०३१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ इन्द्रो रथाय’ इति त्रयोदशर्चं सप्तदशं सूक्तम् । अवस्युर्नाम आत्रेय ऋषिः । त्रिष्टुप् छन्दः । इन्द्रो देवता । ’ उग्रमयातं ’ ’ सं ह यद्वाम्’ इति पादयोः क्रमेण कुत्सोशनसौ विकल्पेन देवता । ‘ इन्द्राकुत्सा वहमाना’ इत्यस्य इन्द्रः कुत्सश्च । तथा चानुक्रान्तम् - ‘इन्द्रो रथाय सप्तोनावस्युरुप्रमिति कौत्स्यौशनसौ वा पादौ परैन्द्राकौत्सी ’ इति । विनियोगो लैङ्गिकः ॥

Jamison Brereton

31 (385)
Indra
Avasyu Ātreya
13 verses: triṣṭubh
Like the previous Indra hymns in this maṇḍala, this hymn provides a survey of Indra’s great deeds, with the ritual context for this recital made explicit in verses 5–6 and Indra’s journey to the sacrifice sketched in verses 1–2. The recital itself is fragmentary and mosaic-like, with glittering vignettes from various myths juxtaposed unordered. This fragmented nature is enhanced by abrupt switches between the past and the present/future (see, e.g., vss. 6, 11). The stories of the chariot of the Sun (vs. 11) and of Kutsa and Uśanā (vss. 7–10) encountered in V.29 recur here, vivid but enigmatic. The ritual context returns in the final two verses, with Indra’s arrival at the sacrifice (12) and prayers for Indra’s help (13).

Jamison Brereton Notes

Indra

01 इन्द्रो रथाय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो॒ रथा॑य प्र॒वतं॑ कृणोति॒ यम॒ध्यस्था॑न्म॒घवा॑ वाज॒यन्त॑म् ।
यू॒थेव॑ प॒श्वो व्यु॑नोति गो॒पा अरि॑ष्टो याति प्रथ॒मः सिषा॑सन् ॥

02 आ प्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ प्र द्र॑व हरिवो॒ मा वि वे॑नः॒ पिश॑ङ्गराते अ॒भि नः॑ सचस्व ।
न॒हि त्वदि॑न्द्र॒ वस्यो॑ अ॒न्यदस्त्य॑मे॒नाँश्चि॒ज्जनि॑वतश्चकर्थ ॥

03 उद्यत्सहः सहस - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उद्यत्सहः॒ सह॑स॒ आज॑निष्ट॒ देदि॑ष्ट॒ इन्द्र॑ इन्द्रि॒याणि॒ विश्वा॑ ।
प्राचो॑दयत्सु॒दुघा॑ व॒व्रे अ॒न्तर्वि ज्योति॑षा संववृ॒त्वत्तमो॑ऽवः ॥

04 अनवस्ते रथमश्वाय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अन॑वस् ते॒ रथ॒म् अश्वा॑य तक्ष॒न्
त्वष्टा॒ वज्रं॑ पुरुहूत द्यु॒मन्त॑म् ।
ब्र॒ह्माण॒ इन्द्रं॑ म॒हय॑न्तो अ॒र्कैर्
अव॑र्धय॒न्न् अह॑ये॒ हन्त॒वा उ॑ ॥

05 वृष्णे यत्ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वृष्णे॒ यत् ते॒ वृष॑णो(→मरुतः, ग्रावाणः) अ॒र्कम् अर्चा॒न्
इन्द्र॒ ग्रावा॑णो॒(→मेघाः) अदि॑तिः स॒जोषाः॑ ।
अ॒न॒श्वासो॒ ये प॒वयो॑(=नेमयः, वज्राणि) ऽर॒था
इन्द्रे॑षिता अ॒भ्यव॑र्तन्त॒ दस्यू॑न् ॥

06 प्र ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र ते॒ पूर्वा॑णि॒ कर॑णानि वोचं॒ प्र नूत॑ना मघव॒न्या च॒कर्थ॑ ।
शक्ती॑वो॒ यद्वि॒भरा॒ रोद॑सी उ॒भे जय॑न्न॒पो मन॑वे॒ दानु॑चित्राः ॥

07 तदिन्नु ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तदिन्नु ते॒ कर॑णं दस्म वि॒प्राहिं॒ यद्घ्नन्नोजो॒ अत्रामि॑मीथाः ।
शुष्ण॑स्य चि॒त्परि॑ मा॒या अ॑गृभ्णाः प्रपि॒त्वं यन्नप॒ दस्यूँ॑रसेधः ॥

08 त्वमपो यदवे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वम॒पो यद॑वे तु॒र्वशा॒यार॑मयः सु॒दुघाः॑ पा॒र इ॑न्द्र ।
उ॒ग्रम॑यात॒मव॑हो ह॒ कुत्सं॒ सं ह॒ यद्वा॑मु॒शनार॑न्त दे॒वाः ॥

09 इन्द्राकुत्सा वहमाना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रा॑कुत्सा॒ वह॑माना॒ रथे॒ना वा॒मत्या॒ अपि॒ कर्णे॑ वहन्तु ।
निः षी॑म॒द्भ्यो धम॑थो॒ निः ष॒धस्था॑न्म॒घोनो॑ हृ॒दो व॑रथ॒स्तमां॑सि ॥

10 वातस्य युक्तान्त्सुयुजश्चिदश्वान्कविश्चिदेषो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वात॑स्य यु॒क्तान्त्सु॒युज॑श्चि॒दश्वा॑न्क॒विश्चि॑दे॒षो अ॑जगन्नव॒स्युः ।
विश्वे॑ ते॒ अत्र॑ म॒रुतः॒ सखा॑य॒ इन्द्र॒ ब्रह्मा॑णि॒ तवि॑षीमवर्धन् ॥

11 सूरश्चिद्रथं परितक्म्यायाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सूर॑श्चि॒द्रथं॒ परि॑तक्म्यायां॒ पूर्वं॑ कर॒दुप॑रं जूजु॒वांस॑म् ।
भर॑च्च॒क्रमेत॑शः॒ सं रि॑णाति पु॒रो दध॑त्सनिष्यति॒ क्रतुं॑ नः ॥

12 आयं जना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आयं ज॑ना अभि॒चक्षे॑ जगा॒मेन्द्रः॒ सखा॑यं सु॒तसो॑ममि॒च्छन् ।
वद॒न्ग्रावाव॒ वेदिं॑ भ्रियाते॒ यस्य॑ जी॒रम॑ध्व॒र्यव॒श्चर॑न्ति ॥

13 ये चाकनन्त - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ये चा॒कन॑न्त चा॒कन॑न्त॒ नू ते मर्ता॑ अमृत॒ मो ते अंह॒ आर॑न् ।
वा॒व॒न्धि यज्यूँ॑रु॒त तेषु॑ धे॒ह्योजो॒ जने॑षु॒ येषु॑ ते॒ स्याम॑ ॥