०३०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ क्व स्य वीरः’ इति पञ्चदशर्चं षोडशं सूक्तम् । अत्रानुक्रमणिका–- क्व स्य बभ्रुर्ऋणंचयोऽप्यत्र राजा स्तुतः’ इति । बभ्रुर्ऋषिः । अनुक्तत्वात् त्रिष्टुप् । इन्द्रो देवता । ऋणंचयनामा राजापि क्वचित् स्तूयते । अतः सोऽपि देवता । तीव्रसोमाख्ये एकाहे मरुत्वतीयशस्त्रे इदं सूक्तं निविद्धानम् । सूत्रित च- तीव्रसोमेनान्नाद्यकामः क्व स्य वीरः ’ ( आश्व. श्रौ. ९. ७ ) इति ॥

Jamison Brereton

30 (384)
Indra
Babhru Ātreya
15 verses: triṣṭubh
This hymn follows a fairly straightforward chronological trajectory. The poet begins by wondering where Indra is (vs. 1), locates him on the way to the sacrifice (vs. 2), and promises the god to recite his deeds at the ceremony (vs. 3). This recital occupies the middle of the hymn (vss. 4–10), ending (vs. 11) with a return to the ritual setting, where Indra, pleased by the soma, bestows cows. This mythic model provides a smooth transition to the last four verses (12–15), the poet’s dānastuti, praising his patrons the Ruśamas and their king, R̥ṇaṃcaya (lit., “he who requites his debts”), for their gift to him of four thousand cows, plus a piece of ritual equip ment, a pot. The poet names himself in verse 14. The recital of Indra’s deeds touches on the Vala myth (vs. 4), the Vr̥tra myth (vss. 5–6), and the defeat of Namuci (vss. 7–8). The intriguing mention of the Dāsa “who made women his weapons” (vs. 9) is unfortunately more opaque; however, it may be connected with an equally opaque verse, I.104.3. In our view both passages refer to rivers controlled by the Ārya’s consistent, and perhaps indigenous, opponents, thus serving as a barrier to Ārya progress. The words “river” and “stream” (dhénā) are feminine in gender, and so these are the female “weapons” of 9a. Once Indra has recognized that the “weapons” are mere (female) streams, he leads the charge against the Dāsa foe. The cows captured in this raid may be referred to in verse 10, the same cows that Indra distributes in verse 11.

Jamison Brereton Notes

Indra There are a number of paired repetitions of words and phrases in earlier and later parts of the hymn, but not enough to define an omphalos: e.g., -senaḥ# 3d / sénāḥ# 9b; X Y cakrṣ̥ e 4a / X Y cakre 9a; yudháye 4b / 9d; áśmānam cid 4c / 8c; gávām … usríyānām 4d / 11d.

01 क्वट् स्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

क्व१॒॑ स्य वी॒रः को अ॑पश्य॒दिन्द्रं॑ सु॒खर॑थ॒मीय॑मानं॒ हरि॑भ्याम् ।
यो रा॒या व॒ज्री सु॒तसो॑ममि॒च्छन्तदोको॒ गन्ता॑ पुरुहू॒त ऊ॒ती ॥

02 अवाचचक्षं पदमस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अवा॑चचक्षं प॒दम॑स्य स॒स्वरु॒ग्रं नि॑धा॒तुरन्वा॑यमि॒च्छन् ।
अपृ॑च्छम॒न्याँ उ॒त ते म॑ आहु॒रिन्द्रं॒ नरो॑ बुबुधा॒ना अ॑शेम ॥

03 प्र नु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र नु व॒यं सु॒ते या ते॑ कृ॒तानीन्द्र॒ ब्रवा॑म॒ यानि॑ नो॒ जुजो॑षः ।
वेद॒दवि॑द्वाञ्छृ॒णव॑च्च वि॒द्वान्वह॑ते॒ऽयं म॒घवा॒ सर्व॑सेनः ॥

04 स्थिरं मनश्चकृषे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्थि॒रं मन॑श्चकृषे जा॒त इ॑न्द्र॒ वेषीदेको॑ यु॒धये॒ भूय॑सश्चित् ।
अश्मा॑नं चि॒च्छव॑सा दिद्युतो॒ वि वि॒दो गवा॑मू॒र्वमु॒स्रिया॑णाम् ॥

05 परो यत्त्वम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प॒रो यत्त्वं प॑र॒म आ॒जनि॑ष्ठाः परा॒वति॒ श्रुत्यं॒ नाम॒ बिभ्र॑त् ।
अत॑श्चि॒दिन्द्रा॑दभयन्त दे॒वा विश्वा॑ अ॒पो अ॑जयद्दा॒सप॑त्नीः ॥

06 तुभ्येदेते मरुतः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुभ्येदे॒ते म॒रुतः॑ सु॒शेवा॒ अर्च॑न्त्य॒र्कं सु॒न्वन्त्यन्धः॑ ।
अहि॑मोहा॒नम॒प आ॒शया॑नं॒ प्र मा॒याभि॑र्मा॒यिनं॑ सक्ष॒दिन्द्रः॑ ॥

07 वि षू - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि षू मृधो॑ ज॒नुषा॒ दान॒मिन्व॒न्नह॒न्गवा॑ मघवन्त्संचका॒नः ।
अत्रा॑ दा॒सस्य॒ नमु॑चेः॒ शिरो॒ यदव॑र्तयो॒ मन॑वे गा॒तुमि॒च्छन् ॥

08 युजं हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

युजं॒ हि मामकृ॑था॒ आदिदि॑न्द्र॒ शिरो॑ दा॒सस्य॒ नमु॑चेर्मथा॒यन् ।
अश्मा॑नं चित्स्व॒र्यं१॒॑ वर्त॑मानं॒ प्र च॒क्रिये॑व॒ रोद॑सी म॒रुद्भ्यः॑ ॥

09 स्त्रियो हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्त्रियो॒ हि दा॒स आयु॑धानि च॒क्रे किं मा॑ करन्नब॒ला अ॑स्य॒ सेनाः॑ ।
अ॒न्तर्ह्यख्य॑दु॒भे अ॑स्य॒ धेने॒ अथोप॒ प्रैद्यु॒धये॒ दस्यु॒मिन्द्रः॑ ॥

10 समत्र गावोऽभितोऽनवन्तेहेह - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

समत्र॒ गावो॒ऽभितो॑ऽनवन्ते॒हेह॑ व॒त्सैर्वियु॑ता॒ यदास॑न् ।
सं ता इन्द्रो॑ असृजदस्य शा॒कैर्यदीं॒ सोमा॑सः॒ सुषु॑ता॒ अम॑न्दन् ॥

11 यदीं सोमा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यदीं॒ सोमा॑ ब॒भ्रुधू॑ता॒ अम॑न्द॒न्नरो॑रवीद्वृष॒भः साद॑नेषु ।
पु॒रं॒द॒रः प॑पि॒वाँ इन्द्रो॑ अस्य॒ पुन॒र्गवा॑मददादु॒स्रिया॑णाम् ॥

12 भद्रमिदं रुशमा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भ॒द्रमि॒दं रु॒शमा॑ अग्ने अक्र॒न्गवां॑ च॒त्वारि॒ दद॑तः स॒हस्रा॑ ।
ऋ॒णं॒च॒यस्य॒ प्रय॑ता म॒घानि॒ प्रत्य॑ग्रभीष्म॒ नृत॑मस्य नृ॒णाम् ॥

13 सुपेशसं माव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सु॒पेश॑सं॒ माव॑ सृज॒न्त्यस्तं॒ गवां॑ स॒हस्रै॑ रु॒शमा॑सो अग्ने ।
ती॒व्रा इन्द्र॑मममन्दुः सु॒तासो॒ऽक्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाः ॥

14 औच्छत्सा रात्री - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

औच्छ॒त्सा रात्री॒ परि॑तक्म्या॒ याँ ऋ॑णंच॒ये राज॑नि रु॒शमा॑नाम् ।
अत्यो॒ न वा॒जी र॒घुर॒ज्यमा॑नो ब॒भ्रुश्च॒त्वार्य॑सनत्स॒हस्रा॑ ॥

15 चतुःसहस्रं गव्यस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

चतुः॑सहस्रं॒ गव्य॑स्य प॒श्वः प्रत्य॑ग्रभीष्म रु॒शमे॑ष्वग्ने ।
घ॒र्मश्चि॑त्त॒प्तः प्र॒वृजे॒ य आसी॑दय॒स्मय॒स्तम्वादा॑म॒ विप्राः॑ ॥