०२४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

• अग्ने त्वं नः’ इति चतुर्ऋचं दशमं सूक्तम् । अत्रानुक्रमणिका - अग्ने त्वं गौपायना लौपायना वा बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्चैकर्चा द्वैपदम् ’ इति । विंशतिका द्विपदा विराजः ’ इत्युक्तत्वाच्चतस्रो द्विपदा विराजः । बन्धुः सुबन्धुः श्रुतबन्धुः विप्रबन्धुश्च क्रमेण चतसृणामृषयः । ते च गौपायना लौपायना वा । अग्निर्देवता । महापितृयज्ञे आहवनीयं प्रति गच्छन्त ऋत्विज इदं सूक्तं जपेयुः । तथा च सूत्रितम् - ’ अथैनमभिसमायन्ति मा प्र गामाग्ने त्वं न इति जपन्तः ’ (आश्व. श्रौ. २. १९) इति । दशरात्रे षष्ठेऽहनि तृतीयसवने मैत्रावरुणस्य ‘अग्ने त्वम्’ इति द्वे, “तं त्वा शोचिष्ठ’ इत्येका, एवं मिलितो द्वैपदस्तृचः स्तोत्रियः । तथैव सूत्रितम् - अग्ने त्वं नो अन्तमोऽग्ने भव सुषमिधा ‘(आश्व. श्रौ. ८. २) इति ॥

Jamison Brereton

24 (378)
Agni
The Gaupāyanas or Laupāyanas: Bandhu (1), Subandhu (2) Śrutabandhu (3), and Viprabandhu (4)
4 verses: dvipadā virāj
The Anukramaṇī attributes this hymn’s four verses to four poets, all belonging to the family of the Gaupāyanas or Laupāyanas. These four poets are brothers in the Gaupāyana family according to an itihāsa (legend) that is supposed to underlie X.57–60, although it is unlikely that these R̥gvedic hymns actually refer to this story. According to the story the second brother, Subandhu, was killed and brought back to life by the other three. In this hymn, the first and third verses are for protection, while the second verse, the one attributed to Subandhu, is a more generic call for wealth. The last verse simply asks for Agni’s favor without being clear what end his favor should serve. In a general way the hymn thus fits the story of the rescue of Subandhu, since the verses surrounding his verse concern the idea of rescue. But such echoes may explain the attribution of the hymn rather than the hymn itself.

01 अग्ने त्वम् - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने तुवं᳓ नो अ᳓न्तम
उत᳓ त्राता᳓ शिवो᳓ भवा वरूथ्यः᳡

02 वसुरग्निर्वसुश्रवा अच्छा - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

व᳓सुर् अग्नि᳓र् व᳓सुश्रवा
अ᳓छा नक्षि द्युम᳓त्तमं रयिं᳓ दाः

03 स नो - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ नो बोधि श्रुधी᳓ ह᳓वम्
उरुष्या᳓ णो अघायतः᳓ समस्मात्

04 तं त्वा - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ त्वा शोचिष्ठ दीदिवः
सुम्ना᳓य नून᳓म् ईमहे स᳓खिभ्यः