॑णाः ॥