०३३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

चतुर्थे प्रथमाध्यायं व्याख्याय व्याकृतिक्षमः ।

सुधीः श्रीसायणाचार्यों द्वितीयं व्याचिकीर्षति ।

तत्रात्रेः पञ्चमे मण्डले तृतीयेऽनुवाके द्वादश सूक्तानि । तत्र ‘महि महे ’ इति दशर्चं प्रथमं सूक्तम् । प्रजापतिपुत्रः संवरणाख्यः ऋषिः । त्रिष्टुप् छन्दः । इन्द्रो देवता । तथा चानुक्रान्तं– ’ महि दश प्राजापत्यः संवरणः’ । विनियोगो लैङ्गिकः ॥

Jamison Brereton

33 (387)
Indra
Saṃvaraṇa Prājāpatya
10 verses: triṣṭubh
The structure of this hymn is relatively straightforward. It begins (vs. 1) with the poet’s praise of Indra, presented as an inducement to the god to come to his sacrifice, followed (vss. 2–3) by the usual tropes of a “journey” hymn, includ ing the yoking of Indra’s horses. The poet recognizes that there are competing sacrifices (vs. 4a), but continues to urge Indra to choose to come to his (vs. 5). There follow two verses (6–7) asking for gifts from Indra. The hymn ends with a three-verse dānastuti (8–10), praising the gift of horses from a number of dif ferent patrons.

Jamison Brereton Notes

Indra Although the general outline of this hymn is pretty straightforward, it is full of interpretational problems and grammatical and syntactic obscurities, and the meter is very messy.

33-34 ...{Loading}...

Jamison Brereton Notes

Indra These two hymns attributed to Saṃvaraṇa Prājāpatya are full of puzzles, many insoluble.

01 महि महे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

महि॑ म॒हे त॒वसे॑ दीध्ये॒ नॄनिन्द्रा॑ये॒त्था त॒वसे॒ अत॑व्यान् ।
यो अ॑स्मै सुम॒तिं वाज॑सातौ स्तु॒तो जने॑ सम॒र्य॑श्चि॒केत॑ ॥

02 स त्वम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स त्वं न॑ इन्द्र धियसा॒नो अ॒र्कैर्हरी॑णां वृष॒न्योक्त्र॑मश्रेः ।
या इ॒त्था म॑घव॒न्ननु॒ जोषं॒ वक्षो॑ अ॒भि प्रार्यः स॑क्षि॒ जना॑न् ॥

03 न ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न ते त॑ इन्द्रा॒भ्य१॒॑स्मदृ॒ष्वायु॑क्तासो अब्र॒ह्मता॒ यदस॑न् ।
तिष्ठा॒ रथ॒मधि॒ तं व॑ज्रह॒स्ता र॒श्मिं दे॑व यमसे॒ स्वश्वः॑ ॥

04 पुरू यत्त - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒रू यत्त॑ इन्द्र॒ सन्त्यु॒क्था गवे॑ च॒कर्थो॒र्वरा॑सु॒ युध्य॑न् ।
त॒त॒क्षे सूर्या॑य चि॒दोक॑सि॒ स्वे वृषा॑ स॒मत्सु॑ दा॒सस्य॒ नाम॑ चित् ॥

05 वयं ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व॒यं ते त॑ इन्द्र॒ ये च॒ नरः॒ शर्धो॑ जज्ञा॒ना या॒ताश्च॒ रथाः॑ ।
आस्माञ्ज॑गम्यादहिशुष्म॒ सत्वा॒ भगो॒ न हव्यः॑ प्रभृ॒थेषु॒ चारुः॑ ॥

06 पपृक्षेण्यमिन्द्र त्वे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प॒पृ॒क्षेण्य॑मिन्द्र॒ त्वे ह्योजो॑ नृ॒म्णानि॑ च नृ॒तमा॑नो॒ अम॑र्तः ।
स न॒ एनीं॑ वसवानो र॒यिं दाः॒ प्रार्यः स्तु॑षे तुविम॒घस्य॒ दान॑म् ॥

07 एवा न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒वा न॑ इन्द्रो॒तिभि॑रव पा॒हि गृ॑ण॒तः शू॑र का॒रून् ।
उ॒त त्वचं॒ दद॑तो॒ वाज॑सातौ पिप्री॒हि मध्वः॒ सुषु॑तस्य॒ चारोः॑ ॥

08 उत त्ये - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त त्ये मा॑ पौरुकु॒त्स्यस्य॑ सू॒रेस्त्र॒सद॑स्योर्हिर॒णिनो॒ ररा॑णाः ।
वह॑न्तु मा॒ दश॒ श्येता॑सो अस्य गैरिक्षि॒तस्य॒ क्रतु॑भि॒र्नु स॑श्चे ॥

09 उत त्ये - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त त्ये मा॑ मारु॒ताश्व॑स्य॒ शोणाः॒ क्रत्वा॑मघासो वि॒दथ॑स्य रा॒तौ ।
स॒हस्रा॑ मे॒ च्यव॑तानो॒ ददा॑न आनू॒कम॒र्यो वपु॑षे॒ नार्च॑त् ॥

10 उत त्ये - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त त्ये मा॑ ध्व॒न्य॑स्य॒ जुष्टा॑ लक्ष्म॒ण्य॑स्य सु॒रुचो॒ यता॑नाः ।
म॒ह्ना रा॒यः सं॒वर॑णस्य॒ ऋषे॑र्व्र॒जं न गावः॒ प्रय॑ता॒ अपि॑ ग्मन् ॥