०२०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ यमग्ने ’ इति चतुर्ऋचं षष्ठं सूक्तमत्रीणां प्रयस्वतामार्षमाग्नेयम् । अन्त्या पङ्क्तिः शिष्टा अनुष्टुभः । तथा चानुक्रान्तं - ‘ यमग्ने चतुष्कं प्रयस्वन्तः पङ्य्त््न्तं ह ’ इति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः । अत्रेश्चतुराख्येऽहीने द्वितीयेऽहनीदं सूक्तमाज्यशस्त्रम् । सूत्रितं च - यमग्ने वाजसातमेति द्वितीयेऽहन्याज्यम्’ (आश्व. श्रौ. १०. २) इति ॥

Jamison Brereton

20 (374)
Agni
Prayasvanta Ātreya
4 verses: anuṣṭubh
As in the previous hymn and the three that follow, the name of the poet has been extracted from the hymn itself, in this case from práyasvant “bringing pleasing offer ings” in verse 3. The dominant theme is the songs, which are explicitly mentioned in every verse except verse 2, and even there they are probably the understood object in ab. Verse 2 is the most interesting in the hymn because it is not clear to whom the poet refers. It sounds as though the people he criticizes are rival poets, who have prospered through Agni, but who are in some way not acting or not performing the ritual properly now.

01 यमग्ने वाजसातम - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यम॑ग्ने वाजसातम॒ त्वं चि॒न्मन्य॑से र॒यिम् ।
तं नो॑ गी॒र्भिः श्र॒वाय्यं॑ देव॒त्रा प॑नया॒ युज॑म् ॥

02 ये अग्ने - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ये अ॑ग्ने॒ नेरय॑न्ति ते
वृ॒द्धा उ॒ग्रस्य॒ शव॑सः ।
अप॒ द्वेषो॒ अप॒ ह्वरो॒(=अतिहिंसां),
ऽन्यव्र॑तस्य सश्चिरे ॥

03 होतारं त्वा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

होता॑रं त्वा वृणीम॒हेऽग्ने॒ दक्ष॑स्य॒ साध॑नम् ।
य॒ज्ञेषु॑ पू॒र्व्यं गि॒रा प्रय॑स्वन्तो हवामहे ॥

04 इत्था यथा - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒त्था यथा॑ त ऊ॒तये॒ सह॑सावन्दि॒वेदि॑वे ।
रा॒य ऋ॒ताय॑ सुक्रतो॒ गोभिः॑ ष्याम सध॒मादो॑ वी॒रैः स्या॑म सध॒मादः॑ ॥