०५५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्रयज्यवः’ इति दशर्चमेकादशं सूक्तं श्यावाश्वस्यार्षं मारुतम् । दशमी त्रिष्टुप् शिष्टा जगत्यः। ‘ प्रयज्यवो दशान्त्या त्रिष्टुप् ’ इत्यनुक्रमणिका । आभिप्लविके षष्ठेऽहन्याग्निमारुत इदं सूक्तं मारुतनिविद्धानीयम् । सूत्रितं च - ‘ प्रयज्यव इमं स्तोममित्याग्निमारुतम् ’ ( आश्व. श्रौ. ७. ७ ) इति ॥

Jamison Brereton

55 (409)
Maruts
Śyāvāśva Ātreya
10 verses: jagatī, except triṣṭubh 10
The first nine of the ten verses in this hymn end with a refrain, “as they drove in beauty their chariots rolled along,” which sets the theme of the hymn. Rather than focusing on the thunderstorm and its accompanying rain (mentioned only inciden tally in vs. 5), as in the last few Marut hymns, this one primarily concerns their journey through the midspace. The hymn ends with a few verses (9–10) of invitation to the sacrifice and prayers for benefits.

Jamison Brereton Notes

Maruts

01 प्रयज्यवो मरुतो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓यज्यवो मरु᳓तो भ्रा᳓जदृष्टयो
बृह᳓द् व᳓यो दधिरे रुक्म᳓वक्षसः
ई᳓यन्ते अ᳓श्वैः सुय᳓मेभिर् आशु᳓भिः
शु᳓भं याता᳓म् अ᳓नु र᳓था अवृत्सत

02 स्वयं दधिध्वे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स्वयं᳓ दधिध्वे त᳓विषीं य᳓था विद᳓
बृह᳓न् महान्त उर्विया᳓ वि᳓ राजथ
उता᳓न्त᳓रिक्षम् ममिरे वि᳓ ओ᳓जसा
शु᳓भं याता᳓म् अ᳓नु र᳓था अवृत्सत

03 साकं जाताः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

साकं᳓ जाताः᳓ सुभु᳓वः साक᳓म् उक्षिताः᳓
श्रिये᳓ चिद् आ᳓ प्रतरं᳓ वावृधुर् न᳓रः
विरोकि᳓णः सू᳓रियस्येव रश्म᳓यः
शु᳓भं याता᳓म् अ᳓नु र᳓था अवृत्सत

04 आभूषेण्यं वो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आभूषे᳓ण्यं वो मरुतो महित्वनं᳓
दिदृक्षे᳓ण्यं सू᳓रियस्येव च᳓क्षणम्
उतो᳓ अस्माँ᳓ अमृतत्वे᳓ दधातन
शु᳓भं याता᳓म् अ᳓नु र᳓था अवृत्सत

05 उदीरयथा मरुतः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् ईरयथा मरुतः समुद्रतो᳓
यूयं᳓ वृष्टिं᳓ वर्षयथा पुरीषिणः
न᳓ वो दस्रा उ᳓प दस्यन्ति धेन᳓वः
शु᳓भं याता᳓म् अ᳓नु र᳓था अवृत्सत

06 यदश्वान्धूर्षु पृषतीरयुग्ध्वम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् अ᳓श्वान् धूर्षु᳓ पृ᳓षतीर् अ᳓युग्धुवं
हिरण्य᳓यान् प्र᳓ति अ᳓त्काँ अ᳓मुग्धुवम्
वि᳓श्वा इ᳓त् स्पृ᳓धो मरुतो वि᳓ अस्यथ
शु᳓भं याता᳓म् अ᳓नु र᳓था अवृत्सत

07 न पर्वता - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ प᳓र्वता न᳓ नदि᳓यो वरन्त वो
य᳓त्रा᳓चिध्वम् मरुतो ग᳓छथे᳓द् उ त᳓त्
उत᳓ द्या᳓वापृथिवी᳓ याथना प᳓रि
शु᳓भं याता᳓म् अ᳓नु र᳓था अवृत्सत

08 यत्पूर्व्यं मरुतो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓त् पूर्विय᳓म् मरुतो य᳓च् च नू᳓तनं
य᳓द् उद्य᳓ते वसवो य᳓च् च शस्य᳓ते
वि᳓श्वस्य त᳓स्य भवथा न᳓वेदसः
शु᳓भं याता᳓म् अ᳓नु र᳓था अवृत्सत

09 मृळत नो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

मॄळ᳓त+ नो मरुतो मा᳓ वधिष्टन
अस्म᳓भ्यं श᳓र्म बहुलं᳓ वि᳓ यन्तन
अ᳓धि स्तोत्र᳓स्य सखिय᳓स्य गातन
शु᳓भं याता᳓म् अ᳓नु र᳓था अवृत्सत

10 यूयमस्मान्नयत वस्यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यूय᳓म् अस्मा᳓न् नयत व᳓स्यो अ᳓छा
नि᳓र् अंहति᳓भ्यो मरुतो गृणानाः᳓
जुष᳓ध्वं नो हव्य᳓दातिं यजत्रा
वयं᳓ सियाम प᳓तयो रयीणा᳓म्