०५६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

“अग्ने शर्धन्तम् ’ इति नवर्चं द्वादशं सूक्तं श्यावाश्वस्यार्षं मारुतम् । तृतीयासप्तम्यौ सतोबृहत्यौ शिष्टा बृहत्यः । ‘ अग्ने नव बार्हतं तृतीयासप्तम्यौ सतोबृहत्यौ ’ इत्यनुक्रमणिका ॥

Jamison Brereton

56 (410)
Maruts
Śyāvāśva Ātreya
9 verses: br̥hatī, except satobr̥hatī 3, 7
Unlike the previous Marut hymns, this one introduces—and indeed begins with— other personnel besides the Maruts. The first word in the hymn is a vocative addressed to the god Agni, and he (or perhaps the poet) is addressed elsewhere in the hymn (vss. 2, 5). The Earth appears in verse 3 as a literally battered woman, a remarkable image, and this female figure anticipates that of Rodasī, frequent com panion and consort of the Maruts, in verses 8–9.
The poet repeatedly calls the Maruts to come here: the forms “I call,” “we call,” and “calls” frame and punctuate the hymn (vss. 1, 2, 5, 8, 9), while the invocation of Agni at the beginning and the description of Agni in verse 7 establish the sacrifice as the goal of their journey. But it is the verses describing the journey itself (especially 3–4) that are the most memorable part of this hymn.

Jamison Brereton Notes

Maruts

01 अग्ने शर्धन्तमा - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने श᳓र्धन्तम् आ᳓ गण᳓म्
पिष्टं᳓ रुक्मे᳓भिर् अञ्जि᳓भिः
वि᳓शो अद्य᳓ मरु᳓ता᳐म् अ᳓व ह्वये
दिव᳓श् चिद् रोचना᳓द् अ᳓धि

02 यथा चिन्मन्यसे - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓था चिन् म᳓न्यसे हृदा᳓
त᳓द् इ᳓न् मे जग्मुर् आश᳓सः
ये᳓ ते ने᳓दिष्ठं ह᳓वनानि आग᳓मन्
ता᳓न् वर्ध भीम᳓संदृशः

03 मीळ्हुष्मतीव पृथिवी - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

मीळ्हु᳓ष्मतीव पृथिवी᳓ प᳓राहता
म᳓दन्ति एति अस्म᳓द् आ᳓
ऋ᳓क्षो न᳓ वो मरुतः शि᳓मीवाँ अ᳓मो
दुध्रो᳓ गउ᳓र् इव भीमयुः᳓

04 नि ये - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

नि᳓ ये᳓ रिण᳓न्ति ओ᳓जसा
वृ᳓था गा᳓वो न᳓ दुर्धु᳓रः
अ᳓श्मानं चित् स्वरि᳓यम् प᳓र्वतं गिरि᳓म्
प्र᳓ च्यावयन्ति या᳓मभिः

05 उत्तिष्ट नूनमेषाम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓त् तिष्ठ नून᳓म् एषां᳐
स्तो᳓मैः स᳓मुक्षिताना᳐म्
मरु᳓ता᳐म् पुरुत᳓मम् अ᳓पूर्वियं
ग᳓वां स᳓र्गम् इव ह्वये

06 युङ्ग्ध्वं ह्यरुषी - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

युङ्ग्ध्वं᳓ हि᳓ अ᳓रुषी र᳓थे
युङ्ग्ध्वं᳓ र᳓थेषु रोहि᳓तः
युङ्ग्ध्वं᳓ ह᳓री अजिरा᳓ धुरि᳓ वो᳓ळ्हवे
व᳓हिष्ठा धुरि᳓ वो᳓ळ्हवे

07 उत स्य - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ स्य᳓ वाजी᳓ अरुष᳓स् तुविष्व᳓णिर्
इह᳓ स्म धायि दर्शतः᳓
मा᳓ वो या᳓मेषु मरुतश् चिरं᳓ करत्
प्र᳓ तं᳓ र᳓थेषु चोदत

08 रथं नु - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

र᳓थं नु᳓ मा᳓रुतं वयं᳓
श्रवस्यु᳓म् आ᳓ हुवामहे
आ᳓ य᳓स्मिन् तस्थउ᳓ सुर᳓णानि बि᳓भ्रती
स᳓चा मरु᳓त्सु रोदसी᳓

09 तं वः - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ वः श᳓र्धं रथेशु᳓भं
त्वेष᳓म् पनस्यु᳓म् आ᳓ हुवे
य᳓स्मिन् सु᳓जाता सुभ᳓गा महीय᳓ते
स᳓चा मरु᳓त्सु मीळ्हुषी᳓