०३९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ यदिन्द्र चित्र ’ इति पञ्चर्चं सप्तमं सूक्तमत्रेरार्षमैन्द्रम् । अन्त्या पङ्क्तिः शिष्टाः पडक्त्यन्तपरिभाषयानुष्टुभः । ’ यदिन्द्र पङ्क्त्यन्तम् ’ इत्यनुक्रमणिका ।। आभिप्लविकेषूक्थ्येषु तृतीयसवने आद्यस्तृचोऽच्छावाकस्य वैकल्पिकः स्तोत्रियः । सूत्रितं च-’ यदिन्द्र चित्र मेहना यस्ते साधिष्टोऽवसे ’ ( आश्व. श्रौ. ७. ८) इति ।।

Jamison Brereton

39 (393)
Indra
Atri Bhauma
5 verses: anuṣṭubh, except paṅkti 5
As was already noted, this hymn is paired with V.38, sharing some vocabulary and themes, but this one is more coherent in both syntax and thought. The first three verses urge Indra to give in abundance, while in the last two (4–5) the poet urges his fellow Atris to praise the god.

Jamison Brereton Notes

Indra As was noted in the published introduction, this hymn is twinned with V.38 in Vālakhilya fashion, though it does not give as much help as it might in interpreting the previous hymn.

01 यदिन्द्र चित्र - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् इन्द्र चित्र मेह᳓ना
अ᳓स्ति त्वा᳓दातम् अद्रिवः
रा᳓धस् त᳓न् नो विदद्वस
उभयाहस्ति आ᳓ भर

02 यन्मन्यसे वरेण्यमिन्द्र - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓न् म᳓न्यसे व᳓रेणियम्
इ᳓न्द्र द्युक्षं᳓ त᳓द् आ᳓ भर
विद्या᳓म त᳓स्य ते वय᳓म्
अ᳓कूपारस्य दाव᳓ने

03 यत्ते दित्सु - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓त् ते दित्सु᳓ प्ररा᳓धियम्
म᳓नो अ᳓स्ति श्रुत᳓म् बृह᳓त्
ते᳓न दॄळ्हा᳓+ चिद् अद्रिव
आ᳓ वा᳓जं दर्षि सात᳓ये

04 मंहिष्टं वो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मं᳓हिष्ठं वो मघो᳓नां᳐
रा᳓जानं चर्षणीना᳐᳓म्
इ᳓न्द्रम् उ᳓प प्र᳓शस्तये
पूर्वी᳓भिर् जुजुषे गि᳓रः

05 अस्मा इत्काव्यम् - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓स्मा इ᳓त् का᳓वियं व᳓च
उक्थ᳓म् इ᳓न्द्राय शं᳓सियम्
त᳓स्मा उ ब्र᳓ह्मवाहसे
गि᳓रो वर्धन्ति अ᳓त्रयो
गि᳓रः शुम्भन्ति अ᳓त्रयः