०३५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

यस्ते साधिष्ठः’ इत्यष्टर्चं तृतीयं सूक्तम् । अङ्गिरोगोत्रः प्रभूवसुर्नाम ऋषिः । अन्त्या पङ्क्तिः । पङ्क्त्यन्तपरिभाषया शिष्टा अनुष्टुभः । इन्द्रो देवता । ’ यस्तेऽष्टौ प्रभूवसुराङ्गिरसः पङ्क्त्यन्तम् ’ इत्यनुक्रान्तम् । सूक्तविनियोगो लैङ्गिकः । आभिप्लविकेषूक्थ्येषु तृतीयसवने आद्यस्तृचोऽच्छावाकस्य वैकल्पिकोऽनुरूपः । सूत्रितं च – यस्ते साधिष्ठोऽवसे पुरां भिन्दुर्युवा कविः ’ ( आश्व. श्रौ. ७. ८) इति । द्वितीयतृतीययोः स्वरसाम्नोश्चाद्यौ तृचावनुरूपौ। “यस्ते साधिष्ठोऽवस इति षळनुष्टुभः ’ ( आश्व. श्रौ. ८. ५) इति हि सूत्रितम् ॥

Jamison Brereton

35 (389)
Indra
Prabhūvasu Āṅgirasa
8 verses: anuṣṭubh, except paṅkti 8
A simple hymn calling on Indra for help, the word that provides the outer skeleton of the hymn: forms of the root “help” (√av) as noun or verb are found in the first three verses and the last two (7–8). The interior verses (4–6) simply provide conven tional praise of Indra’s powers.

Jamison Brereton Notes

Indra

01 यस्ते साधिष्टोऽवस - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्ते॒ साधि॒ष्ठोऽव॑स॒ इन्द्र॒ क्रतु॒ष्टमा भ॑र ।
अ॒स्मभ्यं॑ चर्षणी॒सहं॒ सस्निं॒ वाजे॑षु दु॒ष्टर॑म् ॥

02 यदिन्द्र ते - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यदि॑न्द्र ते॒ चत॑स्रो॒ यच्छू॑र॒ सन्ति॑ ति॒स्रः ।
यद्वा॒ पञ्च॑ क्षिती॒नामव॒स्तत्सु न॒ आ भ॑र ॥

03 आ तेऽवो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ तेऽवो॒ वरे॑ण्यं॒ वृष॑न्तमस्य हूमहे ।
वृष॑जूति॒र्हि ज॑ज्ञि॒ष आ॒भूभि॑रिन्द्र तु॒र्वणिः॑ ॥

04 वृषा ह्यसि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वृषा॒ ह्यसि॒ राध॑से जज्ञि॒षे वृष्णि॑ ते॒ शवः॑ ।
स्वक्ष॑त्रं ते धृ॒षन्मनः॑ सत्रा॒हमि॑न्द्र॒ पौंस्य॑म् ॥

05 त्वं तमिन्द्र - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं तमि॑न्द्र॒ मर्त्य॑ममित्र॒यन्त॑मद्रिवः ।
स॒र्व॒र॒था श॑तक्रतो॒ नि या॑हि शवसस्पते ॥

06 त्वामिद्वृत्रहन्तम जनासो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वामिद्वृ॑त्रहन्तम॒ जना॑सो वृ॒क्तब॑र्हिषः ।
उ॒ग्रं पू॒र्वीषु॑ पू॒र्व्यं हव॑न्ते॒ वाज॑सातये ॥

07 अस्माकमिन्द्र दुष्थरम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्माक॑मिन्द्र दु॒ष्टरं॑ पुरो॒यावा॑नमा॒जिषु॑ ।
स॒यावा॑नं॒ धने॑धने वाज॒यन्त॑मवा॒ रथ॑म् ॥

08 अस्माकमिन्द्रेहि नो - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्माक॑मि॒न्द्रेहि॑ नो॒ रथ॑मवा॒ पुरं॑ध्या ।
व॒यं श॑विष्ठ॒ वार्यं॑ दि॒वि श्रवो॑ दधीमहि दि॒वि स्तोमं॑ मनामहे ॥