०५३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ को वेद जानम् ’ इति षोडशर्चं नवमं सूक्तम् । श्यावाश्व ऋषिः । आद्यापञ्चमीदशम्येकाशीपञ्चदश्यः ककुभः षष्ठीसप्तमीनवमीत्रयोदशीचतुर्दशीषोडश्यः सतोबृहत्योऽष्टमी द्वादशी च गायत्र्यौ द्वितीया बृहती तृतीयानुष्टुप् चतुर्थी पुरउष्णिक् । मरुतो देवता । तथा चानुक्रान्तं - ’ को वेद षोळश ककुब्बृहत्यनुष्टुप् पुरउष्णिक् ककुप्सतोबृहत्यौ गायत्री सतोबृहती ककुभौ गायत्री सतोबृहत्यौ ककुप्सतोबृहती ’ इति । विनियोगो लैङ्गिकः ॥

Jamison Brereton

53 (407)
Maruts
Śyāvāsva Ātreya
16 verses: kakubh 1, br̥hatī 2, anuṣṭubh 3, puraüṣṇih 4, kakubh 5, satobr̥hatī 6–7, gāyatrī 8, satobr̥hatī 9, kakubh 10–11, gāyatrī 12, satobr̥hatī 13–14, kakubh 15, satobr̥hatī 16
A metrically complex hymn, though there is no reason to consider it a composite. The internal groupings, mostly two-verse units, follow those suggested by Oldenberg (1888: 106–8). The hymn mingles descriptions of and wishes for the Maruts’ jour ney here with descriptions of the storm and the desirable rain the Maruts bring, and indeed the Maruts and the rains are sometimes identified, sometimes modulate from one to the other.

The hymn opens (vss. 1–2), as often, with questions—what is the origin of Maruts and where have they gone? The Maruts themselves answer, indirectly, in verse 3, and demand praise, which is forthcoming in verse 4. The description of a storm follows (vss. 5–7), and the Maruts are urged to come here with their rains (vss. 8–11). The poet returns in verses 12–13 to the question raised at the begin
ning: to what sacrificer have the Maruts gone? The hope is of course that they have come or will come to us, and the blessings we wish to receive are detailed in the final verses (14–16.)

Jamison Brereton Notes

Maruts For the complex metrical structure of the hymn, see published introduction. Despite the numerous different names for the meters, with few meters repeated in adjacent vss., they are all combinations of 8- and 12-syllable pādas, and so the hymns is metrically more harmonious than the long list of meters implies.

01 को वेद - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

को᳓ वेद जा᳓नम् एषां᳐
को᳓ वा पुरा᳓ सुम्ने᳓षु आस मरु᳓ताम्
य᳓द् युयुज्रे᳓ किलासि᳓यः

02 ऐतान्रथेषु तस्थुषः - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अइ᳓ता᳓न् र᳓थेषु तस्थु᳓षः
कः᳓ शुश्राव कथा᳓ ययुः
क᳓स्मै सस्रुः सुदा᳓से अ᳓नु आप᳓य
इ᳓ळाभिर् वृष्ट᳓यः सह᳓

03 ते म - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ म आहुर् य᳓ आययु᳓र्
उ᳓प द्यु᳓भिर् वि᳓भिर् म᳓दे
न᳓रो म᳓र्या अरेप᳓स
इमा᳓न् प᳓श्यन्न् इ᳓ति ष्टुहि

04 ये अञ्जिषु - पुरउष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓ अञ्जि᳓षु ये᳓ वा᳓शीषु स्व᳓भानवः
स्रक्षु᳓ रुक्मे᳓षु खादि᳓षु
श्राया᳓ र᳓थेषु ध᳓न्वसु

05 युष्माकं स्मा - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

युष्मा᳓कं स्मा र᳓थाँ अ᳓नु
मुदे᳓ दधे मरुतो जीरदानवः
वृष्टी᳓ द्या᳓वो यती᳓र् इव

06 आ यम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ यं᳓ न᳓रः सुदा᳓नवो ददाशु᳓षे
दिवः᳓ को᳓शम् अ᳓चुच्यवुः
वि᳓ पर्ज᳓न्यं सृजन्ति रो᳓दसी अ᳓नु
ध᳓न्वना यन्ति वृष्ट᳓यः

07 ततृदानाः सिन्धवः - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ततृदानाः᳓ सि᳓न्धवः क्षो᳓दसा र᳓जः
प्र᳓ सस्रुर् धेन᳓वो यथा
स्यन्ना᳓ अ᳓श्वा इवा᳓ध्वनो विमो᳓चने
वि᳓ य᳓द् व᳓र्तन्त एनि᳓यः

08 आ यात - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ यात मरुतो दिव᳓
आ᳓न्त᳓रिक्षाद् अमा᳓द् उत᳓
मा᳓व स्थात पराव᳓तः

09 मा वो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ वो रसा᳓ अ᳓नितभा कु᳓भा क्रु᳓मुर्
मा᳓ वः सि᳓न्धुर् नि᳓ रीरमत्
मा᳓ वः प᳓रि ष्ठात् सर᳓युः पुरीषि᳓णी
अस्मे᳓ ई᳓त् सुम्न᳓म् अस्तु वः

10 तं वः - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ वः श᳓र्धं र᳓थानां᳐
त्वेषं᳓ गण᳓म् मा᳓रुतं न᳓व्यसीना᳐म्
अ᳓नु प्र᳓ यन्ति वृष्ट᳓यः

11 शर्धंशर्धं व - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श᳓र्धं-शर्धं व एषां᳐
व्रा᳓तं-व्रातं गणं᳓-गणं सुशस्ति᳓भिः
अ᳓नु क्रामेम धीति᳓भिः

12 कस्मा अद्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

क᳓स्मा अद्य᳓ सु᳓जाताय
रात᳓हव्याय प्र᳓ ययुः
एना᳓ या᳓मेन मरु᳓तः

13 येन तोकाय - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓न तोका᳓य त᳓नयाय धानि᳓यम्
बी᳓जं व᳓हध्वे अ᳓क्षितम्
अस्म᳓भ्यं त᳓द् धत्तन य᳓द् व ई᳓महे
रा᳓धो विश्वा᳓यु सउ᳓भगम्

14 अतीयाम निदस्तिरः - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓तीयाम निद᳓स् तिरः᳓ सुअस्ति᳓भिर्
हित्वा᳓ अवद्य᳓म् अ᳓रातीः
वृष्टुवी᳓ शं᳓ यो᳓र् आ᳓प उस्रि᳓ भेषजं᳓
सिया᳓म मरुतः सह᳓

15 सुदेवः समहासति - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सुदेवः᳓ समहासति
सुवी᳓रो नरो मरुतः स᳓ म᳓र्तियः
यं᳓ त्रा᳓यध्वे सिया᳓म ते᳓

16 स्तुहि भोजान् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

स्तुहि᳓ भोजा᳓न् स्तुवतो᳓ अस्य या᳓मनि
र᳓णन् गा᳓वो न᳓ य᳓वसे
यतः᳓ पू᳓र्वाँ इव स᳓खीँर् अ᳓नु ह्वय
गिरा᳓ गृणीहि कामि᳓नः