०५४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्र शर्धाय’ इति पञ्चदशर्चं दशमं सूक्तं श्यावाश्वस्यार्षं मरुद्देवताकम् । चतुर्दशी त्रिष्टुप् शिष्टा जगत्यः । ‘ प्र शर्धाय पञ्चोना जागतमुपान्त्या त्रिष्टुप् ’ इत्यनुक्रान्तम् । सूक्तविनियोगो लैङ्गिकः । आद्यैन्द्रामारुत्यां प्रधानस्य याज्या । सूत्रितं च - प्र शर्धाय मारुताय स्वभानव इत्यैन्द्रीमनूच्य मारुत्या यजेत् ’ ( आश्व. श्रौ. २. ११ ) इति ॥

Jamison Brereton

54 (408)
Maruts
Śyāvāśva Ātreya
15 verses: jagatī, except triṣṭubh 14
One of the most intensely descriptive of the Marut hymns, with shifting images of the violent thunderstorms and welcome rain that they provoke. There is no particular progress or development in the hymn, just the succession of exuberant descriptions. The last three verses (13–15) shift to prayers for the Maruts’ gifts and help.

Jamison Brereton Notes

Maruts

01 प्र शर्धाय - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ श᳓र्धाय मा᳓रुताय स्व᳓भानव
इमां᳓ वा᳓चम् अनजा पर्वतच्यु᳓ते
घर्मस्तु᳓भे दिव᳓ आ᳓ पृष्ठय᳓ज्वने
द्युम्न᳓श्रवसे म᳓हि नृम्ण᳓म् अर्चत

02 प्र वो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ वो मरुतस् तविषा᳓ उदन्य᳓वो
वयोवृ᳓धो अश्वयु᳓जः प᳓रिज्रयः
सं᳓ विद्यु᳓ता द᳓धति वा᳓शति त्रितः᳓
स्व᳓रन्ति आ᳓पो अव᳓ना प᳓रिज्रयः

03 विद्युन्महसो नरो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

विद्यु᳓न्महसो न᳓रो अ᳓श्मदिद्यवो
वा᳓तत्विषो मरु᳓तः पर्वतच्यु᳓तः
अब्दया᳓ चिन् मु᳓हुर् आ᳓ ह्रादुनीवृ᳓तः
स्तन᳓यदमा रभसा᳓ उ᳓दोजसः

04 व्यट्क्तून्रुद्रा व्यहानि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ अक्तू᳓न् रुद्रा वि᳓ अ᳓हानि शिक्वसो
वि᳓ अन्त᳓रिक्षं वि᳓ र᳓जांसि धूतयः
वि᳓ य᳓द् अ᳓ज्राँ अ᳓जथ ना᳓व ईं यथा
वि᳓ दुर्गा᳓णि मरुतो ना᳓ह रिष्यथ

05 तद्वीर्यं वो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓द् वीरि᳓यं वो मरुतो महित्वनं᳓
दीर्घं᳓ ततान सू᳓रियो न᳓ यो᳓जनम्
ए᳓ता न᳓ या᳓मे अ᳓गृभीतशोचिषो
अ᳓नश्वदां य᳓न् नि᳓ अ᳓यातना गिरि᳓म्

06 अभ्राजि शर्धो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓भ्राजि श᳓र्धो मरुतो य᳓द् अर्णस᳓म्
मो᳓षथा वृक्षं᳓ कपने᳓व वेधसः
अ᳓ध स्मा नो अर᳓मतिं सजोषसश्
च᳓क्षुर् ऽव° य᳓न्तम् अ᳓नु नेषथा सुग᳓म्

07 न स - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ स᳓ जीयते मरुतो न᳓ हन्यते
न᳓ स्रेधति न᳓ व्यथते न᳓ रिष्यति
ना᳓स्य रा᳓य उ᳓प दस्यन्ति नो᳓त᳓य
ऋ᳓षिं वा यं᳓ रा᳓जानं वा सु᳓षूदथ

08 नियुत्वन्तो ग्रामजितो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

नियु᳓त्वन्तो ग्रामजि᳓तो य᳓था न᳓रो
अर्यम᳓णो न᳓ मरु᳓तः कबन्धि᳓नः
पि᳓न्वन्ति उ᳓त्सं य᳓द् इना᳓सो अ᳓स्वरन्
वि᳓ उन्दन्ति पृथिवी᳓म् म᳓ध्वो अ᳓न्धसा

09 प्रवत्वतीयं पृथिवी - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्रव᳓त्वतीय᳓म् पृथिवी᳓ मरु᳓द्भियः
प्रव᳓त्वती द्यउ᳓र् भवति प्रय᳓द्भियः
प्रव᳓त्वतीः पथि᳓या अन्त᳓रिक्षियाः
प्रव᳓त्वन्तः प᳓र्वता जीर᳓दानवः

10 यन्मरुतः सभरसः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓न् मरुतः सभरसः सुवर्णरः
सू᳓र्य उ᳓दिते म᳓दथा दिवो नरः
न᳓ वो अ᳓श्वाः श्रथयन्ता᳓ह सि᳓स्रतः
सद्यो᳓ अस्य᳓ अ᳓ध्वनः पार᳓म् अश्नुथ

11 अंसेषु व - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अं᳓सेषु व ऋष्ट᳓यः पत्सु᳓ खाद᳓यो
व᳓क्षस्सु रुक्मा᳓ मरुतो र᳓थे शु᳓भः
अग्नि᳓भ्राजसो विद्यु᳓तो ग᳓भस्तियोः
शि᳓प्राः शीर्ष᳓सु वि᳓तता हिरण्य᳓यीः

12 तं नाकमर्यो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ ना᳓कम् अर्यो᳓ अ᳓गृभीतशोचिषं
रु᳓शत् पि᳓प्पलम् मरुतो वि᳓ धूनुथ
स᳓म् अच्यन्त वृज᳓ना᳓तित्विषन्त य᳓त्
स्व᳓रन्ति घो᳓षं वि᳓ततम् ऋताय᳓वः

13 युष्मादत्तस्य मरुतो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

युष्मा᳓दत्तस्य मरुतो विचेतसो
रायः᳓ सियाम रथि᳓यो व᳓यस्वतः
न᳓ यो᳓ यु᳓छति तिषि᳓यो य᳓था दिवो᳓
अस्मे᳓ रारन्त मरुतः सहस्रि᳓णम्

14 यूयं रयिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यूयं᳓ रयि᳓म् मरुत स्पार्ह᳓वीरं
यूय᳓म् ऋ᳓षिम् अवथ सा᳓मविप्रम्
यूय᳓म् अ᳓र्वन्तम् भरता᳓य वा᳓जं
यूयं᳓ धत्थ रा᳓जानं श्रुष्टिम᳓न्तम्

15 तद्वो यामि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓द् वो यामि द्र᳓विणं सद्यऊतयो
ये᳓ना सु᳓वर् ण᳓ तत᳓नाम नॄँ᳓र् अभि᳓
इदं᳓ सु᳓ मे मरुतो हर्यता व᳓चो
य᳓स्य त᳓रेम त᳓रसा शतं᳓ हि᳓माः