०५१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ अग्ने सुतस्य ’ इति पञ्चदशर्चं सप्तमं सूक्तम् । अत्रेयमनुक्रमणिका- अग्ने पञ्चोना चतस्रो गायत्र्यः षळुष्णिहस्तिस्रो जगत्यस्त्रिष्टुभो वान्त्ये अनुष्टुभौ ’ इति ।’ ऋषिश्चान्यस्मात् ’ इति परिभाषया स्वस्त्यात्रेय ऋषिः । आदितश्चतस्रो गायत्र्यः पञ्चम्याद्याः षडुष्णिह एकादश्याद्यास्तिस्रो जगत्यस्त्रिष्टुभो वा चतुर्दशीपञ्चदश्यावनुष्टुभौ विश्वे देवा देवता ॥ (स्मार्ते प्रत्यवरोहणे इदं सूक्तं जप्यम् । चतुर्थं संहाय सौर्याणि स्वस्त्ययनानि च जपित्वेति सूत्रितम् । गुरुणा प्रसक्ष्यमाणः सर्वतोभये होमे कृते स्वस्ति नो मिमीतामिति सूक्तशेषं जपेत् । तथा च सूत्रम् - स्वस्त्यात्रेयं जपति यतैन्द्रं भयामह इति सूक्तशेषमिति । स्मार्ते शान्तिकर्मण्यपि एतत्सूक्तं जप्यम् । गुरुणाभिमृता इति खण्डे उदिते आदित्ये सौर्याणि च स्वस्त्ययनानि च जपेदिति सूत्रात् ।।)

Jamison Brereton

51 (405)
All Gods
Svastyātreya Ātreya
15 verses: gāyatrī 1–4, uṣṇih 5–10, jagatī or triṣṭubh 11–13, anuṣṭubh 14–15
The last of the All God hymns in Maṇḍala V, this hymn is far too long (fifteen verses) for the position it holds, after a series of five-verse hymns. It is also not unified metrically. It likely originally consisted of separate hymns, verses 1–4, 5–7, 8–10, with 11–15 as a later addition.
Both in content and form, all the segments are simple, predictable, and closely tied to the soma-drinking of various gods, especially those appropriate to the morn ing soma-pressing. This collection of strictly liturgical verses provides a curious finale to the highly wrought, intellectually challenging, and deeply serious All God hymns in this collection.

Jamison Brereton Notes

All Gods On the structure of this composite hymn, see published introduction. It is bland and featureless throughout, reminding us that there must have been a lot of mediocre Rigvedic poets and/or ritual occasions that did not require (or pay for) the best of what the poets had to offer.

01 अग्ने सुतस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॑ सु॒तस्य॑ पी॒तये॒ विश्वै॒रूमे॑भि॒रा ग॑हि ।
दे॒वेभि॑र्ह॒व्यदा॑तये ॥

02 ऋतधीतय आ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ऋत॑धीतय॒ आ ग॑त॒ सत्य॑धर्माणो अध्व॒रम् ।
अ॒ग्नेः पि॑बत जि॒ह्वया॑ ॥

03 विप्रेभिर्विप्र सन्त्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

विप्रे॑भिर्विप्र सन्त्य प्रात॒र्याव॑भि॒रा ग॑हि ।
दे॒वेभिः॒ सोम॑पीतये ॥

04 अयं सोमश्चमू - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒यं सोम॑श्च॒मू सु॒तोऽम॑त्रे॒ परि॑ षिच्यते ।
प्रि॒य इन्द्रा॑य वा॒यवे॑ ॥

05 वायवा याहि - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

वाय॒वा या॑हि वी॒तये॑ जुषा॒णो ह॒व्यदा॑तये ।
पिबा॑ सु॒तस्यान्ध॑सो अ॒भि प्रयः॑ ॥

06 इन्द्रश्च वायवेषाम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑श्च वायवेषां सु॒तानां॑ पी॒तिम॑र्हथः ।
ताञ्जु॑षेथामरे॒पसा॑व॒भि प्रयः॑ ॥

07 सुता इन्द्राय - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

सु॒ता इन्द्रा॑य वा॒यवे॒ सोमा॑सो॒ दध्या॑शिरः ।
नि॒म्नं न य॑न्ति॒ सिन्ध॑वो॒ऽभि प्रयः॑ ॥

08 सजूर्विश्वेभिर्देवेभिरश्विभ्यामुषसा सजूः - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒जूर्विश्वे॑भिर्दे॒वेभि॑र॒श्विभ्या॑मु॒षसा॑ स॒जूः ।
आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ॥

09 सजूर्मित्रावरुणाभ्यां सजूः - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒जूर्मि॒त्रावरु॑णाभ्यां स॒जूः सोमे॑न॒ विष्णु॑ना ।
आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ॥

10 सजूरादित्यैर्वसुभिः सजूरिन्द्रेण - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒जूरा॑दि॒त्यैर्वसु॑भिः स॒जूरिन्द्रे॑ण वा॒युना॑ ।
आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ॥

11 स्वस्ति नो - जगती त्रिष्टुब्वा

विश्वास-प्रस्तुतिः ...{Loading}...

स्व॒स्ति नो॑ मिमीताम॒श्विना॒ भगः॑ स्व॒स्ति दे॒व्यदि॑तिरन॒र्वणः॑ ।
स्व॒स्ति पू॒षा असु॑रो दधातु नः स्व॒स्ति द्यावा॑पृथि॒वी सु॑चे॒तुना॑ ॥

12 स्वस्तये वायुमुप - जगती त्रिष्टुब्वा

विश्वास-प्रस्तुतिः ...{Loading}...

स्व॒स्तये॑ वा॒युमुप॑ ब्रवामहै॒ सोमं॑ स्व॒स्ति भुव॑नस्य॒ यस्पतिः॑ ।
बृह॒स्पतिं॒ सर्व॑गणं स्व॒स्तये॑ स्व॒स्तय॑ आदि॒त्यासो॑ भवन्तु नः ॥

13 विश्वे देवा - जगती त्रिष्टुब्वा

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वे॑ दे॒वा नो॑ अ॒द्या स्व॒स्तये॑ वैश्वान॒रो वसु॑र॒ग्निः स्व॒स्तये॑ ।
दे॒वा अ॑वन्त्वृ॒भवः॑ स्व॒स्तये॑ स्व॒स्ति नो॑ रु॒द्रः पा॒त्वंह॑सः ॥

14 स्वस्ति मित्रावरुणा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्व॒स्ति मि॑त्रावरुणा स्व॒स्ति प॑थ्ये रेवति ।
स्व॒स्ति न॒ इन्द्र॑श्चा॒ग्निश्च॑ स्व॒स्ति नो॑ अदिते कृधि ॥

15 स्वस्ति पन्थामनु - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्व॒स्ति पन्था॒मनु॑ चरेम सूर्याचन्द्र॒मसा॑विव ।
पुन॒र्दद॒ताघ्न॑ता जान॒ता सं ग॑मेमहि ॥