०३६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘स आ गमत्’ इति षडृचं चतुर्थ सूक्तम् । आङ्गिरसः प्रभूवसुर्ऋषिः । तृतीया जगती शिष्टा अनुक्तत्वात् त्रिष्टुभः । इन्द्रो देवता । अनुक्रान्तं च – स आ गमत् षट् तृतीया जगती’ इति ॥ विनियोगो लैङ्गिकः ॥

Jamison Brereton

36 (390)
Indra
Prabhūvasu Āṅgirasa
6 verses: triṣṭubh, except jagatī 3
Like the preceding hymn, attributed to the same poet, this one keeps its focus on Indra, but is less predictable in its phraseology. The first four verses deploy a series of similes characterizing Indra, the soma, and the singer(s). Verse 5 plays heav ily with the word “bull” (vŕ̥ṣan) for Indra and his accoutrements, a device that returns more insistently in the first four verses of V.40. The final verse (6) is a short dānastuti to the patron Śrutaratha (“[Having a] Famous Chariot”), whose name may have inspired the wheel and chariot imagery of verse 3: the phrase “from the chariot” in that verse is somewhat puzzling on the surface, but if it slyly expresses the hope that the singer will become one “possessing many goods from (Famous) Chariot,” it may be a prefiguring of the dānastuti.

Jamison Brereton Notes

Indra

01 स आ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स आ ग॑म॒द् इन्द्रो॒ यो वसू॑नां॒
चिके॑त॒द् दातुं॒ दाम॑नो(=दातृमनाः) रयी॒णाम् ।
ध॒न्व॒(=निर्जलदेश‌/धनुष्)-च॒रो न वंस॑गस्(→वृषः) तृषा॒णश्(=तृषितः)
च॑कमा॒नः(=कामयमानः [उत्साहेन]) पि॑बतु दु॒ग्धम् अं॒शुम्(=लता-खण्डम्)
(वृषराशी सोमक-मृगशीर्ष-राशि-पार्श्व-वर्तीति स्मरणीयम्।)

02 आ ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ ते॒ हनू॑ हरिवः(=हरिवन्) शूर॒ शिप्रे॒(=कपोले)
रुह॒त् सोमो॒ न पर्व॑तस्य पृ॒ष्ठे ।
अनु॑ त्वा राज॒न्न् अर्व॑तो॒(=वाजिन) न हि॒न्वन्(=प्रीणयन्)
गी॒र्भिर् म॑देम पुरु-हूत॒ विश्वे॑ ॥

03 चक्रं न - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

च॒क्रं न वृ॒त्तं पु॑रुहूत वेपते॒(=कम्पते)
मनो॑ भि॒या मे॒ (तव मयि‌/ मम त्वयि)अम॑ते॒र् इद् अ॑द्रिवः(=अद्रिवन् →मेघवान्)
(त्वद्दत-)रथा॒द् अधि॑ त्वा जरि॒ता स॑दा-वृध,
कु॒विन्(=बहुलं) नु (मादृशः) स्तो॑षन्(=स्तोष्यति) मघ-वन् पुरू॒-वसुः॑ ॥ (रथशब्देन यजमानस्य श्रुतरथस्य नाम्नो ध्वनिः।)

04 एष ग्रावेव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒ष (सवन)ग्रावे॑व जरि॒ता त॑ इ॒न्द्र
+इय॑र्ति॒(=प्रेरयति) वाचं॑ बृ॒हद् आ॑शुषा॒णः(←शुष्)
प्र स॒व्येन॑ (हस्तेन) मघव॒न् यंसि॑(=यच्छसि) रा॒यः
प्र द॑क्षि॒णिद् (हस्तेन) +ह॑रिवो॒ - मा वि वे॑नः(←वेन् गतौ)

05 वृषा त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वृषा॑(=वर्षयित्री →बलवती) त्वा॒ वृष॑णं (यथा तथा) वर्धतु॒(←णिचो लोपः) द्यौर्
वृषा॒ वृष॑भ्यां(=सेक्तृभ्यां → बलवद्भ्यां) वहसे॒ हरि॑भ्याम् ।
स नो॒ वृषा॒ (ताभ्यां हरिभ्यां) वृष॑-रथः सु-शिप्र॒(=कपोल)
वृष॑-क्रतो॒(=निश्चय) (तेनाऽपि) वृषा॑ वज्रि॒न् भरे॑(→युधि यज्ञे वा) धाः ॥

06 यो रोहितौ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो रोहि॑तौ वा॒जिनौ॑ वा॒जिनी॑(=अश्वी)-वान्
त्रि॒भिः श॒तैः (नाणकैः वा) सच॑माना॒व्(=सङ्गच्छमानौ) अदि॑ष्ट(=अदात् [मे])
यूने॒ सम् अ॑स्मै क्षि॒तयो॑(=प्रजाः) नमन्तां
श्रु॒त-र॑थाय (यजमानाय हे इन्द्रसहाया) मरुतो दुवो॒या(=परिचर्यया)